|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.54. अध्यायः 054
Mahabharata - Shalya Parva - Chapter Topics
दलभद्राय महर्षिभिः कुरुक्षेत्रमहिमानुवर्णनम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
ऋषय ऊचुः। 9-54-0x(5217)(63237)
प्रजापतेरुत्तरवेदिरुच्यते
सनातनं राम समन्तपञ्चकम्।
समीजिरे यत्र पुरा दिवौकसो
वरेण सत्रेण महावरप्रदाः॥ 9-54-1(63238)
पुरा च राजर्षिवरेण धीमता
बहूनि वर्षाण्यमितेन तेजसा।
प्रकृष्टमेतत्कुरुणा महात्मना
ततः कुरुक्षेत्रमितीह पप्रथे॥ 9-54-2(63239)
राम उवाच। 9-54-3x(5218)
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना।
एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः॥ 9-54-3(63240)
ऋषय ऊचुः। 9-54-4x(5219)
पुरा किल कुरुं राम कर्षन्तं सततोत्थितम्।
अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम्॥ 9-54-4(63241)
इन्द्र उवाच। 9-54-5x(5220)
किमिदं वर्तते कर्म प्रयत्नेन परेण च।
राजर्षे किमभिप्रेत्य येनेयं कृष्यते क्षितिः॥ 9-54-5(63242)
कुरुरुवाच। 9-54-6x(5221)
इह ये पुरुषाः क्षेत्रे जनिष्यन्ति शतक्रतो।
ते गमिष्यन्ति सुकृतां लोकान्पापविवर्जितान्॥ 9-54-6(63243)
अपहास्य तु तं शक्रो जगाम त्रिदिवं पुनः।
राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम्॥ 9-54-7(63244)
आगम्यागम्य चैवैनं भूयोभूयोऽपहास्य च।
शत्रक्रतुरनिर्विण्णं पृष्ट्वापृष्ट्वा जगाम ह॥ 9-54-8(63245)
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः।
ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम्॥ 9-54-9(63246)
एतच्छ्रुत्वाऽब्रुवन्देवाः सहस्राक्षमिदं वचः।
वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते॥ 9-54-10(63247)
यदि ह्यत्र प्रसूता वै स्वर्गं गच्छन्ति मानवाः।
अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति॥ 9-54-11(63248)
आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत्।
अलं खेदेन भवतः क्रियतां वचनं मम॥ 9-54-12(63249)
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः।
युधि वा निहताः सम्यगपि तिर्यग्गता नृप॥ 9-54-13(63250)
ते स्वर्गभाजो राजेन्द्र भवन्त्विह हतास्तु ये।
तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह॥ 9-54-14(63251)
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना।
जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः॥ 9-54-15(63252)
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा।
शक्रेण चाभ्यनुज्ञातः पुण्ये प्राणान्मुमोच ह॥ 9-54-16(63253)
[शक्रेण चाभ्यनुज्ञातं ब्राह्मद्यैश्च सुरैस्तथा।
नातः परतरं पुण्यं भूमेः स्थानं भविष्यति॥ 9-54-17(63254)
इह तप्स्यन्ति ये केचित्तपः परमकं नराः।
देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम्॥ 9-54-18(63255)
ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः।
तेषां सहस्रगुणितं भविष्यत्यचिरेण वै॥ 9-54-19(63256)
ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः।
यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन॥ 9-54-20(63257)
यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः।
तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति॥] 9-54-21(63258)
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः।
कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध॥ 9-54-22(63259)
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः।
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्॥ 9-54-23(63260)
`कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्।
इत्येवं निश्चितो भूत्वा तेन स्वर्गं गमिष्यति॥ 9-54-24(63261)
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्।
तथा स्थानं च मौनं च वीरासनमुपास्महे॥ 9-54-25(63262)
एवं प्रलपमानोऽपि चिन्तयंश्च मुहुर्मुहुः।
दूरस्थो यदि वा तिष्ठँल्लभेत्स्वर्गं सुनिश्चितम्'॥ 9-54-26(63263)
सुरर्षभा ब्राह्मणसत्तमाश्च
तथा नृगाद्या नरदेवमुख्याः।
इष्ट्वा महार्हैः क्रतुभिर्नृसिंह
सन्त्यज्य देहान्सुगतिं प्रपन्नाः॥ 9-54-27(63264)
तंरन्तुकारन्तुकयोर्यदन्तरं
रामहदानां च मचक्रुकस्य च।
एतत्कुरुक्षेत्रसमन्तपञ्चकं
प्रजापतेरुत्तरवेदिरुच्यते॥ 9-54-28(63265)
शिवं महापुण्यमिदं दिवौकसां
सुसम्मतं स्वर्गगुणैः समन्वितम्।
अतश्च सर्वे निहता नृपा रणे
यास्यन्ति पुण्यां गतिमक्षयां सदा॥ 9-54-29(63266)
[इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तदा।
तच्चानुमोदितं सर्वं ब्रह्मविष्णुमहेष्वरैः]॥ ॥ 9-54-30(63267)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चतुःपञ्चाशत्तमोऽध्यायः॥ 54 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-54-2 पप्रथे प्रसिद्धं बभूव॥ 9-54-3 परिष्यन्ति शतक्रतो इति झ. पाठः॥ 9-54-11 प्रमीता वै इति झ.पाठः॥ 9-54-18 ब्रह्मणः क्षयं निवासम्॥ 9-54-28 आरुन्दुकारुन्दकयोर्यदन्तरं रामह्रदाना च समन्दुकस्य इति क.पाठः। परमन्दुकस्येति ङ.छ.पाठः॥ 9-54-54 चतुःपञ्चाशत्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|