(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.63. अध्यायः 063
Mahabharata - Shalya Parva - Chapter Topics
पाञ्चालादिषु स्वस्वशिबिराण्युपगतेषु पाण्डवैर्दुर्योधनशिबिरमेत्य स्वस्वरथेभ्योऽवतरणम्॥ 1 ॥ कृष्णे रथात्प्रथमं पार्थमवतार्थ पश्चात्स्वयमप्यवतीर्णे अग्निना तद्ग्रथस्य भस्मीकरणम्॥ 2 ॥ कृष्णेनार्जुनम्प्रति रथदाहस्य कारणकथनम्॥ 3 ॥ कृष्णचोदनया पाण्डवैरोघवतीतीरे रात्रौ निवसनम्॥ 4 ॥ कृष्णेन युधिष्ठिरचोदनया गान्धार्याश्वासनाय हास्तिनपुरागमनम्॥ 5 ॥


Mahabharata - Shalya Parva - Chapter Text

9-63-0(63719)
सञ्जय उवाच। 9-63-0x(5249)
ततस्ते प्रययुः सर्वे निवासाय महीक्षितः।
शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः॥ 9-63-1(63720)
पाण्डवान्गच्छतश्चापि शिबिरं नो विशाम्पते।
महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा॥ 9-63-2(63721)
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः।
सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत॥ 9-63-3(63722)
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम्।
दुर्योधनस्य शिबिरं रङ्गवन्निःसृते जने॥ 9-63-4(63723)
गतोत्सवं पुरमिव हृतनागमिव हदम्।
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम्॥ 9-63-5(63724)
तत्रैतान्पर्युपातिष्ठन्दुर्योधन पुरःसराः।
कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः॥ 9-63-6(63725)
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः।
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः॥ 9-63-7(63726)
ततो गाण्डीवधन्वानमभ्यभाषत केशवः।
स्थितः प्रियहिते नित्यमतीव भरतर्षभ॥ 9-63-8(63727)
अवरोपय गाण्डीवमक्षयौ च महेषुधी।
अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम।
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ॥ 9-63-9(63728)
तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः॥ 9-63-10(63729)
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम्।
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः॥ 9-63-11(63730)
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि।
कपिरप्याश्वपाक्रामत्सहदेवैर्ध्वजालयैः॥ 9-63-12(63731)
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः।
अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते॥ 9-63-13(63732)
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धनः।
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः॥ 9-63-14(63733)
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो।
अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत्॥ 9-63-15(63734)
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य ह।
गोवन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना॥ 9-63-16(63735)
किमेतन्महदाश्चर्यमभवद्यदुनन्दन।
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे॥ 9-63-17(63736)
वासुदेव उवाच। 9-63-18x(5250)
द्रोणकर्णास्त्रनिर्दग्धः पूर्वमेवायमर्जुन।
मदास्थितत्वात्समरे न विशीर्णः परन्तप॥ 9-63-18(63737)
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा।
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि॥ 9-63-19(63738)
सञ्जय उवाच। 9-63-20x(5251)
ईषदुत्स्मयमानस्तु भगवान्केशवोऽरिहा।
परिष्वज्य च राजानं युधिष्ठिरमभाषत॥ 9-63-20(63739)
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः।
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः॥ 9-63-21(63740)
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ।
मुक्ता वीरक्षयादिस्मात्सङ्ग्रामान्निहतद्विषः।
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत॥ 9-63-22(63741)
उपयातमुपप्लाव्यं सह गाण्डीवधन्वना।
आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः॥ 9-63-23(63742)
एष भ्राता सखा चैव तव कृष्ण धनञ्जयः।
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो॥ 9-63-24(63743)
तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम्॥ 9-63-25(63744)
स सव्यसाची गुप्तस्ते विजयी च जनेश्वर। 9-63-26(63745)
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः।
मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात्॥ 9-63-26(63746)
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः।
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम्॥ 9-63-27(63747)
युधिष्ठिर उवाच। 9-63-28x(5252)
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन।
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरन्दरः॥ 9-63-28(63748)
भवतस्तु प्रसादेन संग्रामे बहवो हताः।
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः॥ 9-63-29(63749)
तथा तव महाबाहो पर्यायैर्बहुभिर्मया।
कर्मणआमनुसन्धानात्तेजस्वी जगति श्रुता॥ 9-63-30(63750)
उपप्लाव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत्।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः॥ 9-63-31(63751)
`एवमुक्तस्ततः कृष्णः प्रत्युवाच युधिष्ठिरम्।
न तुल्याश्चार्जुनस्येह बलेन कुरुनन्दन॥ 9-63-32(63752)
स एष सर्वाण्यस्त्राणि दिव्यानि प्राप्य शङ्करात्।
सत्समो वा विशिष्टो वा रणे त्वमिति पाण्डवः।
अनुज्ञातः पाण्डुसुतः पुनः प्रत्यागमन्महीम्॥ 9-63-33(63753)
भूतं भव्यं भविष्यच्च अनुज्ञातस्त्वया विभो।
निमेषार्धान्नरव्याघ्रो नयेदिति मतिर्मम॥ 9-63-34(63754)
द्रोणं भीष्मं कृपं कर्णं द्रोणपुत्रं जयद्रथम्।
निहन्तुं शक्नुयात्क्रुद्धो निमेषार्धाद्धनञ्जयः॥ 9-63-35(63755)
सदेवासुरगन्धर्वान्सयक्षोरगराक्षसान्।
त्रीन्वा लोकान्विजेतुं स शक्तः किमिह मानुषान्॥ 9-63-36(63756)
विधिना विहितं चासौ मया सञ्चोदितोऽपि सन्।
न चकार मतिं हन्तुं ततस्ते बलवत्तराः॥ 9-63-37(63757)
अत्र गीता मया सुष्ठु गिरः सत्या महीपते।
दर्सितं मयि सर्वं च तेनासौ जितवान्रिपून्॥ 9-63-38(63758)
अर्जुनोऽपि महाबाहुर्मया तुल्यो महीपते।
स महेश्वरलब्धास्त्रः किं न कुर्याद्विभुः प्रभो॥' 9-63-39(63759)
इत्येवमुक्ते ते वीराः शिबिरं तव भारत।
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसञ्चयान्॥ 9-63-40(63760)
रजतं जातरूपं च मणीनथ च मौक्तिकान्।
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च॥ 9-63-41(63761)
`गजानश्वान्रथांश्चैव महान्ति शयनानि च'।
दासीदासमसंख्येयं राज्योपकरणानि च॥ 9-63-42(63762)
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ।
उदक्रोशन्महाभागा नरेन्द्र विजितारयः॥ 9-63-43(63763)
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च।
अतिष्ठन्त मुहुः सर्वे पाण्डवा विगतज्वराः॥ 9-63-44(63764)
अथाब्रवीन्महाराज वासुदेवो महायशाः।
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः॥ 9-63-45(63765)
तथेत्युक्त्वा हि ते सर्वे पाण्डवाः सात्यकिस्तथा।
वासुदेवेन सहिता मङ्गलार्थं बहिर्ययुः॥ 9-63-46(63766)
ते समासाद्य सरितं पुण्यामोघवतीं नृप।
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः॥ 9-63-47(63767)
युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयन्॥ 9-63-48(63768)
तत्र ते गमनं माप्तं रोचते तव माधव।
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम॥ 9-63-49(63769)
हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः।
क्षिप्रमेव महाभाग गान्धारीं प्रशमिष्यसि।
पितामहश्च भगवान्व्यासस्तत्र भविष्यति॥ 9-63-50(63770)
ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम्॥ 9-63-51(63771)
स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान्।
दारुकं रथमारोप्य येन राजाऽम्बिकासुतः॥ 9-63-52(63772)
तमूचुः सम्प्रयास्यन्तं शैब्यसुग्रीववाहनम्।
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम्॥ 9-63-53(63773)
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः।
आससाद ततः क्षिप्रं गान्धारीं निहतात्मजाम्॥ ॥ 9-63-54(63774)

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि त्रिषष्टितमोऽध्यायः॥ 63 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-63-5 वर्षवरः षण्ढः॥ 9-63-6 दुर्योधनस्य पुरसराः दुर्योधनपुरः सराः॥ 9-63-30 तेजस्वीति गतिः श्रुता इति छ.पाठः। तथैव च महाबाहो मनुसन्तानं तेजसश्च गतीः शुभाः इति झ.पाठः॥ 9-63-63 त्रिषष्टितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.