|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.31. अध्यायः 031
Mahabharata - Shalya Parva - Chapter Topics
युधिष्ठिरेण हदस्थं दुर्योधनं प्रति निष्ठुरोक्तिभिः सन्तर्जनम्॥ 1 ॥ युधिष्ठिरदुर्योधनयोः संवादः॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-31-0x(5138)(61973)
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः।
तं हदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत्॥ 9-31-1(61974)
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं हदम्।
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम्॥ 9-31-2(61975)
वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः।
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम्॥ 9-31-3(61976)
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम्।
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम्॥ 9-31-4(61977)
निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते।
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम्।
तथाप्येनं हतं युद्धे लोका द्रक्ष्यन्ति माधव॥ 9-31-5(61978)
वासुदेव उवाच। 9-31-6x(5139)
मायाविन इमां मायां मायया जहि भारत।
मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर॥ 9-31-6(61979)
क्रियाभ्युपायैर्बहुभिर्भायामप्सु प्रयोज्य च।
जहि त्वं भरतश्रेष्ठ मायात्मानं सुयोधनम्॥ 9-31-7(61980)
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः।
क्रियाभ्युपायैर्बलिभिर्बलिर्बद्धो महात्मना॥ 9-31-8(61981)
क्रियाभ्युपायपूर्वं वै हिरण्याक्षो महासुरः।
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ॥ 9-31-9(61982)
वृत्रश्च निहतो राजन्क्रिययैव महाबलः।
तथा पौलस्त्यतनयो रावणो नाम राक्षसः।
रामेण निहतो राजन्सानुबन्धः सहानुगः॥ 9-31-10(61983)
क्रियया योगमास्थाय तथा त्वमपि विक्रम॥ 9-31-11(61984)
क्रियाभ्युपायैर्निहतौ मया राजन्पुरातनौ।
तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान्॥ 9-31-12(61985)
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो।
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ॥ 9-31-13(61986)
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो।
क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर॥ 9-31-14(61987)
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा।
क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर॥ 9-31-15(61988)
सञ्जय उवाच। 9-31-16x(5140)
इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः।
जलस्थं तं महाराज तव पुत्रं महाबलम्।
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत॥ 9-31-16(61989)
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया।
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशाम्पते॥ 9-31-17(61990)
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः।
उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन॥ 9-31-18(61991)
स ते दर्पो नरश्रेष्ठ स च मानः क्व ते गतः।
यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः॥ 9-31-19(61992)
सर्वे त्वां शूर इत्येवं जना जल्पन्ति संसदि।
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः॥ 9-31-20(61993)
उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः।
कौरवेयो विशेषेण कुलं जन्म च संस्मर॥ 9-31-21(61994)
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः।
युद्वात्त्रस्ततरस्तोयं प्रविश्य प्रतितिष्ठसि॥ 9-31-22(61995)
अयुद्धेन व्यवस्थानं नैष धर्मः सनातनः॥ 9-31-23(61996)
अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम्।
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः॥ 9-31-24(61997)
इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा।
सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा।
घातयित्वा कथं तात हदे तिष्ठति साम्प्रतम्॥ 9-31-25(61998)
शूरमानी न शूरस्त्वं मृषा वदसि भारत।
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः॥ 9-31-26(61999)
न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन।
ब्रूहि वा त्वं यया वृत्त्या शूर त्यजसि सङ्गरम्॥ 9-31-27(62000)
स त्वमुत्तिष्ठ युध्यस्व विहाय भयमात्मनः।
घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन॥ 9-31-28(62001)
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया।
क्षत्रधर्ममुपाश्रित्य त्वद्विधेन सुयोधन॥ 9-31-29(62002)
यत्तु कर्णमुपाश्रित्य शकुनिं चापि सौबलम्।
दुःशासनं च मोहात्त्वमात्मानं नावबुद्धवान्॥ 9-31-30(62003)
तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत।
कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम्॥ 9-31-31(62004)
क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन।
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत्॥ 9-31-32(62005)
क्व ते कृतास्त्रता याता किं नु शेषे जलाशये।
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत॥ 9-31-33(62006)
अस्मांस्तु वा पराजित्य प्रशाधि पृथिवीमिमाम्।
अथवा निहतोस्माभिर्भूमौ स्वप्स्यसि भारत॥ 9-31-34(62007)
एष ते परमो धर्मः सृष्टो धात्रा महात्मना।
तं कुरुष्व यथातथ्यं पौरुषे स्व व्यवस्थितः॥ 9-31-35(62008)
सञ्जय उवाच। 9-31-36x(5141)
एवमुक्तो महाराज धर्मपुत्रेण धीमता।
सलिलस्थस्तव सुत इदं वचनमब्रवीत्॥ 9-31-36(62009)
नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत्।
न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत॥ 9-31-37(62010)
अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः।
एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम्॥ 9-31-38(62011)
न प्राणहेतोर्न भयाश्च विषादाद्विशाम्पते।
इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम्॥ 9-31-39(62012)
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव।
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे॥ 9-31-40(62013)
युधिष्ठिर उवाच। 9-31-41x(5142)
आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे।
तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन॥ 9-31-41(62014)
हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि।
निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि॥ 9-31-42(62015)
दुर्योधन उवाच। 9-31-43x(5143)
यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन।
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर॥ 9-31-43(62016)
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम्।
न ह्युत्सहाम्यहं भोक्तुं विधवामिव योषितम्॥ 9-31-44(62017)
अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर।
भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ॥ 9-31-45(62018)
न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित्।
द्रोणे कर्णे च संशान्ते निहते च पितामहे॥ 9-31-46(62019)
अस्त्विदानीमियं राजन्केवला पृथिवी तव।
असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम्॥ 9-31-47(62020)
सुहृदस्तादृशान्हत्वा पुत्रान्भ्रातॄन्पितॄनपि।
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः॥ 9-31-48(62021)
अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः।
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत॥ 9-31-49(62022)
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा।
एषा ते पृथिवी राजन्भुङ्क्षैनां विगतज्वरः॥ 9-31-50(62023)
वनमेव गमिष्यामि वसानो मृगचर्मणी।
न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो॥ 9-31-51(62024)
गच्छ त्वं भुङ्क्ष राजेन्द्र पृथिवीं निहतेश्वराम्।
हतयोधां नष्टरत्नां शीर्णक्षत्रां यथासुखम्॥ 9-31-52(62025)
[सञ्जय उवाच। 9-31-53x(5144)
दुर्योधनं तव सुतं सलिलस्थं महायशाः।
श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः॥] 9-31-53(62026)
युधिष्ठिर उवाच। 9-31-54x(5145)
आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः।
नैतन्मनसि मे राजन्वाशितं शकुनेरिव॥ 9-31-54(62027)
यदि वापि समर्थः स्यास्त्वं दानाय सुयोधन।
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम्॥ 9-31-55(62028)
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम्।
न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः॥ 9-31-56(62029)
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम्।
त्वां तु युद्धे विनिर्जित्य भोक्ताऽस्मि वसुधामिमाम्॥ 9-31-57(62030)
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि।
त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि॥ 9-31-58(62031)
धर्मतो याचमानानां प्रशमार्थं कुलस्य नः।
वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबालम्॥ 9-31-59(62032)
किमिदानीं ददासि त्वं को हि ते जित्तविभ्रमः।
अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीं॥ 9-31-60(62033)
न त्वमद्य महीं दातुमीशः कौरवनन्दन।
आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि॥ 9-31-61(62034)
मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम्।
सूच्यग्रेणापि यद्भूमेरपि भिद्येत भारत॥ 9-31-62(62035)
तन्मात्रमपि तन्मह्यं न ददाति पुरा भवान्।
स कथं पृथिवीमेतां प्रददासि विशाम्पते॥ 9-31-63(62036)
सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम्॥ 9-31-64(62037)
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम्।
को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम्॥ 9-31-65(62038)
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे।
पृथिवीं दातुकामोऽपि जीवंस्त्वं नैव मोक्ष्यसे॥ 9-31-66(62039)
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्।
अथवा निहतोऽस्माभिर्व्रज लोकाननुत्तमान्॥ 9-31-67(62040)
आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम्।
संशयः सर्वभूतानां विजये नौ भविष्यति॥ 9-31-68(62041)
जीवितं त्वयि दुष्प्रापं मयि यत्परिवर्तते।
जीवयेयमहं कामं न तु त्वं जीवितुं क्षमः॥ 9-31-69(62042)
दहने हि कृतो यत्नस्त्वयाऽस्मासु विशेषतः।
आशीविषैर्विषैश्चापि जले जापि प्रवेशनैः।
त्वया विनिकृता राजन्राज्यस्य हरणेन च॥ 9-31-70(62043)
अप्रियाणां च वचनैर्द्रौपद्याः कर्षणेन च।
एतस्मात्कारणात्पाप जीवितं न विद्यते॥ 9-31-71(62044)
उत्तिष्ठोत्तिष्ठ युध्यस्व युद्धे श्रेयो भविष्यति॥ 9-31-72(62045)
एवं तु विविधा वाचो जययुक्ताः पुनःपुनः।
कीर्तयन्ति स्म ते वीरास्तत्रतत्र जनाधिप॥ ॥ 9-31-73(62046)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे एकत्रिंशोऽध्यायः॥ 31 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-31-7 कियाभ्युपायैः शत्रुकियानुरूपैः प्रतीकारैर्घर्म्यैरधर्म्यैर्वेत्यर्थः। एतेतु च्छलकारिणश्छलैरेव हन्तव्या इति भावः। माययैव सुयोधनं इति क.पाठः॥ 9-31-11 विक्रम विक्रमं कुरुष्व क्रियया योगमास्थाय हतस्त्वाष्ट्रोऽपि विक्रमात् इति क.पाठः॥ 9-31-12 क्रियाभ्युपायैर्निहतो मयो नाम महासरः। इति क.पाठः॥ 9-31-27 हे शूरेति साधिक्षेपसम्बोधनम्। यया वृत्त्या निमित्तभूतया। वानप्रस्थत्वेन वा न्यस्तशस्त्रत्वेन वा क्लीबत्वेन वा त्वं सङ्गरं त्यजसि तां वृत्तिं ब्रूहि। न त्वं वानप्रस्थोऽसि राज्यार्थिवात्। नापि न्यस्तशस्त्रो गदाधारित्वात्। परिशेषात क्लीबोऽस्मीति मा भाषस्व। युद्धं कुर्विति भावः॥ 9-31-32 पौरुषं यत्नः। विक्रान्तता शौर्यम्। विस्फूर्जितं गर्जनम्॥ 9-31-49 हतापत्यस्य भारत इति क.पाठः॥ 9-31-52 निहतत्विषमिति क.ङ.पाठः॥ 9-31-31 एकत्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|