|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.52. अध्यायः 052
Mahabharata - Shalya Parva - Chapter Topics
दधीचिसारस्वतयोश्चरितवर्णनम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
वैशम्पायन उवाच। 9-52-0x(5211)(63153)
यत्रेजिवानुडुपती राजसूयेन भारत।
यस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः॥ 9-52-1(63154)
तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान्।
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह॥ 9-52-2(63155)
यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान्।
वेदानध्यापयामास पुरा सारस्वतो मुनिः॥ 9-52-3(63156)
जनमेजय उवाच। 9-52-4x(5212)
कथं द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान्।
वेदानध्यापयामास पुरा सारस्वतो मुनिः॥ 9-52-4(63157)
वैशम्पायन उवाच। 9-52-5x(5213)
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः।
दधीचिरिति विख्यातो ब्रह्मचारी जितेन्द्रियः॥ 9-52-5(63158)
तस्यातितपसः शक्रो बिभेति सततं विभो।
न स लोभयितुं शक्यः फलैर्बहुविधैरपि॥ 9-52-6(63159)
प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः।
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम्॥ 9-52-7(63160)
तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः।
समीपतो महाराज सोपातिष्ठत भामिनी॥ 9-52-8(63161)
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः।
रेतः स्कन्नं सरस्वत्यां तस्मा जग्राह निम्नगा॥ 9-52-9(63162)
कुक्षौ चाप्यदधद्वृष्टा तद्रेतः पुरुषर्षभ।
सा दधार च तं गर्भं पुत्रहेतोर्महात्मनः॥थ 9-52-10(63163)
सुषुवे चापि समये पुत्रं सारस्वतं वरम्।
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो॥ 9-52-11(63164)
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम्।
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम्।
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया॥ 9-52-12(63165)
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम्।
तत्कुक्षिणाऽहं ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम्॥ 9-52-13(63166)
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात्।
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम्॥ 9-52-14(63167)
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप पुष्कलाम्।
पितृवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः॥ 9-52-15(63168)
परिष्वज्य चिरं कालं तदा भरतसत्तम।
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः॥ 9-52-16(63169)
विश्वेदेवाः सपितरो गन्धर्वाप्सरसां गणाः।
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा॥ 9-52-17(63170)
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम्।
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव॥ 9-52-18(63171)
दधीचिरुवाच। 9-52-19x(5214)
प्रस्रुताऽसि महाभागे सरसो ब्रह्मणः पुरा।
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः॥ 9-52-19(63172)
मम प्रियकरी चापि सततं प्रियदर्शने।
तस्मात्सारस्वतं पुत्रमदधा वरवर्णिनि॥ 9-52-20(63173)
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः।
सारस्वत इति ख्यातो भविष्यति महातपाः॥ 9-52-21(63174)
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान्।
सारस्वतो महाभागे वेदानध्यापयिष्यति॥ 9-52-22(63175)
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे।
भविष्यसि महाभागे मत्प्रसादात्सरस्वति॥ 9-52-23(63176)
एवं स्त संस्तुता तेन वरं लब्ध्वा महानदी।
पुत्रमादाय मुदिता जगाम भरतर्षभ॥ 9-52-24(63177)
एतस्मिन्नेव काले तु विरोधे देवदानवैः।
शक्रः प्रहरणान्विषी लोकांस्त्रीन्विचचार ह॥ 9-52-25(63178)
न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा।
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम्॥ 9-52-26(63179)
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्याः सुरारयः।
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः॥ 9-52-27(63180)
तस्माद्यत्नादृषिश्रेष्ठो याच्यतां कार्यसिद्धये।
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून्॥ 9-52-28(63181)
स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा।
साहाय्यं नः कुरुष्वेति चकारैवाविचारयन्॥ 9-52-29(63182)
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा।
तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा॥ 9-52-30(63183)
कारयामास दिव्यानि नानाप्रहरणान्युत।
गदा वज्राणि चक्राणि गुरून्दण्डांश्च पुष्कलान्॥ 9-52-31(63184)
स हि तीव्रेण तपसा सम्भृतः परमर्षिणा।
प्रजापतिसुतेनाथ भृगुणा लोकभावनः॥ 9-52-32(63185)
अतिकायः स तेजस्वी लोकसारो विनिर्मितः।
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः॥ 9-52-33(63186)
नित्यमुद्विजते चास्य तेजसः पाकशासनः॥ 9-52-34(63187)
तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत।
भृशं क्रोधविसृष्टेन ब्रह्मतेजोद्भवेन च।
दैत्यदानववीराणां जघान नवतीर्नव॥ 9-52-35(63188)
अथ काले व्यतिक्रान्ते महत्यतिभयङ्करी।
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी॥ 9-52-36(63189)
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः।
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम्॥ 9-52-37(63190)
दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा।
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती॥ 9-52-38(63191)
न गन्तव्यमितः पुत्र तवाहारमहं सदा।
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत॥ 9-52-39(63192)
इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा।
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन्॥ 9-52-40(63193)
अथ तस्यामनावृष्ट्यामतीतायां महर्षयः।
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात्॥ 9-52-41(63194)
तेषां क्षुधापरीतानां नष्टा देवा विधावताम्।
सर्वेषामेव राजेन्द्र न किचित्प्रतिभाति ह॥ 9-52-42(63195)
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान्।
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम्॥ 9-52-43(63196)
स गत्वाऽचष्ट तेभ्यश्च सारस्वतमृषिं प्रभुम्।
स्वाध्यायममरप्रख्यं कुर्वाणं विजने वने॥ 9-52-44(63197)
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः।
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः॥ 9-52-45(63198)
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः।
शिष्यत्वमुपागच्छध्वं विधिना च ममेत्युत॥ 9-52-46(63199)
तत्राब्रुवन्मुनिगणा बालस्त्वमसि पुत्रक।
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन्॥ 9-52-47(63200)
यो ह्यधर्मेण वै ब्रूयाद्गृह्णीयाद्योऽप्यधर्मतः।
म्रियेतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ॥ 9-52-48(63201)
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्॥ 9-52-49(63202)
एतच्छ्रुत्वा वचस्तस्य मनुयस्ते विधानतः।
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे॥ 9-52-50(63203)
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे।
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात्॥ 9-52-51(63204)
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ह्युपाहरन्।
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः॥ 9-52-52(63205)
तत्रापि दत्त्वा वसु रौहिणेयो
महाबलः केशवपूर्वजोऽथ
जगाम तीर्थं मुदितः क्रमेण
तं वृद्धकन्याश्रममे व वीरः॥ ॥ 9-52-53(63206)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि द्विपञ्चाशत्तमोऽध्यायः॥ 52 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-52-5 दधीच इति इति छ.झ.पाठः॥ 9-52-12 ऋषिसंसादितं दृष्ट्वेति क.छ.पाठः। तत्र संसादितं परिवारितमित्यर्थः॥ 9-52-28 दधीचोऽस्थीनीति छ.पाठः॥ 9-52-29 प्राणत्यागं कुरुश्रेष्ठ चकारैवाविचारयषिति झ.पाठः॥ 9-52-34 अस्य मुनेः॥ 9-52-35 तेन तदस्थिजेन वज्रेण नवतीर्नव दशाधिकां अष्टशतीम॥ 9-52-52 द्विपञ्चाशत्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|