(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.35. अध्यायः 035
Mahabharata - Shalya Parva - Chapter Topics
जनमेजयेन वैशम्पायनम्प्रति बलरामस्य तीर्थयात्राप्रकारप्रश्नः॥ 1 ॥ तेन तम्प्रति तत्कथनमुपक्रम्य प्रभासतीर्थस्य तत्पदवाच्यत्वे हेतुकथनम्॥ 2 ॥


Mahabharata - Shalya Parva - Chapter Text

जनमेजय उवाच। 9-35-0x(5163)(62199)
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते।
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः॥ 9-35-1(62200)
साहाय्यं धार्तराष्ट्रस्य न च कर्ताऽस्मि केशव।
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्॥ 9-35-2(62201)
एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः।
तस्य चागमनं भूयो ब्रह्मञ्शं सितुमर्हसि॥ 9-35-3(62202)
आख्याहि मे विस्तरशः कथं राम उपस्थितः।
कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम॥ 9-35-4(62203)
वैशम्पायन उवाच। 9-35-5x(5164)
उपप्लाव्ये निविष्टेषु पाण्डवेषु महात्मसु।
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः॥ 9-35-5(62204)
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्॥
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च। 9-35-6(62205)
उक्तवान्वचनं पथ्यं हितं चैव विशेषतः॥ 9-35-7(62206)
न च तत्कृतवान्राजा यथाऽख्यातं हि तत्पुरा॥ 9-35-8(62207)
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः।
आगच्छत महाबाहुरुपप्लाव्यं जनाधिप॥ 9-35-9(62208)
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः।
आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम्।
यथोक्तं च यथावृत्तं गत्वा पाण्डवमब्रवीत्॥ 9-35-10(62209)
न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः।
निर्गच्छध्व पाण्डवेयाः पुष्येण सहिता मया॥ 9-35-11(62210)
ततो विभज्यमानेषु बलेषु बलिनां वरः।
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः॥ 9-35-12(62211)
तेषामपि महाबाहो साहाय्यं मधुसूदन।
क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा॥ 9-35-13(62212)
ततो मन्युपरीतात्मा जगाम यदुनन्दनः।
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः।
मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः॥ 9-35-14(62213)
आश्रयामास भोजस्तु दुर्योधनमरिन्दमः।
युयुधानेन सहितो वासुदेवस्तु पाण्डवान्॥ 9-35-15(62214)
रौहिणेये गते शूरे पुष्येण मधुसूदनः।
पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कूरून्॥ 9-35-16(62215)
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह।
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च॥ 9-35-17(62216)
आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा।
सुवर्णरजनं चैव धैनूर्वासांसि वाजिनः॥ 9-35-18(62217)
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च।
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्॥ 9-35-19(62218)
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः।
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्॥ 9-35-20(62219)
एवं सन्दिश्य तु प्रेष्यान्बलदेवो महाबलः।
तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा॥ 9-35-21(62220)
सरस्वत्याः प्रतिस्रोतः समुद्रादभिजग्मिवान।
रामो यदूत्तमः श्रीमांस्तीर्थयात्रामनुस्मरन्॥ 9-35-22(62221)
ऋत्विग्भिश्च सुहृद्भिश्च यथाऽन्यैर्द्विजसत्तमैः।
रथैर्गजैस्तथाऽश्वैश्च प्रेष्यैश्च भरतर्षभ।
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः॥ 9-35-23(62222)
श्रान्तानां क्लान्तबपुषां शिशूनां विपुलायुषाम्।
देशेदेशे तु देयानि दानानि विविधानि च॥ 9-35-24(62223)
अर्चायै चार्थिनां राजन्क्लृप्तानि बहुशस्तथा।
तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत॥ 9-35-25(62224)
बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः॥ 9-35-26(62225)
योयो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा।
तस्यतस्य तु तत्रैवमुपजह्रुस्तदा नृष॥ 9-35-27(62226)
तत्रतत्र स्थिता राजन्रौहिणेयस्य शासनात्।
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः॥ 9-35-28(62227)
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च।
पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम्॥ 9-35-29(62228)
यत्र यः स्वपते विप्रो यो वा जागर्ति भारत।
तत्रतत्रैव सर्वस्य क्लृप्तं सर्वमपश्यत॥ 9-35-30(62229)
यथासुखं जनः सर्वो याति तिष्ठति वै तदा।
यातुकामस्य यानानि पानानि तृषितस्य च॥ 9-35-31(62230)
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ।
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च॥ 9-35-32(62231)
स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः।
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्॥ 9-35-33(62232)
नित्यप्रमुदितोपेतः स्वादुभक्ष्यो जलान्वितः।
विपण्यापणपण्यानं नानाजनशतैर्वृतः।
नानाद्रुमलतोपेतो नानारत्नविभूषितः॥ 9-35-34(62233)
ततो महात्मा नियतो मनस्विनां
पुण्येषु तीर्थेषु वसूनि राजन्।
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च
यदुप्रवीरो हलभृत्प्रतीतः॥ 9-35-35(62234)
दोग्ध्रीश्च धेनूश्च सहस्रशो वै
सुवाससः काञ्चनबद्धशृङ्गीः।
हयांश्च नानाविधदेशजातान्
यानानि दासांश्च शुभान्द्विजेभ्यः॥ 9-35-36(62235)
रत्नानि मुक्तामणिविद्रुमं चा--
प्यग्र्यं सुवर्णं रजतं सुशुन्द्वम्।
अयस्मयं ताम्रमयं च भाण्डं
ददौ द्विजातिप्रवरेषु रामः॥ 9-35-37(62236)
एवं स वित्तं प्रददौ महात्मा
सरस्वतीतीर्थगतेषु भूरि।
ययौ क्रमेणाप्रतिमप्रभाव--
स्ततः कुरुक्षेत्रमुदारवृत्तः॥ 9-35-38(62237)
जनमेजय उवाच। 9-35-39x(5165)
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे।
फलं च द्विपदां श्रेष्ठ कर्म निर्वृत्तिमेव च॥ 9-35-39(62238)
यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः।
ब्रूहि ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे॥ 9-35-40(62239)
वैशम्पायन उवाच। 9-35-41x(5166)
तीर्थानां च फलं राजन्गुणोत्पत्तिं चं सर्वशः।
मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः॥ 9-35-41(62240)
पूर्वं महाराज यदुप्रवीर
ऋत्विक्सुहृद्विप्रगणैश्च सार्धम्।
पुण्यं प्रभासं समुपाजगाम
यत्रोडुराढ्यक्ष्मणा क्षीयमाणः॥ 9-35-42(62241)
विमुक्तशापः पुनराप्य तेजः
सर्वं जगद्भासयते नरेन्द्र।
एतत्तु तीर्थप्रवरं पृथिव्यां
प्रभासनात्तस्य ततः प्रभासः॥ ॥ 9-35-43(62242)

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टदशदिवसयुद्धे पञ्चत्रिंशोऽध्यायः॥ 35 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-35-14 मैत्रनक्षत्रयोगे अनुराधायां॥ 9-35-15 भोजः कृतवर्मा॥ 9-35-16 पुष्येण हि पाण्डवेभ्यः प्रयाणं अनुराधातस्तीर्थयात्रार्थमिति विवेकः॥ 9-35-34 विपणिः पाण्यवीथिका। आपणा हट्टाः। पण्यानि विक्रेयद्रव्याणि॥ 9-35-35 कृतदक्षिणाश्चेति क.ङ.पाठः॥ 9-35-39 गुणान् रमणीयत्वादीन्। उत्पत्तिं सम्भवम्। कर्मनिर्वृत्तिं तीर्थयात्राविदिसिद्धम्। निवृत्तिमपि कर्मणाम् इति क.ङ.पाठः॥ 9-35-40 यथाकमेण तीर्थकमापेक्षया अनुपूर्वशः गुणोत्पत्त्यादिक्रमापेक्षया॥ 9-35-43 प्रभासः प्रभासत्वम्॥ 9-35-35 पञ्चत्रिंशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.