|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.47. अध्यायः 047
Mahabharata - Shalya Parva - Chapter Topics
कुमारमातृगणस्य नामकीर्तनम्॥ 1 ॥ कुमारेण तारकासुरवधः क्रौञ्चपर्वतभेदनं च॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Text
वैशम्पायन उवाच। 9-47-0x(5198)(62850)
शृणु मातृगणान्राजन्कुमारानुचरानिमान्।
कीर्त्यमानान्मया वीर सपत्नगणसूदनान्॥ 9-47-1(62851)
यशस्विनीनां मातॄणां शृणु नामानि भारत
याभिर्वायप्तास्त्रयोलोकाः कल्याणीभिश्च भागशः॥ 9-47-2(62852)
प्रभावती विशालाक्षी पालिता गोस्तानी तथा।
श्रीमती बहुला चैव तथैव बहुपुत्रिका॥ 9-47-3(62853)
अप्सुजाता च गोपाली बृहदम्बालिका तथा।
जयावती मालतिका ध्रुवरत्ना भयङ्करी॥ 9-47-4(62854)
वसुदामा च दामा च विशोका नन्दिनी तथा।
एकचूडा महाचूडा चक्रनेमिश्च भारत॥ 9-47-5(62855)
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना।
शत्रुञ्जया तथा चैव क्रोधना शलभी खरी॥ 9-47-6(62856)
माधवी शुभवक्त्रा च तीर्थसेनिश्च भारत।
गीतप्रिया च कल्याणी रुद्ररोमाऽमिताशना॥ 9-47-7(62857)
मेघस्वना भोगवती सुभ्रूश्च कनकावती।
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत॥ 9-47-8(62858)
पुन्नावती सुनक्षत्रा कन्दरा बहुयोजना।
सन्तानिका च कौरव्य कमला च महाबला॥ 9-47-9(62859)
सुदामा बहुदामा च सुप्रभा च यशस्विनी।
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला॥ 9-47-10(62860)
शतघण्टा शतानन्दा भगनन्दा च भाविनी।
वपुष्मती चन्द्रशीता भद्रकाली च भारत॥ 9-47-11(62861)
ऋक्षाम्बिका निष्कुटिका वामा चत्वरवासिनी।
सुमङ्गला स्वस्तिमती बुद्धिकामा जयप्रिया॥ 9-47-12(62862)
धनदा सुप्रसादा च भवदा च जलेश्वरी।
एडी भेडी समेडी च वेतालजननी तथा॥ 9-47-13(62863)
कण्डूतिः कालिका चैव देवमित्रा च भारत।
वसुश्रीः कोटरा चैव चित्रसेना तथाऽचला॥ 9-47-14(62864)
कुक्कुटिका शङ्खलिका तथा शकुनिका नृप।
कुण्डारिका कौकुलिका कुम्भिकाऽथ शतोदरी॥ 9-47-15(62865)
उत्क्राथिनी जलेला च महावेगा च कङ्कणा।
मनोजवा कण्टकिनी प्रघसा पूतना तथा॥ 9-47-16(62866)
केशयन्त्री त्रुटिर्वामा क्रोशनाऽथ तडित्प्रभा।
मन्दोदरी च मुण्डी च कोटरा मेघवाहिनी॥ 9-47-17(62867)
सुभगा लम्बिनी लम्बा ताम्रचूडा विकाशिनी।
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला॥ 9-47-18(62868)
पृथुवस्त्रा मधुलिका मधुकुम्भा तथैव च।
पक्षालिका मत्कुलिका जरायुर्जर्जरानना॥ 9-47-19(62869)
ख्याता दहदहा चैव तथा धमधमा नृप।
खण्डखण्डा च राजेन्द्र पूषणा मणिकुट्टिका॥ 9-47-20(62870)
अमोघा चैव कौरव्य तथा लम्बपयोधरा।
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला॥ 9-47-21(62871)
शशोकूलमुखी कृष्णा खरजङ्घा महाजवा।
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा॥ 9-47-22(62872)
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा।
कालेहिका वामनिका मुकुटा चैव भारत॥ 9-47-23(62873)
लोहिताक्षी महाकाया हरिपिण्डा च भूमिप।
एकत्वचा सुकुसुमा कृष्णकर्णी च भारत॥ 9-47-24(62874)
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा।
चतुष्पथनिकेता च गोकर्णी महिषानना॥ 9-47-25(62875)
खरकर्णी महाकर्णी भेरीस्वनमहास्वना।
शङ्खकुम्भश्रवाश्चैव भगदा च महाबला॥ 9-47-26(62876)
गणा च सुगणा चैव तथा भीत्यथ कामदा।
चतुष्पथरता चैव भूतितीर्थान्यगोचरी॥ 9-47-27(62877)
पशुदा वित्तदा चैव सुखदा च महायशाः।
पयोदा गोमहिषदा सविशाला च भारत॥ 9-47-28(62878)
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना।
नौकर्णी मुखकर्णी च विशिरा मन्थिनी तथा॥ 9-47-29(62879)
एकचन्द्रा मेघकर्णा मेघमाला विरोचना।
एताश्चान्याश्च बहवो मातरो भरतर्षभ॥ 9-47-30(62880)
कार्तिकेयानुयायिन्यो नानारूपाः सहस्रशः।
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्श्च भारत॥ 9-47-31(62881)
सबला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः।
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा॥ 9-47-32(62882)
निर्मासगात्र्यः श्वेताश्च तथा काञ्चनसन्निभाः।
कृष्णमेघनिभाश्चान्या धूम्नाश्च भरतर्षभ॥ 9-47-33(62883)
अरुणाभा महाभोगा दीर्घकेश्यः सिताम्बराः।
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः॥ 9-47-34(62884)
लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः।
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथाऽपराः॥ 9-47-35(62885)
वरदाः कामचारिण्यो नित्यं प्रमुदितास्तथा।
याम्या रौद्रास्तथा सौम्याः कौबेर्योऽथ महाबलाः॥ 9-47-36(62886)
वारुण्योऽथ च माहेन्द्यस्तथाऽऽग्नेय्यः परन्तप।
वायव्यश्चाथ कौमार्यो ब्राह्मश्च भरतर्षभ॥ 9-47-37(62887)
वैष्णव्यश्च तथा सौर्यो वाराह्यश्च महाबलाः।
रूपेणाप्सरसां तुल्या मनोहार्यो मनोरमाः॥ 9-47-38(62888)
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः।
शक्रवीर्योपमा युद्धे दीप्ता वह्निसमास्तथा॥ 9-47-39(62889)
शत्रुणां विग्रहे नित्यं भयदास्ता भवन्त्युत।
कामरूपधराश्चैव जवे वायुसमास्तथा॥ 9-47-40(62890)
अचिन्त्यबलवीर्याश्च तथाऽचिन्त्यपराक्रमाः।
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः॥ 9-47-41(62891)
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः।
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा॥ 9-47-42(62892)
नानाविचित्रवेषाश्च नानाभाषास्तथैव च।
एते चान्ये च मातॄणां गणाः शत्रुभयङ्कराः॥ 9-47-43(62893)
अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य सम्मते।
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः॥ 9-47-44(62894)
गुहाय राजशार्दूल विनाशाय सुरद्विषाम्।
महास्वनां महाघण्टां द्योतमानां सितप्रभाम्॥ 9-47-45(62895)
अरुणादित्यवर्णां च पताकां भरतर्षभ।
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम्॥ 9-47-46(62896)
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम्।
अजेयां स्वगणैर्युक्तां नाम्ना सेनां धनञ्जयाम्॥ 9-47-47(62897)
रुद्रतुल्यबलैर्युक्तां योधानामयुतैस्त्रिभिः।
न सा विजानाति रणात्कदाचिद्विनिवर्तितुम्॥ 9-47-48(62898)
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम्।
उमा ददौ विरजसी वाससी रविसप्रभे॥ 9-47-49(62899)
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम्।
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः॥ 9-47-50(62900)
गरुडो दयितं पुत्रं मयरं चित्रबर्हिणम्।
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम्॥ 9-47-51(62901)
छागं तु वरुणो राजा बलवीर्यसमन्वितम्।
कृष्णाजिनं ततो ब्रह्मा ब्रह्मण्याय ददौ प्रभुः।
समरेषु जयं चैव प्रददौ लोकभावनः॥ 9-47-52(62902)
सैनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह।
शुशुभे ज्वलितोर्चिष्मान्द्वितीय इव पावकः॥ 9-47-53(62903)
ततः पारिषदैश्चैव मातृभिश्च समन्वितः।
ययौ देत्यविनाशाय ह्लादयन्सुरपुङ्गवान्॥ 9-47-54(62904)
सा सेना नैर्ऋती भीमा सघण्टोच्छ्रितकेतना।
सभेरीशङ्खमुरजा सायुधा सपताकिनी॥ 9-47-55(62905)
शारदी द्यौरिवाभाति ज्योतिर्भिरिव शोभिता॥ 9-47-56(62906)
ततो देवनिकायास्ते नानाभूतगणास्तथा।
वादयामासुरव्याग्रा भेरीः शङ्खांश्च पुष्कलान्॥ 9-47-57(62907)
पटहान्झर्झरांश्चैव क्रकचान्गोविषाणिकान्।
आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान्॥ 9-47-58(62908)
तुष्टुवुस्ते कुमारं तु सर्वे देवाः सवासवाः।
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः॥ 9-47-59(62909)
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ।
रिपून्दन्ताऽस्मि समरे ये वो वधचिकीर्षवः॥ 9-47-60(62910)
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात्।
प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून्॥ 9-47-61(62911)
सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः।
अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना॥ 9-47-62(62912)
स निर्ययौ महासेनो महत्या सेनया वृतः।
वधाय युधि दैत्यानां रक्षार्थं च दिवोकसाम्॥ 9-47-63(62913)
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः।
महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप॥ 9-47-64(62914)
स तया भीमया देवः शुलमुद्गरहस्तया।
ज्वलितालातधारिण्या चित्राभरणवर्मया॥ 9-47-65(62915)
गदामुसलनाराचशक्तितोमरहरतया।
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः॥ 9-47-66(62916)
`तं दष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा।
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः॥ 9-47-67(62917)
अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः।
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः॥ 9-47-68(62918)
शक्त्यस्त्रं भगवान्भीमं पुनःपुनरवाकिरत्।
आदधच्चात्मनस्तेजो हविषेद्ध इवानलः॥ 9-47-69(62919)
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा।
उल्काज्वाला महाराज पपात वसुधातले॥ 9-47-70(62920)
संहादयन्तश्च तथा निर्घाताश्चापतन्क्षिपौ।
यथान्तकालसमये सुघोराः स्युस्तथा नृप॥ 9-47-71(62921)
क्षिप्ता ह्येका यदा शक्तिः सुघोराऽनलसूनुना।
ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ॥ 9-47-72(62922)
ततः प्रीतो महासेनो जघान भगवान्प्रभुः।
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम्॥ 9-47-73(62923)
वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप।
महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान्॥ 9-47-74(62924)
त्रिपादं चायुतशतैर्जघान दशभिर्वृतम्।
हदोदरं निखर्वैश्च वृतं दशभिरीश्वरः॥ 9-47-75(62925)
जघानानुचरैः सार्धं विविधायुधपाणिभिः।
तथाऽकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु॥ 9-47-76(62926)
कुमारानुचरा राजन्पूरयन्तो दिशो दश।
ननृतुश्च ववल्गुश्च जहसुश्च मुदान्विताः॥ 9-47-77(62927)
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः।
त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिरेव च॥ 9-47-78(62928)
दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे।
पताकयावधूताश्च हताः केचित्सुरद्विषः॥ 9-47-79(62929)
केचिद्धण्टारवत्रस्ता निषेदुर्वसुधातले।
केचित्प्रहरणैश्छिन्ना विनिष्पेतुर्गतायुषः॥ 9-47-80(62930)
एवं सुरद्विषोऽनेकान्बलवानाततायिनः।
जघान समरे वीरः कार्तिकेयो महाबलः॥ 9-47-81(62931)
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः।
क्रौञ्चं पर्वतमाश्रित्य देवसङ्घानबाधत॥ 9-47-82(62932)
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः।
स कार्तिकेयस्य भयात्क्रौञ्चं शरणमीयिवान्॥ 9-47-83(62933)
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम्।
शक्त्या बिभेद भगवान्कार्तिकेयोऽग्निदत्तया॥ 9-47-84(62934)
ससालस्कन्धशबलं त्रस्तवानरवारणम्।
प्रोङ्कीनोद्धान्तविहगं विनिष्पतितपन्नगम्॥ 9-47-85(62935)
गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम्।
कुरङ्गमविनिर्घोषनिनादितवनान्तरम्॥ 9-47-86(62936)
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः।
शोच्यामपि दशां प्राप्तो रराजेव सपर्वतः॥ 9-47-87(62937)
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः।
किन्नराश्च समुद्विग्नाः शक्तिपातरवोद्धताः॥ 9-47-88(62938)
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः।
प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः॥ 9-47-89(62939)
तान्निजघ्नुरतिक्रम्य कुमाराजुचरा मृधे।
स चैव भगवान्क्रुद्धो दैत्येन्द्रस्य सुतं तदा॥ 9-47-90(62940)
सहानुजं जघानाशु वृत्रं देवपतिर्यथा।
बिभेद क्रौञ्चं शक्त्या च पावकिः परवीरहा॥ 9-47-91(62941)
बहुधा चैकधा चैव कृत्वाऽऽत्मानं महाबलः।
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः॥ 9-47-92(62942)
एवम्प्रभावो भगवांस्ते भूयश्च पावकिः।
शौर्याद्द्विगुणयोगेन तेजसा यशसा श्रिया॥ 9-47-93(62943)
क्रौञ्चस्ते विनिर्भिन्नो दैत्याश्च शतशो हताः॥ 9-47-94(62944)
ततः स भगवान्देवो निहत्य विबुधद्विषः।
सभाज्यमानो विबुधैः परं हर्षमवाप ह॥ 9-47-95(62945)
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत।
मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम्।
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः॥ 9-47-96(62946)
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः।
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः॥ 9-47-97(62947)
केचिदनं व्यवस्यान्ति पितामहसुतं प्रभुम्।
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम्॥ 9-47-98(62948)
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः।
उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत॥ 9-47-99(62949)
एकधा च द्विधा चैव चतुर्धा च महाबलम्।
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः॥ 9-47-100(62950)
एतत्ते कथितं राजन्कार्तिकेयाभिषेचनम्।
शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम्॥ 9-47-1(62951)
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु।
कुमारेण महाराज त्रिविष्टपमिवापरम्॥ 9-47-2(62952)
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक्।
ददौ नैर्ऋतमुख्येभ्यस्त्रैलोक्यं पावकात्मजः॥ 9-47-3(62953)
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः।
अभिषिक्तो महाराज देवसेनापतिः सुरैः॥ 9-47-4(62954)
औशनं नाम तत्तीर्थं यत्र पूर्वमपाम्पतिः।
अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ॥ 9-47-5(62955)
अस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली।
ब्राह्मणेभ्योददौ रुक्मं वासांस्याभरणानि च॥ 9-47-6(62956)
उषित्वा रजनीं तत्र माधवः परवीरहा।
पूज्यतीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली॥ 9-47-7(62957)
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥ 9-47-8(62958)
यथाऽभिषिक्तो भगवान्स्कन्दो देवैः समागतैः।
`सेनानीश्च कृतो राजन्बाल एव महाबलः'॥ ॥ 9-47-9(62959)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि सप्तचत्वारिंशोऽध्यायः॥ 47 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|