|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.50. अध्यायः 050
Mahabharata - Shalya Parva - Chapter Topics
बलभद्रस्येरद्रतीर्थादिगमनम्॥ 1 ॥ तत्तत्तीर्थमाहात्म्यकथनम्॥ 2 ॥
Mahabharata - Shalya Parva - Chapter Text

वैशम्पायन उवाच। 9-50-0x(5206)(63061)
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली।
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि॥ 9-50-1(63062)
तत्र ह्यमरराजो वै ईजे क्रतुशतेन ह।
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम्॥ 9-50-2(63063)
अनर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान्।
आजहर क्रतूंस्तत्र यथोक्तं वेदपारगैः॥ 9-50-3(63064)
तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः।
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः॥ 9-50-4(63065)
तस्य नाम्ना तु तत्तीर्थं शिवं पुण्यं सनातनम्।
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम्॥ 9-50-5(63066)
उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः।
ब्राह्मणान्पूजयित्वा च पानाच्छादुनभोजनैः॥ 9-50-6(63067)
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह।
यत्र रामो महाभागो भार्गवः सुमहातपाः॥ 9-50-7(63068)
असकृत्पृथिवीं कृत्वा हतक्षत्रियपुङ्गवाम्।
उपाध्यायं पुरस्कृत्य काश्यपं मुनिसत्तमम्॥ 9-50-8(63069)
अयजद्वाजपेयेन सोऽश्वमेधशतेन च।
प्रददौ दक्षिणार्थं च पृथिवीं सागराम्बराम्॥ 9-50-9(63070)
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय।
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान्॥ 9-50-10(63071)
पुण्यतीर्थे शुभे देशे वसु दत्त्वा हलायुधः।
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत्।
यत्रानयामास तदा राजसूयमपाम्पतिः॥ 9-50-11(63072)
दितेः सुतान्महाभागो वरुणो वै सितप्रभः।
यत्र निर्जित्य सङ्ग्रामे मानुषान्दानवांस्तथा।
गन्धर्वान्राक्षसांश्चैव वरुणः परवीरहा॥ 9-50-12(63073)
तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत।
देवानां दानवानां च त्रैलोक्यस्य भयावहः॥ 9-50-13(63074)
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय।
जायते सुमहाघोरः संक्षयः क्षत्रियान्प्रति॥ 9-50-14(63075)
हलायुधस्तदा रामस्तस्मिंस्तीर्थवरे शुभे।
तत्रस्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः॥ 9-50-15(63076)
वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः।
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः॥ 9-50-16(63077)
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम।
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत॥ 9-50-17(63078)
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः।
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह॥ 9-50-18(63079)
द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः।
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते॥ 9-50-19(63080)
एते चान्ये च बहवो योगसिद्धाः सहस्रशः।
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप॥ 9-50-20(63081)
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ।
आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे॥ 9-50-21(63082)
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत।
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः॥ 9-50-22(63083)
असितो देवलश्चैव तस्मिन्नेव महातपाः।
परमं योगमास्थाय ऋषिर्योगमवाप्तवान्॥ ॥ 9-50-23(63084)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चाशोऽध्यायः॥ 50 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-50-1 आनयामास मुनीनित्यनुषज्ज्यते। राजसूयं कर्तुमिति शेषः॥ 9-50-50 पञ्चाशत्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|