|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.40. अध्यायः 040
Mahabharata - Shalya Parva - Chapter Topics
बलरामस्यौशनसतीर्थगमनम्॥ 1 ॥ तत्तीर्थस्य कपालमोचननामप्राप्तिहेतूक्तिः॥ 2 ॥ बलस्य उशंग्वाश्रमगमनम्॥ 3 ॥ उशङ्गुचरित्रकथनं बलस्य पृथूदकतीर्थे स्नानदानादि॥ 4 ॥

Mahabharata - Shalya Parva - Chapter Text
वैशम्पायन उवाच। 9-40-0x(5180)(62476)
उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः।
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः॥ 9-40-1(62477)
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च।
पूजितो मुनिसङ्खैश्च प्रातरुत्थाय लाङ्गली॥ 9-40-2(62478)
अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत।
प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः॥ 9-40-3(62479)
ततस्त्वौशनसं तीर्थमाजगाम हलायुधः।
कपालमोचनं नाम यत्र मुक्तो महामुनिः॥ 9-40-4(62480)
महता शिरसा राजन्ग्रस्तजङ्घो महोदरः।
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा॥ 9-40-5(62481)
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना।
यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः।
यत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम्॥ 9-40-6(62482)
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम्।
विधिवद्वै ददौ वित्तं ब्राह्मणानां महात्मनाम्॥ 9-40-7(62483)
जनमेजय उवाच। 9-40-8x(5181)
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः।
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना॥ 9-40-8(62484)
वैशम्पायन उवाच। 9-40-9x(5182)
पुरा वै दण्डकारण्ये राघवेण महात्मना।
वसता राजशार्दूल राक्षसाञ्शमयिष्यता॥ 9-40-9(62485)
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः।
क्षुरेण शितधारेण तत्पणात महावने॥ 9-40-10(62486)
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया।
वने विचरतो राजन्नस्थि भित्त्वाऽस्फुरत्तदा॥ 9-40-11(62487)
स तेन लग्नेन तदा द्विजातिर्न शशाक ह।
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च॥ 9-40-12(62488)
स पूतिना विस्रवता वेदनार्तो महामुनिः।
जगाम् सर्वतीर्थानि पृथिव्यां चेति नः श्रुतम्॥ 9-40-13(62489)
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः।
कथयामास तत्सर्वमृषीणां भावितात्मनाम्॥ 9-40-14(62490)
आप्लुत्य सर्वतीर्थेषु न च मोक्षमवाप्तवान्।
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत्॥ 9-40-15(62491)
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा।
सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम्॥ 9-40-16(62492)
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः॥ 9-40-17(62493)
तत औशनसे तीर्थे तस्योपस्पृशतस्तदा।
xxx च्छरश्चरणं मुक्त्वा पपातान्तर्जले तदा॥ 9-40-18(62494)
विमुक्तस्तेन शिरसा परं सुखमवाप ह।
स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो॥ 9-40-19(62495)
ततः स विरुजो राजन्पूतात्मा वीतकल्मषः।
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः॥ 9-40-20(62496)
सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः।
कथयामास तत्सर्वमृषीणां भावितात्मनाम्॥ 9-40-21(62497)
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद।
कपालमोचनमिति नाम चक्रुः समागताः॥ 9-40-22(62498)
स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः।
पीत्वा पयःसुविपुलं सिद्धिमायात्तदा मुनिः॥ 9-40-23(62499)
तत्र दत्त्वा बहून्देयान्विप्रान्सम्पूज्य माधवः।
जगाम तत्र राजेन्द्र उशङ्गोराश्रमं तदा॥ 9-40-24(62500)
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत।
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः॥ 9-40-25(62501)
सर्वकामसमृद्धं च तदाश्रमपदं महत्।
मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो॥ 9-40-26(62502)
ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः।
जगाम तत्र राजेन्द्र उशङ्गुस्तनुमत्यजत्॥ 9-40-27(62503)
उशङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत।
देहन्यासे कृतमना विचिन्त्य बहुधा तदा॥ 9-40-28(62504)
ततः सर्वानुपादाय तनयान्वै महातपाः।
उशङ्गुरब्रवीत्तत्र नयध्वं मां पृथूदकम्॥ 9-40-29(62505)
विज्ञायातीतवयसमुशङ्गुं ते तपोधनाः।
तं च तीर्थमपानिन्युः सरस्वत्यास्तपोधनम्॥ 9-40-30(62506)
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्।
पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम्॥ 9-40-31(62507)
स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः।
ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः।
सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः॥ 9-40-32(62508)
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्।
पृथूदके जप्यपरो नैनं श्वो मरणं तपेत्॥ 9-40-33(62509)
`इत्युक्त्वा स्वां तनुं त्यक्त्वा प्रपेदे वैष्णवं पदम्'।
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः।
दत्त्वा चैव बूहून्देयान्विप्राणां विप्रवत्सलः॥ 9-40-34(62510)
ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः॥ 9-40-35(62511)
यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः।
तपसा महता राजन्प्राप्तवानृषिसत्तमः॥ 9-40-36(62512)
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः।
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रस्तथा मुनिः॥ 9-40-37(62513)
महातपस्वीं भगवानुग्रतेजा महातपाः।
तत्राजगाम बलवान्बलभद्रः प्रतापवान्॥ ॥ 9-40-38(62514)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चत्वारिंशोऽध्यायः॥ 40 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-40-17 तीर्थमुपास्पृशदिति शेषः॥ 9-40-24 त्रिशङ्खोराश्रमं तदा इति क.पाठः। रुशङ्गोराश्रमं तदा इति झं. पाठः॥ 9-40-33 अक्षयं स्वर्गमाप्नोतीत्यर्थः॥ 9-40-36 ब्राह्मणं ब्रह्मसन्घातो वेदसमूह इति यावत्। ततः स्वार्थे ष्यञ्। ब्राह्मणं ब्रह्मसङ्घाते इति मेदिनी॥ 9-40-40 चत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|