|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.53. अध्यायः 053
Mahabharata - Shalya Parva - Chapter Topics
वृद्धकन्याचरित्रकथनम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
जनमेजय उवाच। 9-53-0x(5215)(63207)
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा।
किमर्थं च तपस्तेपे को वाऽस्या नियमोऽभवत्॥ 9-53-1(63208)
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम्।
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता॥ 9-53-2(63209)
वैशम्पायन उवाच। 9-53-3x(5216)
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः।
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः।
तपसाऽथ सुतां सुभ्रूं समुत्पादितवान्विभुः॥ 9-53-3(63210)
तां च दृष्ट्वा मुनिः प्रीतः कुणिर्गार्ग्यो महायशाः।
जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम्॥ 9-53-4(63211)
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा।
महता तपसोग्रेण कृत्वाश्रममनिन्दिता॥ 9-53-5(63212)
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा।
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप॥ 9-53-6(63213)
सा पित्रा दीयमानापि पतिं नैच्छदनिन्दिता।
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत॥ 9-53-7(63214)
ततः सा तपसोग्रेण पीडयित्वाऽऽत्मनस्तनुम्।
पितृदेवार्चनरता बभूव विजने वने॥ 9-53-8(63215)
साऽऽत्मानं मन्यमाना तु कृतकृत्यं श्रमान्विता।
`जगाम वृद्धभावं तु कौमारब्रह्मचारिणी'॥ 9-53-9(63216)
वार्धकेन च राजेन्द्र तपसा चैव कर्शिता।
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम्॥ 9-53-10(63217)
चकार गमने बुद्धिं परलोकाय वै तदा।
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत्॥ 9-53-11(63218)
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे।
एवं तु श्रुतमस्माभिर्देवलोके महाव्रते॥ 9-53-12(63219)
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः।
तन्नारदवचः श्रुत्वा साऽब्रवीदृषिसंसदि॥ 9-53-13(63220)
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः।
इत्युक्तेऽस्यास्तु जग्राह पाणिं गालवसम्भवः॥ 9-53-14(63221)
ऋषिः प्राक् शृङ्गवान्नाम समयं चेममब्रवीत्।
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने॥ 9-53-15(63222)
यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह।
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा॥ 9-53-16(63223)
यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः।
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः॥ 9-53-17(63224)
सा रात्रावभवद्राजंस्तरुणी वरवर्णिनी।
दिव्याभरणवस्त्रा च दिव्यगन्धानुलेपना॥ 9-53-18(63225)
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिव श्रिया।
उवास च क्षपामेकां प्रभाते साऽब्रवीच्च तम्॥ 9-53-19(63226)
यस्त्वया समयो विप्र कृतो मे तपतां वर।
तेनोषिताऽस्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम्॥ 9-53-20(63227)
सा तु ध्यात्वाऽब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः।
वसते रजनीमेकां तर्पयित्वा दिवौकसः॥ 9-53-21(63228)
चत्वारिंशतमष्टौ च द्वौ चाष्टौ सम्यगाचरेत्।
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः॥ 9-53-22(63229)
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता।
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन्॥ 9-53-23(63230)
समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान्।
साधयित्वा तदाऽऽत्मानं तस्याः स गतिमाप्तवान्।
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः॥ 9-53-24(63231)
एतत्ते वृद्वकन्याया व्याख्यातं चरितं महत्।
तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा॥ 9-53-25(63232)
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः॥ 9-53-26(63233)
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तपः।
शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा॥ 9-53-27(63234)
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः।
पप्रच्छर्षिगणारामः कुरुक्षेत्रस्य यत्फलम्॥ 9-53-28(63235)
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम्॥ ॥ 9-53-29(63236)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रिपञ्चाशतमोऽध्यायः॥ 53 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-53-3 तपसा संयुता सुभ्रूः समुत्पनः इति छ. पाठः॥ 9-53-22 चत्वारिंशतमष्टौ चेति। प्रतिवेदं द्वादशवर्षाणीति वेदचतुष्टयाध्ययनायाष्टाचत्वारिंशद्वर्षाणि। ततो द्वै वत्सरौ स्नातकेन गुरोरानृण्यार्थं सेवा कार्या। ततोऽष्टवार्षिकीं कन्यां परिणीय तस्या यौवनावध्यष्टवर्षाणीत्यष्टपञ्चाशद्वर्षाणि ब्रह्मचर्यं सर्वस्येष्टम्॥ 9-53-24 सङ्गतिमन्वियात् इति छ. पाठः॥ 9-53-53 त्रिपञ्चाशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|