|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.46. अध्यायः 046
Mahabharata - Shalya Parva - Chapter Topics
बृहस्पत्यादिभिः स्कन्दस्य सैनापत्येऽभिषेचनम्॥ 1 ॥ ब्रह्मादिभिः स्कन्दाय स्वस्वपारिषदानां दानम्॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Text
वैशम्पायन उवाच। 9-46-0x(5197)(62734)
ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः।
बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि॥ 9-46-1(62735)
ततो हिमवता दत्ते मणिप्रवरशोभिते।
दिव्यरत्नाचिते पुण्ये निषण्णं परमासने॥ 9-46-2(62736)
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम्।
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः॥ 9-46-3(62737)
इन्द्राविष्णू महावीर्यौ सूर्योचन्द्रमसौ तथा।
धाता चैव विधाता च तथा चैवानिलानलौ॥ 9-46-4(62738)
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वतां।
रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च॥ 9-46-5(62739)
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः।
विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह॥ 9-46-6(62740)
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः।
देवर्षिभिरसङ्ख्यातैस्तथा ब्रह्मर्षिभिस्तथा॥ 9-46-7(62741)
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः।
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः॥ 9-46-8(62742)
सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः।
पितामहः पुलस्त्यश्च पुलहश्च महातपाः॥ 9-46-9(62743)
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च।
क्रतुर्हरिः प्रचेताश्च मनुर्दक्षस्तथैव च॥ 9-46-10(62744)
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशाम्पते।
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः॥ 9-46-11(62745)
समुद्राश्च हदाश्चैव तीर्थानि विविधानि च।
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप॥ 9-46-12(62746)
अदितिर्देवमाता च हीः श्रीः स्वाहा सरस्वती।
उमा शची सिनीवाली तथैवानुमतिः कुहूः॥ 9-46-13(62747)
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम्।
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान्॥ 9-46-14(62748)
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च।
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप॥ 9-46-15(62749)
उच्चैः श्रवा हयश्रेष्ठो नागराजश्च वासुकिः।
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह॥ 9-46-16(62750)
धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः।
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये॥ 9-46-17(62751)
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः।
ते कुमाराभिषेकार्षं समाजग्मुस्ततस्ततः॥ 9-46-18(62752)
जगृहुस्ते तदा राजन्सर्वं एव दिवौकसः।
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः॥ 9-46-19(62753)
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप।
सारस्वताभिः पुण्याभिरद्भिस्ताभिरलङ्कृतम्॥ 9-46-20(62754)
अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः।
सैनापत्ये महात्मानमसुराणां भयङ्करम्॥ 9-46-21(62755)
पुरा यथा महाराज वरुणं वै जलेश्वरम्।
तथाऽभ्यषिञ्चद्भगवान्सर्वलोकपितामहः॥ 9-46-22(62756)
कश्यपश्च महातेजा ये चान्ये सोककीर्तिताः।
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः॥ 9-46-23(62757)
कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः।
नन्दिसेनं लोहिताक्षं घण्टाकार्णं च सम्मतम्॥ 9-46-24(62758)
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम्।
तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः॥ 9-46-25(62759)
मायाशतधरं कामं कामवीर्यबलान्वितम्।
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम्॥ 9-46-26(62760)
सहि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्।
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश॥ 9-46-27(62761)
तथा देवा ददुस्तस्मै सेनां नैर्ऋतसङ्कुलाम्।
देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम्॥ 9-46-28(62762)
जयशब्दं तथा चक्रुर्देवाः सर्वे सवासवाः।
गन्धर्वा यक्षरक्षांसि मुनयः पितरस्तथा॥ 9-46-29(62763)
ततः प्रादादनुचरौ यमः कालोपमावुभौ।
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती॥ 9-46-30(62764)
सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ।
तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान्॥ 9-46-31(62765)
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ।
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च॥ 9-46-32(62766)
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः।
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ॥ 9-46-33(62767)
परिधं च वटं चैव भीमं च सुमहाबलम्।
दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ॥ 9-46-34(62768)
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते।
उत्क्रोशं सत्करं चैव वज्रदण्डधरावुभौ॥ 9-46-35(62769)
ददावनलपुत्राय वासवः परवीरहा।
तौ हि शत्रून्महेन्द्रास्य जघ्नतुः समरे बहून्॥ 9-46-36(62770)
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम्।
स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः॥ 9-46-37(62771)
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ।
स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ॥ 9-46-38(62772)
किन्दुं च कुसुमं चैव कुमुदं च महायशाः।
डम्बराडम्बरौ चैव ददौ धाता महात्मने॥ 9-46-39(62773)
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ।
ददौ त्वष्टा महामायौ स्कन्दायानुचरावुभौ॥ 9-46-40(62774)
सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने।
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः॥ 9-46-41(62775)
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ।
सुव्रतं च महात्मानं शुभकर्माणमेव च॥ 9-46-42(62776)
कार्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ।
पाणीतकं कालिकं च महामायाविनावुभौ॥ 9-46-43(62777)
पूषा च पार्षदौ प्रादात्कार्तिकेयाय भारत।
बलं चातिबलं चैव महावक्त्रौ महाबलौ॥ 9-46-44(62778)
प्रददौ कार्तिकेयाय वायुर्भरतसत्तम।
यमं चातियमं चैव तिमिवक्त्रौ महाबलौ॥ 9-46-45(62779)
प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः।
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्॥ 9-46-46(62780)
हिमवान्प्रददौ राजन्हुताशनसुताय वै।
काञ्चनं च महात्मानं मेघमालिनमेव च॥ 9-46-47(62781)
ददावनुचरौ मेरुरग्निपुत्राय भारत।
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ॥ 9-46-48(62782)
महात्मा त्वग्निपुत्राय महाबलपराक्रमौ।
उच्छृङ्गं चातिशृङ्गं च महापाषाणयोधिनौ॥ 9-46-49(62783)
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ।
सङ्ग्रहं विग्रहं चैव समुद्रोऽमि गदाधरौ॥ 9-46-50(62784)
प्रददावग्निपुत्राय महापारिषदावुभौ।
उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च॥ 9-46-51(62785)
प्रददावग्निपुत्राय पार्वती शुभदर्शना।
जयं महाजयं चैव गङ्गा ज्वलनसूनवे॥ 9-46-52(62786)
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः।
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा॥ 9-46-53(62787)
सागराः सरितश्चैव गिरयश्च महाबलाः।
ददुः सेनागणाध्यक्षाञ्शूलपट्टसधारिणः॥ 9-46-54(62788)
दिव्यप्रहरणोपेतान्नानावेषविभूषितान्।
शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः॥ 9-46-55(62789)
विविधायुधसम्पन्नाश्चित्राभरणभूषिताः।
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च॥ 9-46-56(62790)
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ।
घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः॥ 9-46-57(62791)
अक्षः सन्तर्जनो राजन्कुनदीकस्तमोन्तकृत्।
एकाक्षो द्वाशाक्षश्च तथैवैकजटः प्रभुः॥ 9-46-58(62792)
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः।
पुण्यनामा सुनामा च सुचक्रः प्रियदर्शनः॥ 9-46-59(62793)
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः।
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः॥ 9-46-60(62794)
ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः।
परिश्रुतः कोकनदः कृष्णकेशो जटाधरः॥ 9-46-61(62795)
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः।
विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः॥ 9-46-62(62796)
उदाराक्षो रथाक्षश्च वज्रनाभो वसुप्रभः।
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च॥ 9-46-63(62797)
वृषो मेषः प्रवाहश्च तथा नन्दोपनन्दकौ।
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा॥ 9-46-64(62798)
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतपवान्।
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा॥ 9-46-65(62799)
क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत।
गोव्रजः कनकापीडो महापारिषदेश्वरः॥ 9-46-66(62800)
गायनो हसनश्चैव बाणः खङ्गश्च वीर्यवान्।
वैताली गतिताली च तथा कथकवातिकौ॥ 9-46-67(62801)
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह।
रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः॥ 9-46-68(62802)
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः।
कालकक्षः सितश्चैव भूतानां मथनस्तथा॥ 9-46-69(62803)
यज्ञवाहः सुवाहश्च देवयाजी च सोमपः।
मज्जानश्च महातेजाः क्रथक्राथौ च भारत॥ 9-46-70(62804)
तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान्।
मधुरः सुप्रसादश्च किरीटी च महाबलः॥ 9-46-71(62805)
वत्सलो मधुवर्णश्च कलशोदर एव च।
धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान्॥ 9-46-72(62806)
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः।
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा॥ 9-46-73(62807)
अचलः कनकाक्षश्च बालानामपि यः प्रभुः।
सञ्चारकः कोकनदो गृध्रपत्रश्च जम्बुकः॥ 9-46-74(62808)
लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः।
स्वर्णग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभः॥ 9-46-75(62809)
पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः।
चाषवक्त्रक्ष जम्बूकः शाकवक्त्रश्च कुञ्जलः॥ 9-46-76(62810)
योगयोक्ता महात्मानः सततं ब्राह्मणप्रियाः।
पैतामहा महात्मानो महापारिषदाश्च ये॥ 9-46-77(62811)
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय।
सहस्रशः पारिषदाः कुमारमुपतस्थिरे॥ 9-46-78(62812)
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्चनमेजय।
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा॥ 9-46-79(62813)
खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा।
मार्जारशशवक्ताश्च दीर्घवक्त्राश्च भारत॥ 9-46-80(62814)
नकुलोलूकवक्त्राश्च काकवक्त्रास्तथा परे।
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा॥ 9-46-81(62815)
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः।
ऋक्षशार्दूलवक्त्राश्च द्वीतिसिंहाननास्तथा॥ 9-46-82(62816)
भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये।
गरुडाननाः कङ्कुमुखा वृककाकमुखास्तथा॥ 9-46-83(62817)
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा।
महाजठरपादाङ्गास्तारकाक्षाश्च भारत॥ 9-46-84(62818)
पारावतमुखाश्चान्ये तथा वृषमुखाः परे।
कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः॥ 9-46-85(62819)
कृकलासमुखाश्चैव विरजोम्बरधारिणः।
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः॥ 9-46-86(62820)
आशीविषाश्चीरधरा गोनासावदनास्तथा।
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः॥ 9-46-87(62821)
हस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः।
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः॥ 9-46-88(62822)
स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः।
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि॥ 9-46-89(62823)
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा।
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः॥ 9-46-90(62824)
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः।
नानावृक्षभुजाः केचित्कटिशीर्षास्तथा परे॥ 9-46-91(62825)
भुजङ्गभोगवदना नानागुल्मनिवासिनः।
चीरसंवृतगात्राश्च नानाकनकवाससः॥ 9-46-92(62826)
नानावेषधराश्चैव नानामाल्यानुलेपनाः।
नानावस्त्रधराश्चैव चर्मवासस एव च॥ 9-46-93(62827)
उष्णीषिणो मुकुटिनः सुग्रीवाश्च सुवर्चसः।
किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः॥ 9-46-94(62828)
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे।
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा॥ 9-46-95(62829)
चित्रमालाधराः केचित्केचिद्रोमाननास्तथा।
विग्रहैकरसा नित्यमजेताः सुरसत्तमैः॥ 9-46-96(62830)
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः।
स्थूलपृष्ठा हस्वपृष्ठाः प्रलम्बोदरमेहनाः॥ 9-46-97(62831)
महाभुजा हस्वभुजा हस्वगात्राश्च वामनाः।
कुब्जाश्च हस्वजङ्घाश्च हस्तिकर्णशिरोधराः॥ 9-46-98(62832)
हस्तिनासाः कूर्मनासा वृकनासास्तथा परे।
दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः॥ 9-46-99(62833)
महादंष्ट्रा हस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथा परे।
वारमेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः॥ 9-46-100(62834)
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः।
पिङ्गाक्षाः शङ्कुकर्णाश्च रक्तनासाश्च भारत॥ 9-46-101(62835)
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः।
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः॥ 9-46-102(62836)
नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत।
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः॥ 9-46-103(62837)
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा।
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः॥ 9-46-104(62838)
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत।
वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः॥ 9-46-105(62839)
श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे।
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत॥ 9-46-106(62840)
चामरापीडकनिभाः श्वेतलोहितराजयः।
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः॥ 9-46-107(62841)
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु।
शेषैः कृतः पारिषदैरायुधानां परिग्रहः॥ 9-46-108(62842)
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः।
पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः॥ 9-46-109(62843)
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः।
असिमुद्ग्ररहस्ताश्च दण्डहस्ताश्च भारत॥ 9-46-110(62844)
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः।
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः॥ 9-46-111(62845)
महाबला महावेगा महापारिषदास्तथा।
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः॥ 9-46-112(62846)
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः।
एते चान्ये च बहवो महापारिषदा नृप॥ 9-46-113(62847)
उपतस्थुर्महात्मानं कार्तिकेयं यशस्विनम्।
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः॥ 9-46-114(62848)
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराऽभवन्।
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च।
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे॥ ॥ 9-46-115(62849)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि षट्चत्वारिंशोऽध्यायः॥ 46 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-46-13 नागराजश्च वामन इति ख.पाठः॥ 9-46-45 घसं त्वातिघसं चैवेति ख.पाठः॥ 9-46-46 षट्चत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|