|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.66. अध्यायः 066
Mahabharata - Shalya Parva - Chapter Topics
द्रौणिकृतकृतवर्मभिर्दुर्योधनस्य भूपतनदर्शनेन शोचनम्॥ 1 ॥ द्रौणिदुर्योधनयोः संलापः॥ 2 ॥ द्रौणिना रात्रौ पाण्डववधप्रतिज्ञानम्॥ 3 ॥ दुर्योधनवचनात् कृपेण द्रौणेः सैनापत्येऽफिषेचनम्॥ 4 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-66-0x(5257)(63898)
वादिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम्।
हतशिष्टास्तदा राजन्कौरवाणां महारथाः॥ 9-66-1(63899)
विनिर्भिन्नाः शितैर्बाणैर्णदातोमरशक्तिभिः।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।
त्वरिता जवनैरश्वैरायोधनमुपागमन्॥ 9-66-2(63900)
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम्।
प्रभग्नं वायुवेगेन महासालं यथा वने॥ 9-66-3(63901)
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम्।
महागर्जामेवारण्ये व्याधेन विनिपातितम्॥ 9-66-4(63902)
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम्।
यदृच्छया निपतितं चन्द्रमादित्यगोचरात्॥ 9-66-5(63903)
युगान्तमारुतेनेव शोषितं मकरालयम्।
पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम्॥ 9-66-6(63904)
रेणुध्वस्तं दीर्घभुजं मातङ्गमिव विक्रमे।
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः॥ 9-66-7(63905)
यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम्।
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम्।
सामर्षं तं नरव्याघ्रं भौमं निपतितं तथा॥ 9-66-8(63906)
ते तं दृष्ट्वा महेष्वासं भूतले पतितं नृपम्।
मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः॥ 9-66-9(63907)
अवतीर्य रथेभ्यश्च प्राद्रवन्राजसन्निधौ।
दुर्योधनं च सम्प्राप्य सर्वे भूमावुपाविशन्॥ 9-66-10(63908)
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन्।
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम्॥ 9-66-11(63909)
न नूनं विद्यते पुण्यं मानुषे किञ्चिदेव हि।
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः॥ 9-66-12(63910)
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम्।
कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने॥ 9-66-13(63911)
दुःशासनं न पश्यामि नापि कर्णं महारथम्।
नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ॥ 9-66-14(63912)
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन।
लोकनाथो भवान्यत्र शेषे पांसुषु रूषितः॥ 9-66-15(63913)
एष मूर्धाभिषिक्तानामग्रे गत्वा परन्तपः।
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम्॥ 9-66-16(63914)
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव।
सा च ते महती सेना क्व गता पार्थिवोत्तम॥ 9-66-17(63915)
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे।
यो वै लोकगुरुर्नाथो भवानेतां दशां गताः॥ 9-66-18(63916)
अध्रुवा सर्वमर्त्येषु ध्रुवैव श्रीर्विचिन्त्यते।
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम्॥ 9-66-19(63917)
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः।
उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः॥ 9-66-20(63918)
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन्।
कृपादीन्स तदा वीरान्सर्वानेव नराधिपः॥ 9-66-21(63919)
ईदृशो लोकधर्मोऽयं धात्रा निर्दिष्ट उच्यते।
विनाशः सर्वभूतानां कालपर्यायकारितः॥ 9-66-22(63920)
सोऽयं मां समनुप्राप्तः प्रत्यक्षो भवतां हि यः।
पृथिवीं पालयित्वाऽहमेतां निष्ठामुपागतः॥ 9-66-23(63921)
दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि।
दिष्ट्याऽहं निहतः पापैश्चलेनैव विशेषतः॥ 9-66-24(63922)
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता।
दिष्ट्या चास्मिन्हतो युद्धे निहतज्ञातिबान्धवः॥ 9-66-25(63923)
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात्।
स्वस्तियुक्तांश्च कल्याणांस्तन्मे प्रियमनुत्तमम्॥ 9-66-26(63924)
मा भवन्तोऽत्र तप्यन्तां सौहृदान्निधनेन मे।
यदि वेदाः प्रमाणं वो जिता लोका मयाऽक्षयाः॥ 9-66-27(63925)
जानमानः प्रभावं च कृष्णस्यामिततेजसः।
तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात्॥ 9-66-28(63926)
स मया समनुप्राप्तो नास्मि शोच्यः कथञ्चन।
कृतं भवद्भिः सदृशमनुरूपमिवात्मनः।
यतितं विजये शक्त्या दैवं तु दुरतिक्रमम्॥ 9-66-29(63927)
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः।
तूष्णीबभूव राजेन्द्र रुजाऽसौ विह्वलो भृशम्॥ 9-66-30(63928)
तथा दृष्ट्वा तु राजानं बाष्पशोकसमन्वितम्।
द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये॥ 9-66-31(63929)
स च क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च।
बाष्पविह्वलया वाचा राजानमिदमब्रवीत्॥ 9-66-32(63930)
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा।
न तथा तेन तप्यामि तथा राजंस्त्वयाऽद्य वै॥ 9-66-33(63931)
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो।
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च॥ 9-66-34(63932)
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः।
अद्य रात्रौ महाराज निहनिष्यामि पाण्डवान्॥ 9-66-35(63933)
अनुज्ञां तु महाराज भवान्मे दातुमर्हति॥ 9-66-36(63934)
तच्छ्रुत्वा वचनं द्रौणेर्धृतराष्ट्र तवात्मजः।
मनसः प्रीतिजननं कृपं वचनमब्रवीत्। 9-66-37(63935)
दुर्योधन उवाच।
आचार्य शीघ्रं कलशं जलपूर्णं समानय॥ 9-66-37x(5258)
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः।
कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत्॥ 9-66-38(63936)
तमब्रवीन्महाराज पुत्रस्तव विशाम्पते।
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम्।
सैनापत्येन भद्रं ते मम चेदिच्छसि प्रियम्॥ 9-66-39(63937)
राज्ञो नियोगाद्योद्वव्यं ब्राह्मणेन विशेषतः।
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः॥ 9-66-40(63938)
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः।
द्रौणिं राज्ञो नियोगेन सैनापत्येऽभ्यषेचयत्॥ 9-66-41(63939)
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम्।
प्रययौ सिंहनादेन दिशः सर्वा विनादयन्॥ 9-66-42(63940)
दुर्योधनोऽपि राजेन्द्र शोणितेन परिप्लुतः।
तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम्॥ 9-66-43(63941)
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप।
शोकसंविग्नमनसश्चिन्तामापेदिरे भृशम्॥ ॥ 9-66-44(63942)
इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां वैयासिक्यां शल्यपर्वणि गदायुद्धपर्वणि षट्षष्टितमोऽध्यायः॥ 66 ॥ ॥ समाप्तं गदायुद्धपर्व शल्यपर्व च॥ 9 ॥
अतः परं सौप्तिकं पर्व भविष्यति। तस्यायमाद्यः श्लोकः। 9-66-1 (63943) 9-66-1x (5259) सञ्जय उवाच। ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः। उपास्तमयवेलायां शिबिराभ्याशमागताः॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-66-5 आदित्यगोचरात्गगनात्। चक्रामादित्यगोचरमिति झ.पाठः तत्र चक्रमादित्यगोचरं सूर्यमण्डलमिवेति लुप्तोपमा॥ 9-66-18 कारणान्तरे अदृष्टरूपे सति। तेन दृष्टसामग्रीवैयर्थ्यं जायत इति भावः॥ 9-66-66 षट्षष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|