(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.38. अध्यायः 038
Mahabharata - Shalya Parva - Chapter Topics
बलभद्रस्य सरस्वतीतीरस्थानानातीर्थयात्राप्रकारवर्णनम्॥ 1 ॥ तत्तत्तीर्थमहिमानुवर्णनं च॥ 2 ॥


Mahabharata - Shalya Parva - Chapter Text

वैशम्पायन उवाच। 9-38-0x(5173)(62345)
ततो विनशनं राजन्नाजगाम हलायुधः।
शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती।
तस्मात्तामृषयो नित्यं प्राहुर्विनशनेति च॥ 9-38-1(62346)
तत्राप्युपस्पृश्य बलः सरस्वत्यां महाबलः।
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे॥ 9-38-2(62347)
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः।
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः॥ 9-38-3(62348)
तत्र देवाः सगन्धर्वा मासिमासि जनेश्वर।
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम्॥ 9-38-4(62349)
तत्र नृत्यन्ति गन्धर्वास्तथैवाप्सरसां गणाः।
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम्॥ 9-38-5(62350)
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः।
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः॥ 9-38-6(62351)
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा।
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे॥ 9-38-7(62352)
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः।
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम्॥ 9-38-8(62353)
शय्याश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम्।
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः॥ 9-38-9(62354)
विश्वावसुमुखास्तत्र गन्धर्वाप्सरसां गणाः।
नृत्तवादित्रगीतं च कुर्न्वति सुमनोरमम्॥ 9-38-10(62355)
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु।
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा॥ 9-38-11(62356)
भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः।
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः॥ 9-38-12(62357)
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः।
गर्गस्रोतो महातीर्थमाजगामैककुण्डली॥ 9-38-13(62358)
तत्र गर्गेण वृद्धेन तपसा भावितात्मना।
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः॥ 9-38-14(62359)
उत्पाता दारुणाश्चैक शुभाश्च जनमेजय।
सरस्वत्याः शुभे तीर्थे विदिता वै महात्मना॥ 9-38-15(62360)
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम्॥ 9-38-16(62361)
तत्र गर्गं महाभागमृषयः सुव्रता नृप।
उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो॥ 9-38-17(62362)
तत्र गत्वा महाराज बलः श्वेतानुलेपनः।
विधिवद्वि धनं दत्त्वा मुनीनां भावितात्मनाम्॥ 9-38-18(62363)
उच्चावचांस्तथा भक्ष्यान्विप्रेभ्यो विप्रदाय सः।
नीलवासास्तदाऽगच्छच्छङ्घतीर्थं महायशाः॥ 9-38-19(62364)
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम्।
श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम्।
सरस्वत्यास्तटे जातं नगं तालध्वजो बली॥ 9-38-20(62365)
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः।
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः॥ 9-38-21(62366)
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः।
व्रतैश्च नियमैश्चैव कालेकाले स्म भुञ्जते॥ 9-38-22(62367)
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक्।
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ॥ 9-38-23(62368)
एवं ख्यातो नरव्याघ्र लोकेऽस्मिन्स वनस्पतिः।
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम्॥ 9-38-24(62369)
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे पयस्विनीः।
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च॥ 9-38-25(62370)
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः।
पुण्यं नैसर्गिकं राजन्नाजगाम हलायुधः॥ 9-38-26(62371)
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः।
आप्लुत्य सलिले चापि पूजयामास वै द्विजान्॥ 9-38-27(62372)
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान्।
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम्॥ 9-38-28(62373)
गत्वा चैवं महाबाहुर्नातिदूरे महायशाः।
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः॥ 9-38-29(62374)
यत्र पन्नगराजस्य वासुकेः सन्निवेशनम्।
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम्॥ 9-38-30(62375)
ऋषिणां हि सहस्राणि तत्र नित्यं चतुर्दश।
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम्।
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि॥ 9-38-31(62376)
पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव॥ 9-38-32(62377)
तत्रापि विधिवद्दत्वा विप्रेभ्यो रत्नसञ्चयान्।
प्रायात्प्राचीं दिशं राजंस्तत्र तीर्थान्यनेकशः॥ 9-38-33(62378)
सहस्रशतसङ्ख्यानि प्रथितानि पदेपदे।
आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः॥ 9-38-34(62379)
दत्त्वा वसु द्विजाग्र्येभ्यो निर्जगाम महाबलः।
तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः॥ 9-38-35(62380)
ततो रामोऽगमत्तीर्थमृषिभिः सेक्तिं महत्।
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती॥ 9-38-36(62381)
ऋषीणां नैमिषेयाणावमेक्षार्थं महात्मनाम्।
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली।
वभूव विस्मितो राजन्बलः श्वेतानुलेपनः॥ 9-38-37(62382)
जनमेजय उवाच। 9-38-38x(5174)
कस्मात्सरस्वती ब्रह्मन्निवृत्ता कप्राङ्मुखी भवत्।
व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम॥ 9-38-38(62383)
कस्मिंश्चित्कारणे तत्र विस्मितो यदुनन्दनः।
निवृत्ता हेतुना केन कथमेव सरिद्वरा॥ 9-38-39(62384)
वैशम्पायन उवाच। 9-38-40x(5175)
पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः।
वर्तमाने सुविपुले सत्रे द्वादशवार्षिके॥ 9-38-40(62385)
ऋषयो बहवो राजंस्तत्सत्रमभिपेदिरे।
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि॥ 9-38-41(62386)
निवृत्ते नैमिषे ये वै सत्रे द्वादशवार्षिके।
आजग्मुर्ऋषयस्तत्र बहवस्तीर्थकारणात्॥ 9-38-42(62387)
ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते।
तीर्थानि नगरायन्ते कूले वै दक्षिणोत्तरे॥ 9-38-43(62388)
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः।
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः॥ 9-38-44(62389)
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम्।
स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः॥ 9-38-45(62390)
अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम्।
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः॥ 9-38-46(62391)
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः।
दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथा परे॥ 9-38-47(62392)
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः।
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः॥ 9-38-48(62393)
आसन्वै मुनयस्तवत्र सरस्वत्याः समीपतः।
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः॥ 9-38-49(62394)
शतशश्च समापेतुर्ऋषयः सत्रयाजिनः।
तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः।
तेऽवकाशं च ददृशुः कुरुक्षेत्रं (त्रे) महाव्रताः॥ 9-38-50(62395)
ततो यज्ञोपवीतैः स्वैस्तत्र कृत्वा सरस्वतीम्।
जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः॥ 9-38-51(62396)
ततस्तमृपिसङ्घातं निराशं चिन्तयान्वितम्।
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती॥ 9-38-52(62397)
ततः कुञ्जान्बहून्कृत्वा सन्निवृत्ता सरस्वती।
ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय॥ 9-38-53(62398)
ततो निवृत्त्य राजेन्द्र तेषामर्थे सरस्वती।
भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा॥ 9-38-54(62399)
अमोघा गमनं कृत्वा तेषां भूयो जगाम ह।
अत्यद्भुतं महच्चक्रे तदा राजन्महानदी॥ 9-38-55(62400)
एवं स कुञ्जो राजन्वै नैमिषीय इति स्मृतः।
कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम्॥ 9-38-56(62401)
तत्र कुञ्जान्बहून्दृष्ट्वा निवृत्तां च सरस्वतीम्।
बभूव विस्मयस्तत्र रामस्याथ महात्मनः॥ 9-38-57(62402)
उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः।
दत्त्वा देयान्द्विजातिभ्यो भाण्डानि विविधानि च॥ 9-38-58(62403)
भक्ष्यं भोज्यं कच विविधं ब्राह्मणेभ्यः प्रदाय च।
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः॥ 9-38-59(62404)
सरस्वतीतीर्थवरं नानाद्विजगणायुतम्।
बदरेङ्गुदश्यामाकाप्लुक्षाश्वत्थबिभीतकैः॥ 9-38-60(62405)
कङ्कोलैश्च पलाश्चैश्च करीरैः पीलुभिस्तथा।
सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा॥ 9-38-61(62406)
करुषकवरैश्चैव बिल्वैराम्रातकैस्तथा।
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम्॥ 9-38-62(62407)
कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम्।
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि॥ 9-38-63(62408)
तथाऽश्मकुट्टैर्वातेयैर्मुनिभिर्बहुभिर्वृतम्।
स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम्॥ 9-38-64(62409)
अहिंस्रैर्धर्मपरमैर्नृभिरत्यर्थरोवितम्।
सप्तसारस्वतं तीर्थमाजगाम हलायुधः।
यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः॥ ॥ 9-38-65(62410)

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टविंशोऽध्यायः॥ 38 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-38-1 शूद्राभीरान्द्विष्टमाना---इति क.पाठः॥ 9-38-3 शुभ्राः शुचयः॥ 9-38-9 छायाश्च विपुला इति ङ.पाठः॥ 9-38-10 गन्धर्वाप्सरसान्विंताः इति ङ.पाठः॥ 9-38-17 कालज्ञानार्थम्॥ 9-38-20 शङ्खं शङ्खनामानम्। नगं वृक्षम्॥ 9-38-26 पुण्यं द्रैतवनं इति झ.पाठः॥ 9-38-37 अवेक्षार्यमिष्टसिद्ध्यर्थम्॥ 9-38-38 इच्छामि श्रोतुमिति शेषः॥ 9-38-51 यज्ञोपवीतैः यज्ञसूत्रैः निराशं सरस्वतीजललाभे इत्यर्थः॥ 9-38-53 कुज्जान् आत्मनो वासस्थानानि तिर्थविशेषानित्यर्थः॥ 9-38-38 अष्टत्रिंशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.