|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.65. अध्यायः 065
Mahabharata - Shalya Parva - Chapter Topics
सञ्जयेन धृतराष्ट्रंप्रति दुर्योधनविलापप्रकारकथनम्॥ 1 ॥ वादिकैरश्वत्थाम्नि दुर्योधनपातननिवेदनम्॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Text
धृतराष्ट्र उवाच। 9-65-0x(5255)(63854)
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः।
शौटीर्यमानी पुत्रो मे किमभाषत सञ्जय॥ 9-65-1(63855)
अत्यर्थं कोपनो राजा जावैरश्च पाण्डुषु।
व्यसनं परमं प्राप्तः किमाह परमाहवे॥ 9-65-2(63856)
सञ्जय उवाच। 9-65-3x(5256)
शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप।
राज्ञा यदुक्तं मग्नेन तस्मिन्व्यसनसागरे॥ 9-65-3(63857)
भग्नसक्थो नृपो राजन्पांसुना सोऽवकुण्ठितः।
यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश॥ 9-65-4(63858)
केशान्नियस्य यत्नेन निःश्वसन्नुरगो यथा।
संरम्भाश्रुपरीताब्यां नेत्राभ्यामभिवीक्ष्य माम्॥ 9-65-5(63859)
बाहू धरण्यां निष्पिष्य सुदुर्मत्त इव द्विपः।
प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन्।
गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत्॥ 9-65-6(63860)
भीष्मे शान्तनवे नाथे कर्णे शस्त्रभृतां वरे।
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे॥ 9-65-7(63861)
अश्वत्थाम्नि यथा शल्ये शूरे च कृतवर्मणि।
अन्येष्वपि च शूरेषु न्यस्तभारो महात्मसु।
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः॥ 9-65-8(63862)
एकादशचमूभर्ता सोऽहमेतां दशां गतः।
कालं प्राप्य महाबाहो न कश्चिदतिवर्तते॥ 9-65-9(63863)
आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संयुगे।
यथाऽहं भीमसेनेन व्युत्क्रम्य समयं हतः॥ 9-65-10(63864)
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः।
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च धीमति॥ 9-65-11(63865)
इदं च गर्हितं कर्म नृशंसैः पाण्डवैः कृतम्।
येन ते वाच्यतां सत्सु गमिष्यन्तीति मे मतिः॥ 9-65-12(63866)
का प्रीतिः सत्वयुक्तस्य कृत्वोपाधिकृतं जयम्।
को वा समयभेत्तारं बुधः सम्मन्तुमर्हति॥ 9-65-13(63867)
अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः।
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः॥ 9-65-14(63868)
किन्नु चित्रमितस्त्वद्य भग्नसक्थस्य यन्मम।
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः॥ 9-65-15(63869)
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु।
एवं कुर्यान्नरो यो हि स वै स़ञ्जय पूरुषः॥ 9-65-16(63870)
अभिज्ञौ युद्धधर्मस्य मम माता पिता च यौ।
तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनाद्वि मे॥ 9-65-17(63871)
इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा।
मूर्ध्नि स्थितममित्राणां जीवतामेव स़ञ्जय॥ 9-65-18(63872)
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम्।
अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया॥ 9-65-19(63873)
मानिता बान्धवाः सर्वे मान्यः सम्पूजितो जनः।
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया॥ 9-65-20(63874)
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः।
आजानेयैस्तथा यातं को नु स्वन्ततरो मया॥ 9-65-21(63875)
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत्।
प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया॥ 9-65-22(63876)
अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम्।
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया॥ 9-65-23(63877)
दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः।
दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यगता विभो॥ 9-65-24(63878)
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम्।
निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया॥ 9-65-25(63879)
दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवञ्जितः।
दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः॥ 9-65-26(63880)
सुप्तं वाऽथ प्रमत्तं वा यथा हन्याद्विषेण वा।
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः॥ 9-65-27(63881)
अश्चत्थामा महाभागः कृतवर्मा च सात्वतः।
कृपः शारद्वतश्चैव वक्तव्या वचनान्मम॥ 9-65-28(63882)
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः।
विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ॥ 9-65-29(63883)
वार्तिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः।
अधर्माद्भीमसेनेन निहतोऽहं यथा रणे॥ 9-65-30(63884)
सोऽहं द्रोणं स्वर्गगतं कर्णशल्यावुभौ तथा।
वृषसेनं महावीर्यं शकुनिं चापि सौबलम्॥ 9-65-31(63885)
जलसन्धं महावीर्यं भगदत्तं च पार्थिवम्।
सोमदत्तं महेष्वासं सैन्धवं च जयद्रथम्॥ 9-65-32(63886)
दुऋशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा।
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ॥ 9-65-33(63887)
एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः।
पृष्ठतोऽनुगमिष्यामि सार्थहीनो यथाऽध्वगः॥ 9-65-34(63888)
कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम।
रोरूयामाणा दुःखार्ता दुःशला सा भविष्यति॥ 9-65-35(63889)
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम।
गान्धारीसहितश्चैव का गतिं प्रतिपत्स्यति॥ 9-65-36(63890)
नूनं लक्ष्मणमाताऽपि हतपुत्रा हतेश्वरा।
विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना॥ 9-65-37(63891)
यदि जानाति चार्वाकः परिव्राद्वाग्विशारदः।
करिष्यति महाभागो ध्रुवं चापचितिं मम॥ 9-65-38(63892)
समन्तप़ञ्चके पुण्ये त्रिषु लोकेषु विश्रुते।
अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान्॥ 9-65-39(63893)
ततो जनसहस्राणि बाष्पपूर्णानि दिशो दश॥
ससागरवना घोरा पृथिवी सचराचरा। 9-65-40(63894)
चचालाथ सनिर्हादा दिशश्चैवाविलाऽभवन्॥
ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन्। 9-65-41(63895)
व्यवहारं गदायुद्धे पार्थिवस्य च पातनम्॥
तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत। 9-65-42(63896)
`वादिका दुःखसन्तप्ताः शोकोपहतचेतसः'।
ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम्॥ ॥ 9-65-43(63897)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि पञ्चषष्टितमोऽध्यायः॥ 65 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-65-1 शौटीरः शूरः स एव शौटीर्यमात्मानं मन्यते शौटीर्यमानी॥ 9-65-16 स वै सञ्जयपूजित इति झ.पाठः॥ 9-65-20 मया मत्तः॥ 9-65-30 वार्तिकान्वार्ताहारिणः॥ 9-65-38 चार्वाको ब्राह्मणवेषधारी राक्षसः। अपचितिं प्रतीकारम्॥ 9-65-65 पञ्चषष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|