(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.33. अध्यायः 033
Mahabharata - Shalya Parva - Chapter Topics
युधिष्ठिरेण दुर्योधनम्प्रति स्वेष्वन्यतमपराजयेनापि तस्य राज्यप्राप्तिवचने कृष्णेन तम्प्रति सकोपं भीमेनापि दुर्योधनप राजये स्वस्य संशयोक्तिः॥ 1 ॥ भीमेन कृष्णम्प्रति स्वसामर्थ्यप्रकथनपूर्वकं स्वेन दुर्योधनवधस्य सुकरत्वे कथिते कृष्णादिभिस्तत्प्रशंसनम्॥ 2 ॥ भीमदुर्योधनयोर्वीरवादपुर्वकं युद्धोद्यमः॥ 3 ॥


Mahabharata - Shalya Parva - Chapter Text

सञ्जय उवाच। 9-33-0x(5157)(62119)
एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः।
युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम्॥ 9-33-1(62120)
यदी नाम ह्ययं यूद्धे वरयेत्त्वां युधिष्ठिर।
अर्जुनं नकुलं चैव सहदेवमथापि वा॥ 9-33-2(62121)
किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम्।
एकमेव निहत्याजौ भव राजा कुरुष्विति॥ 9-33-3(62122)
एतेन हि कृता योग्या वर्षाणीह त्रयोदश।
आयसे पुरुषे राजन्भीमसेनजिघांसया॥ 9-33-4(62123)
कथं नाम भवेत्कार्यमस्माद्वि भरतर्षभ।
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम॥ 9-33-5(62124)
नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे।
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः॥ 9-33-6(62125)
तदिदं द्यूतमारब्धं पुनरेव यथा पुरा।
विषमं शकुनेश्चैव तव चैव विशेषतः॥ 9-33-7(62126)
बली भीमः समर्थश्च कृती राजा सुयोधनः।
बलवान्वा कृती वेति कृती राजन्विशिष्यते॥ 9-33-8(62127)
सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः।
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम्॥ 9-33-9(62128)
कोऽनु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा।
[कृच्छ्रप्राप्तेन च तथा हारयेद्राज्यमागतम्।]
पातितश्चैकबाणेन शोचयेदेवमाहवे॥ 9-33-10(62129)
न हि पश्यामि तं लोके योऽद्य दुर्योधनं रणे।
गदाहस्तं विजेतुं वै शक्तः स्यादमरोपि हि॥ 9-33-11(62130)
फल्गुनो वा भवान्वाथ माद्रीपुत्रावथापि वा।
न समर्थानहं मन्ये गदाहस्तस्य संयुगे॥ 9-33-12(62131)
न त्वं भीमो न नकुलः सहदेवोऽथ फल्गुनः।
जेतुं न्यायेन शक्तो वै कृती राजा सुयोधनः॥ 9-33-13(62132)
स कथं वदसे शत्रुं युध्यस्व गदयेति हि।
एकं च नो निहत्याजौ भव राजेति भारत॥ 9-33-14(62133)
वृकोदरं समासाद्य संशयो वै जये हि नः।
न्यायतो युध्यमानानां कृती ह्येष महाबलः॥ 9-33-15(62134)
[नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च सन्ततिः।
अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः॥] 9-33-16(62135)
भीमसेन उवाच। 9-33-17x(5158)
मधुसूदन माकार्षीविषादं यदुनन्दन।
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम्॥ 9-33-17(62136)
अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः।
विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते॥ 9-33-18(62137)
अध्यर्धेन गुणेनेयं गदा गुरुतरी मम।
न तथा धार्तराष्ट्रस्य माकार्षीर्माधव व्यथाम्॥ 9-33-19(62138)
अनया गदयानाहं संयुगे योद्धुमुत्सहे।
भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन॥ 9-33-20(62139)
सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि।
योधयेयं रणे कृष्ण किमुताद्य सुयोधनम्॥ 9-33-21(62140)
सञ्जय उवाच। 9-33-22x(5159)
तथा सम्भाषमाणं तु वासुदेवो वृकोदरम्।
हृष्टः सम्पूजयामास वचनं चेदमब्रवीत्॥ 9-33-22(62141)
त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः।
निहतारिः स्वकां दीप्तां श्रियं प्राप्नोत्यसंशयम्॥ 9-33-23(62142)
त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे।
राजानो राजपुत्राश्च नागाश्च विनिपातिताः॥ 9-33-24(62143)
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा।
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन॥ 9-33-25(62144)
हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम्।
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः॥ 9-33-26(62145)
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति।
त्वमस्य सक्थिनी भंक्त्वा प्रतिज्ञां पालयिष्यसि॥ 9-33-27(62146)
यत्नेन ह त्वया पापो योद्धव्यो धृतराष्ट्रजः।
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा॥ 9-33-28(62147)
ततस्तु सात्यकी राजन्पूजयामास पाण्डवम्।
विविधाभिश्च तं वाग्भिर्भिमसेनं जनेश्वर॥ 9-33-29(62148)
पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः।
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन्॥ 9-33-30(62149)
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत्।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम्॥ 9-33-31(62150)
अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे।
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः॥ 9-33-32(62151)
अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम्।
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः॥ 9-33-33(62152)
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्।
निहते गदया पापे अद्य राजन्सुखी भव॥ 9-33-34(62153)
अद्य कीर्तिमयीं मालां प्रितमोक्ष्ये तवानघ।
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः॥ 9-33-35(62154)
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम्।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्॥ 9-33-36(62155)
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान्।
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्॥ 9-33-37(62156)
[तदाह्वानममृष्यन्वै तव पुत्रोऽतिवीर्यवान्।
प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम्॥ 9-33-38(62157)
गदाहस्तं तव सुतं युद्धाय समुपस्थितम्।
ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम्]॥ 9-33-39(62158)
तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम्।
वियूथमिव मातङ्गं समहृष्यन्त पाण्डवाः॥ 9-33-40(62159)
[न सम्भ्रमो न च भयं न च ग्लानिर्न च व्यथा।
आसीद्दुर्योधनस्यापि स्थितः सिंह इवाहवे]॥ 9-33-41(62160)
समुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गियाम्।
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत्॥ 9-33-42(62161)
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम्।
स्मर तद्दुष्कृतं कर्मं यद्भूतं वारणावते। 9-33-43(62162)
द्रौपदी च परामृष्टा समामध्ये रजस्वला।
द्यूते च वञ्चितो राजा शकूनेर्बुद्धिलाघवात्॥ 9-33-44(62163)
यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि।
अनागासु च पार्थेषु तस्य पश्य महत्फलम्॥ 9-33-45(62164)
त्वत्कृते निहतः शेते शरतल्पे महायशाः।
याङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः॥ 9-33-46(62165)
हतो द्रोणश्च कर्णश्च इतः शल्यः प्रतापवान्।
वैराग्नेरादिकर्ता च शकुनिर्निहतो रणे॥ 9-33-47(62166)
भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः।
राजानश्च हताः शूराः समरेष्वनिवर्तिनः॥ 9-33-48(62167)
एते चान्ये च निहता बहवः क्षत्रियर्षभाः।
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः॥ 9-33-49(62168)
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः।
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः॥ 9-33-50(62169)
अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप।
राज्याशां विपुलां चापि पाण्डवेषु च दुष्कृतम्॥ 9-33-51(62170)
दुर्योधन उवाच। 9-33-52x(5160)
किं कत्थितेन बहुना युध्यस्वाद्य मया सह।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर॥ 9-33-52(62171)
किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम्।
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम्॥ 9-33-53(62172)
गदिनं कोऽद्य मां पाप हन्तुमुत्सहते रिपुः।
न्यायतो युध्यमानश्च देवेष्वपि पुरन्दरः॥ 9-33-54(62173)
मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम्।
दर्शयस्व बलं युद्धे यावन्नासून्निहन्मि ते॥ 9-33-55(62174)
तस्य तद्वचनं श्रुत्वा पाण्डवाः सहसृञ्जयाः।
सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः॥ 9-33-56(62175)
उन्मत्तमिव मातङ्गं तलशब्देन मानवाः।
भूयः संहर्षयामासू राजन्दुर्योधनं द्विषः॥ 9-33-57(62176)
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत्।
शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम्॥ ॥ 9-33-58(62177)

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रयस्त्रिंशोऽध्यायः॥ 33 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-33-4 योग्या अभ्यासः। योग्यः प्रवीणेत्याद्युपक्रम्य स्त्र्यभ्यासार्कयोषितोरिति मेदिनी॥ 9-33-7 शकुनेश्च तव च यथापुरा तथैवेदमिति सम्बन्धः॥ 9-33-10 पणित्वा चैकपाणेन रोचयेदेव माहवम् इति झ.पाठः॥ 9-33-33 त्रयस्त्रिंशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.