|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.25. अध्यायः 025
Mahabharata - Shalya Parva - Chapter Topics
भीमेनावशिष्टानां दुर्योधनानुजानां वधः॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-25-0x(5122)(61524)
गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत।
वध्यमाने बले चैव भीमसेनेन संयुगे॥ 9-25-1(61525)
चरन्तं च प्रपश्यामो भीमसेनमरिन्दमम्।
दण्डहस्तं यथा क्रुद्वमन्तकं प्राणहारिणम्॥ 9-25-2(61526)
समेत्य समरे राजन्हतशेषाः सुतास्तव।
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव।
सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन्॥ 9-25-3(61527)
श्रुतर्वा सञ्जयश्चैव जयत्सेनः श्रुतान्तकः।
दुर्विमोचनकश्चैव तथा दुर्विषहो बली॥ 9-25-4(61528)
दुर्मर्षणः सुजातश्च जैत्रो भूरिबलो रविः।
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः।
भीमसेनमभिद्रुत्य रुरुधुः सर्वतो दिशम्॥ 9-25-5(61529)
ततो भीमो महाराज स्वरथं पुनरास्थितः।
मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु॥ 9-25-6(61530)
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे।
भीमसेनमुपासेदुः प्रवाता इव कुञ्जरम्॥ 9-25-7(61531)
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह।
क्षुरप्रेण प्रमथ्याशु पातयामास भूतले॥ 9-25-8(61532)
ततोऽपरेण भल्लेन सर्वावरणभेदिना।
श्रुतान्तमवधीद्बीमस्तव पुत्रं महारथः॥ 9-25-9(61533)
जयत्सेनं ततो विद्वा नाराचेन हसन्निव।
पातयामास कौरव्यं रथोपस्थादरिन्दमः।
स पपात रथाद्राजन्भूमौ तूर्णं ममार च॥ 9-25-10(61534)
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष।
शतेन गृघ्रवाजानां शराणां नतपर्वणाम्॥ 9-25-11(61535)
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम्।
त्रीनेतांस्त्रिभिरानर्च्छद्विषाग्निप्रतिमैः शरैः॥ 9-25-12(61536)
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः।
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः॥ 9-25-13(61537)
ततोऽपरेण भल्लेन तीक्ष्णेन च परन्तपः।
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे॥ 9-25-14(61538)
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः।
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः॥ 9-25-15(61539)
दुष्प्रधर्षं ततश्चैव सुजातं च सुतं तव।
एकैकं न्यहनत्सङ्ख्ये द्वाभ्यांद्वाभ्यां चमूमुखे।
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ॥ 9-25-16(61540)
ततः पतन्तं समरे अभिवीक्ष्य सुतं तव।
भल्लेन पातयामास भीमो दुर्विपहं रणे॥ 9-25-17(61541)
स पपात हतो बाहात्पश्यतां सर्वधन्विनाम्॥ 9-25-18(61542)
दृष्ट्वा तु निहतान्भ्रातॄन्वहूनेकेन संयुगे।
अमर्षधशमापसः श्रुतर्वा भीममभ्ययात्॥ 9-25-19(61543)
विक्षिपन्सुमहच्चापं कार्तखरविभूषितम्।
विमृजन्सायकांश्चैव विषाग्निप्रतिमान्वहून्॥ 9-25-20(61544)
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे।
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत्॥ 9-25-21(61545)
ततोऽन्यद्धनुरादाय भीमसेनो महाबलः।
अवाकिरत्तव सुतं तिष्ठतिष्ठेति चाब्रवीत्॥ 9-25-22(61546)
महदासीत्तयोर्युद्धं चित्ररूपं भयानकम्।
बादृशं समरे पूर्वं तम्भवासवयोर्युधि॥ 9-25-23(61547)
तयोस्तत्र शितैर्गुक्तैर्यमदण्डनिभैः शरैः।
समाच्छकाधारा सर्वा त्वं दिशो विदिशस्तथा॥ 9-25-24(61548)
अतः श्रुतर्वा सङ्क्रुद्धो धनुरादाय सायकैः।
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत्॥ 9-25-25(61549)
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना।
भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः॥ 9-25-26(61550)
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष।
सारथिं चतुरश्चाश्वाञ्शरैर्निन्ये यमक्षयम्॥ 9-25-27(61551)
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः।
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम्॥ 9-25-28(61552)
श्रुतर्वा विरथो राजन्नाददे खङ्गचर्मणी।
अथास्याददतः खह्गं शतचन्द्रं च भानुमत्।
क्षुरप्रेणं शिरः कायात्पातयामास पाण्डवः॥ 9-25-29(61553)
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना।
पपात कायः स्वरथाद्वसुधामनुनादयन्॥ 9-25-30(61554)
तस्मिन्निपतिते वीरे तावका भयमोहिताः।
अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः॥ 9-25-31(61555)
तानापतत एवाशु हतशेषाद्बलार्णवात्।
दंशितान्प्रतिजग्राह भीमसेनः प्रतापवान्॥ 9-25-32(61556)
ते तु तं वै समासाद्य परिवव्रुः समन्ततः॥ 9-25-33(61557)
ततस्तु संवृतो भीमस्तावकान्निशितैः शरैः।
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान्॥ 9-25-34(61558)
ततः पञ्चशतान्हत्वा सवरूथान्महारथान्।
जघान कुञ्जरानीकं पुनः सप्तशतं युधि॥ 9-25-35(61559)
हत्वा शतसहस्राणि पत्तीनां परमेषुभिः।
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते॥ 9-25-36(61560)
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव।
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो॥ 9-25-37(61561)
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान्।
ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप॥ 9-25-38(61562)
विद्राव्य च कुरून्सर्वांस्तांश्च हत्वा पदानुगान्।
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान्॥ 9-25-39(61563)
हतभूयिष्ठयोधा तु तव सेना विशामम्पते।
किञ्चिच्छेषा महाराज कृपणं समपद्यत॥ ॥ 9-25-40(61564)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे पञ्चविंशोऽध्यायः॥ 25 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-25-7 प्रवणादिव कुञ्जरमिति झ.पाठः॥ 9-25-25 पञ्चविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|