(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.55. अध्यायः 055
Mahabharata - Shalya Parva - Chapter Topics
मित्रावरुणाश्रमे नारदाद्भीमदुर्योधनयोर्गदायुद्धोपक्रमश्राविणा बलरामेण तद्दिदृक्षया कुरुक्षेत्रं प्रत्यागमनम्॥ 1 ॥


Mahabharata - Shalya Parva - Chapter Text

वैशम्पायन उवाच। 9-55-0x(5222)
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा देयांश्च सात्वतः।
आश्रमं सुमहत्पुण्यमगमज्जनमेजय॥ 9-55-1(63269)
मधूकाम्रवणोपेतं प्लुक्षन्यग्रोधसङ्कुलम्।
चिरबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम्॥ 9-55-2(63270)
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम्।
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम्॥ 9-55-3(63271)
ते तु सर्वे महात्मानमूचू राजन्हलायुधम्।
शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः॥ 9-55-4(63272)
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम्।
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः॥ 9-55-5(63273)
अत्रैव ब्राह्मणी वृद्वा कौमारब्रह्मचारिणी।
योगयुक्ता दिवं याता तपोयुक्ता विशाम्पते॥ 9-55-6(63274)
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः।
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी॥ 9-55-7(63275)
साऽपि प्राप्य परं योगं गता स्वर्गमनुत्तमम्।
भुक्त्वाऽश्रमेऽश्वमेधस्य फलं फलवतः शुभम्॥ 9-55-8(63276)
गता स्वर्गं महाराज पूजिता च महात्मभिः।
अभिगम्याश्रमं पुण्यं स दृष्ट्वा यदुनन्दनः॥ 9-55-9(63277)
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः।
सन्ध्याकार्याणि सर्वाणि निर्वर्त्यारुरुहेऽचलम्॥ 9-55-10(63278)
नातिदूरं ततो गत्वा नगं तालध्वजो बली।
पुण्ये तीर्थवरे स्नात्वा विस्मयं परमं गतः॥ 9-55-11(63279)
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः।
सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम्॥ 9-55-12(63280)
हलायुधस्तु तत्रापि दत्त्वा दानं महाबलः।
आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ।
सन्तर्पयामास पितॄन्देवांश्च रणदुर्मदः॥ 9-55-13(63281)
तत्रोष्यैकां तु रजनीं यतिभिर्ब्राह्मणैः सह।
मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः॥ 9-55-14(63282)
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवम्।
तं देशं कारपचनात्स तस्मादाजगामह॥ 9-55-15(63283)
स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च।
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः।
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः॥ 9-55-16(63284)
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः।
आजगामाथ तं देशं यत्र रामो व्यवस्थितः॥ 9-55-17(63285)
जटामण्डलसंवीतः कुशचीरी महातपाः।
हेमदण्डधरो राजन्कमण्डलुधरस्तथा॥ 9-55-18(63286)
महतीं सुखशब्दां तां गृह्य वीणां मनोरमाम्।
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः॥ 9-55-19(63287)
प्रभवः कलहानं च नित्यं च कलहप्रियः।
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः॥ 9-55-20(63288)
प्रत्युत्थाय च तं रामः पूजयित्वा यतव्रतम्।
देवर्षिं पर्यपृच्छत्स यथावृत्तं कुरून्प्रति॥ 9-55-21(63289)
तदाऽस्याकथयद्राजन्नारदः सर्ववेदवित्।
सर्वमेतद्यथावृत्तमतीतं कुरुसंक्षयम्॥ 9-55-22(63290)
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा।
किमवस्थं तु तत्क्षत्रं ये तु तत्राभवन्नृपाः॥ 9-55-23(63291)
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन।
विस्तरश्रवणे जातं कौतूहलमतीव मे॥ 9-55-24(63292)
नारद उवाच। 9-55-25x(5223)
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा।
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः॥ 9-55-25(63293)
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान्।
एते चान्ये च बहवो हतास्तत्र महाबलाः॥ 9-55-26(63294)
प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै।
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः॥ 9-55-27(63295)
अहतांस्तु महाबाहो शृणु मे तत्र माधव॥ 9-55-28(63296)
धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः।
कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान्।
तेऽपि वै विद्रुता राम दिशो दश भयात्तदा॥ 9-55-29(63297)
दुर्योधनो हते सैन्ये विद्रुतेषु पदातिषु।
हदं द्वैपायनं नाम विवेश भृशदुःखितः॥ 9-55-30(63298)
शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा।
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन्॥ 9-55-31(63299)
स तुद्यमानो बलवान्वाग्भी राम समन्ततः।
उत्थितः स हदाद्वीरः प्रगृह्य महतीं गदाम्॥ 9-55-32(63300)
स चाप्युपागतो योद्धुं भीमेन सह साम्प्रतम्।
भविष्यति तयोरद्य युद्धं राम सुदारुणम्॥ 9-55-33(63301)
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम्।
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे॥ 9-55-34(63302)
वैशम्पायन उवाच। 9-55-35x(5224)
नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान्।
सर्वान्विसर्जयामास ये तेनाभ्यागताः सह।
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः॥ 9-55-35(63303)
सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात्।
ततः प्रीतमनाः रामः श्रुता तीर्थफलं महत्।
विप्राणां सन्निधौ श्लोकमगायदिममच्युतः॥ 9-55-36(63304)
सरस्वतीवाससमा कुतो रतिः
सरस्वतीवाससमाः कुतो गुणाः।
सरस्वतीं प्राप्य दिवं गता जनाः
सदा स्मरिष्यन्ति नदीं सरस्वतीम्॥ 9-55-37(63305)
सरस्वती सर्वनदीषु पुण्या
सरस्वती लोकशुभावहा सदा।
सरस्वतीं प्राप्य जनाः सुदुष्कृतं
सदा न शोचन्ति परत्र चेह च॥ 9-55-38(63306)
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम्।
हयैर्युक्तं रथं शुभ्रमारुरोह परन्तपः॥ 9-55-39(63307)
स शीघ्रगामिना तेन रथेन यदुपुङ्गवः।
दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्वमुपस्थितम्॥ 9-55-40(63308)
एवं तदभवद्युद्वं तुमुलं जनमेजयं।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्॥ 9-55-41(63309)
धृतराष्ट्र उवाच। 9-55-42x(5225)
राम सन्निहितं श्रुत्वा गदायुद्ध उपस्थिते।
मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय॥ ॥ 9-55-42(63310)

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः॥ 55 ॥ समाप्तं हदप्रवेशपर्व ॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-55-10 स्कन्धावाराणि सर्वाणीति क.ङ.छ.पाठः॥ 9-55-12 प्लक्षप्रस्रवणं विलमिति क.पाठः॥ 9-55-19 कच्छपीं सुखशब्दां तामिति क.छ.झ.पाठः॥ 9-55-30 दुर्योधनो हते शल्ये विद्रुतेषु कृपादिषु इति झ.पाठः॥ 9-55-38 सरस्वतीं हीनविदेशवासिनः सदा रमरिष्यन्ति इति ङ.पाठः। सरस्वतीहीनविदेशवासिनः इति क.पाठः॥ 9-55-55 पञ्चपञ्चाशत्तमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.