|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.34. अध्यायः 034
Mahabharata - Shalya Parva - Chapter Topics
xxxxxxxxxx॥ 1 ॥ तस्मिन्पाण्ढवादिभिरर्चितोपविष्टे पुनर्गदायुद्धारम्भः॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-16-0x(5161)(62178)
xxxxxxxxxxxसुसंवृत्ते सुदारुणे।
xxxxxxxxxxx पाण्डवेषु महात्मसु॥ 9-16-1(62179)
ततस्तालध्वजके रामस्तयोर्युद्ध उपस्थिते।
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः॥ 9-16-2(62180)
तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः।
उपगम्योपसङ्गृह्य विधिवत्प्रत्यपूजयन्॥ 9-16-3(62181)
पूजयित्वा ततः पश्चादिदं वचनमब्रुवन्।
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव॥ 9-16-4(62182)
अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम्।
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम्॥ 9-16-5(62183)
राम उवाच। 9-16-6x(5162)
चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै।
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः।
शिष्ययोर्वै गदायुद्धं द्रुष्टुकामोऽस्मि माधव॥ 9-16-6(62184)
ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम्।
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम्॥ 9-16-7(62185)
कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम्।
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ॥ 9-16-8(62186)
माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः।
अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम्॥ 9-16-9(62187)
भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप।
तथैव चोद्यतगदौ पूजयामासतुर्बलम्॥ 9-16-10(62188)
स्वागतेन च ते तत्र प्रतिपूज्य पुनःपुनः।
पश्य युद्धं महाबाहो इति ते राममब्रुवन्॥ 9-16-11(62189)
एवमुचुर्महात्मानं रौहिणेयं नराधिपाः॥ 9-16-12(62190)
परिष्वज्य तदा रामः पाण्डवान्सह सृञ्जयान्।
अपृच्छत्कुशलं सर्वान्पार्थिवांश्चामितौजसः।
तथैव ते समासाद्य पप्रच्छुस्तमनामयम्॥ 9-16-13(62191)
प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महात्मनः।
कृत्वा कुशलसम्प्रश्नं संविदं च यथावयः॥ 9-16-14(62192)
जनार्दनं सात्यकिं च प्रेम्णा सम्परिषस्वजे।
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत॥ 9-16-15(62193)
तौ च तं विधिवद्राजन्पूजयामासतुर्गुरुम्।
ब्रह्माणामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ॥ 9-16-16(62194)
ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम्।
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत॥ 9-16-17(62195)
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः।
न्यविशत्परमप्रीतः पूज्यमानो महारथैः॥ 9-16-18(62196)
स बभौ राजमध्यस्थो नीलवासाः सितप्रभः।
दिवीव नक्षत्रगणैः परिवीतो निशाकरः॥ 9-16-19(62197)
ततस्तयोः सन्निपातस्तुमुलो रोमहर्षणः।
आसीदन्तकरो राजन्वैरस्यान्तं विधित्सतोः॥ ॥ 9-16-20(62198)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवशपर्वणि अष्टादशदिवसयुद्धे चतुस्त्रिंशोऽध्यायः॥ 34 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|