|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.23. अध्यायः 023
Mahabharata - Shalya Parva - Chapter Topics
अर्जुनेन दुर्योधनागर्हणपूर्वकं तत्सेनानिबर्हणम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-23-0x(5119)(61392)
अल्पावशिष्टे सैन्ये तु पाण्डवैर्निहते बले।
अश्वैः सप्तसहस्रैस्तु उपावर्तत सौबलः॥ 9-23-1(61393)
स यात्वा वाहिनीं तूर्णं चोदयानः स्वकान्युधि।
युध्यध्वमिति संहृष्टाः पुनःपुनररिन्दमाः॥ 9-23-2(61394)
अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महाबलः।
शकुनेस्तद्वचः श्रुत्वा तमूचुर्भरतर्षभ॥ 9-23-3(61395)
असौ तिष्ठति कौरव्यो रणमध्ये महाबलः।
यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम्॥ 9-23-4(61396)
यत्र ते सतनुत्राणा रथास्तिष्ठन्ति दंशिताः।
यत्रैष तुमुलः शब्दः पर्जन्यनिनदोपमः॥ 9-23-5(61397)
तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम्।
एवमुक्तस्तु तैर्योधैः शकुनिः सौबलस्तदा॥ 9-23-6(61398)
प्रययौ तत्र यत्रास्ते पुत्रस्तव नराधिप।
सर्वतः संवृतो वीरैः समरे चित्रयोधिभिः॥ 9-23-7(61399)
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम्।
स रथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः॥ 9-23-8(61400)
दुर्योधनमिदं वाक्यं हृष्टरूपो विशाम्पते।
कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम्॥ 9-23-9(61401)
जहि राजन्रथानीकमश्वाः सर्वे जिता मया।
नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः॥ 9-23-10(61402)
हते तस्मिन्रथानीके पाण्डवेनाभिपालिते।
गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा॥ 9-23-11(61403)
श्रुत्वा तु वचनं तस्य तावका जयगृद्विनः।
जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम्॥ 9-23-12(61404)
बद्वनिस्त्रिंशहस्ताश्च प्रगृहीतशरासनाः।
शरासनानि धून्वानाः सिंहनादान्प्रचक्रिरे॥ 9-23-13(61405)
ततो ज्यातलनिर्धोषः पुनरासीद्विशाम्पते।
प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः॥ 9-23-14(61406)
तान्समीपगतान्दृष्ट्वा जनानुद्यतकार्मुकान्।
उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः॥ 9-23-15(61407)
चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम्।
अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः॥ 9-23-16(61408)
अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन।
वर्तमानस्य महतः समासाद्य परस्परम्॥ 9-23-17(61409)
अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम्।
क्षयमद्य गता युद्धे पश्य दैवं यथाविधम्॥ 9-23-18(61410)
समुद्रकल्पं च बलं धार्तराष्ट्रस्य माधव।
अस्मनासाद्य सञ्जातं गोष्पदोपममच्युत॥ 9-23-19(61411)
हते भीष्मे धीर्ममासीच्छमः स्यादिति माधव।
न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः॥ 9-23-20(61412)
उक्तं भीष्मेण यद्वाक्यं हितं तथ्यं च माधव।
तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः॥ 9-23-21(61413)
तस्मिंस्तु निहते भीष्मे प्रच्युते पृथिवीपतौ।
न जाने कारणं किन्तु येन युद्धमवर्तत॥ 9-23-22(61414)
मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान्।
पतिते शन्तनोः पुत्रे येऽकार्युः संयुगं पुनः॥ 9-23-23(61415)
अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे।
राधेये च विकर्णे च नैव शाम्यति वैशसम्॥ 9-23-24(61416)
अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते।
सपुत्रे वै नरव्याघ्रे नैव शाम्यति वैशसम्॥ 9-23-25(61417)
श्रुतायुषि हते वीरे जलसन्धे च मागधे।
श्रुतायुधे च नृपतौ नैव शाम्यति वैशसम्॥ 9-23-26(61418)
भूरिश्रवसि शल्ये च साल्ये चैव जनार्दन।
आवन्त्येषु च वीरेषु नैव शाम्यति वैशसम्॥ 9-23-27(61419)
जयद्रथे च निहते राक्षसे चाप्यलायुधे।
बाह्लिके सोमदत्ते च नैव शाम्यति वैशसम्॥ 9-23-28(61420)
भगदत्ते हते शूरे काम्भोजे च सुदारुणे।
दुःशासने च निहते नैव शाम्यति वैशसम्॥ 9-23-29(61421)
दृष्ट्वा विनिहताञ्शूरान्पृथङ्माण़्डलिकान्नृपान्।
बलिनश्च रणे कृष्ण नैव शाम्यति वैशसम्॥ 9-23-30(61422)
अक्षौहिणीपतीन्दृष्ट्वा भीमसेननिपातितान्।
मोहाद्वा यदि वा लोभान्नैव शाम्यति वैशसम्॥ 9-23-31(61423)
`हतप्रवीरां विध्वस्तां दृष्ट्वा चेमां चमूं रणे।
अलम्बले च निहते नैव शाम्यति वैशसम्॥ 9-23-32(61424)
भ्रातॄन्विनिहतान्दृष्ट्वा वयस्यान्मातुलानपि।
पुत्रान्विनिहतान्दृष्ट्वा नैव शाम्यति वैशसम्'॥ 9-23-33(61425)
को नु राजकुले जातः कौरवेषु विशेषतः।
निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात्॥ 9-23-34(61426)
गुणतोऽभ्यधिकाञ्ज्ञात्वा बलतः शौर्यतोपि वा।
अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम्॥ 9-23-35(61427)
किन्नु तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः।
प्रशमे पाण्डवैः सार्धं सोन्यस्य शृणुयात्कथम्॥ 9-23-36(61428)
येन शान्तनवो भीष्मो द्रोणो विदुर एव च।
प्रत्याख्याताः शंमस्यार्थे किन्नु तस्याद्य भेषजम्॥ 9-23-37(61429)
मौर्ख्याद्येन पिता वृद्वः प्रत्याख्यातो जनार्दन।
तथा माता हितं वाक्यं भाषमाणा हितैषिणी॥ 9-23-38(61430)
प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः।
कुलान्तकरणो व्यक्तं जात एष जनार्दन॥ 9-23-39(61431)
तथास्य दृश्यते चेष्टा नीतिश्चैव विशाम्पते।
नैष दास्यति नो राज्यमिति मे मतिरच्युत॥ 9-23-40(61432)
उक्तोऽहं बहुशस्तात विदुरेण महात्मना।
न जीवन्दास्यते भागं धार्तराष्ट्रः सुयोधनः॥ 9-23-41(61433)
यावत्प्राणा धरिष्यन्ति धार्तराष्ट्रस्य दुर्मतेः।
तावद्युष्मास्वपापेषु प्रचरिष्यति पापकम्॥ 9-23-42(61434)
न च युक्तोऽन्यथा जेतुमृते युद्धेन माधव।
इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः॥ 9-23-43(61435)
तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः।
यदुक्तं वचनं तेन विदुरेण महात्मना॥ 9-23-44(61436)
यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम्।
अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः॥ 9-23-45(61437)
उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने।
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति॥ 9-23-46(61438)
तदिदं वचनं तेषां निरुक्तं वै जनार्दन।
क्षयं याता हि राजानो दुर्योधनकृते भृशम्॥ 9-23-47(61439)
सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव॥ 9-23-48(61440)
क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते।
वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति॥ 9-23-49(61441)
तदन्तं हि भवेद्वैरमनुमानेन माधव।
एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया।
विदुरस्य च वाक्येन चेष्टया च दुरात्मनः॥ 9-23-50(61442)
तस्माद्याहि चमूं वीर यावद्वन्मि शितैः शरैः।
दुर्योधनं महाबाहो वाहिनीं चास्य संयुगे॥ 9-23-51(61443)
क्षेममद्य करिष्यामि धर्मराजस्य माधव।
हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः॥ 9-23-52(61444)
सञ्जय उवाच। 9-23-53x(5120)
अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना।
तद्बलौघममित्राणामभीतः प्राविशद्बलात्॥ 9-23-53(61445)
शरासनवनं घोरं शक्तिकण्टकसङ्कुलम्।
गदापरिघपाषाणं रथनागमहाद्रुमम्॥ 9-23-54(61446)
हयपत्तिलताकीर्णं गाहमानो महायशाः।
व्यचरत्तत्र गोविन्दो रथेनातिपताकिना॥ 9-23-55(61447)
ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे।
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः॥ 9-23-56(61448)
ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः।
किरञ्शरशतांस्तीक्ष्णान्वारिधारा घनो यथा॥ 9-23-57(61449)
प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम्।
इषुभिश्छाद्यमानानां समरे सव्यसाचिना॥ 9-23-58(61450)
असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि।
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः॥ 9-23-59(61451)
नरान्नागान्समाहत्य हयांश्चापि विशाम्पते।
अपतन्त रणे बाणाः पतङ्गा इव घोषिणः॥ 9-23-60(61452)
आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः।
न प्राज्ञायन्त समरे दिशो वा प्रदिशोपि वा॥ 9-23-61(61453)
सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः।
रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः॥ 9-23-62(61454)
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः।
पार्थं न प्राजहुर्घारा वध्यमानाः शितैः शरैः॥ 9-23-63(61455)
शरचापधरः पार्थः प्रज्वलन्निव भास्करः।
ददाह समरे योधान्कक्षमग्निरिव ज्वलन्॥ 9-23-64(61456)
यथा वनान्ते वनपैर्विसृष्टः
कक्षं दहेत्कृष्णगतिः सुघोषः।
भूरिद्रुमं शुष्कलतावितानं
भृशं समृद्धो ज्वलनः प्रतापी॥ 9-23-65(61457)
एवं स नाराचगणम्प्रतापी
शरार्चिरुच्चावचतिग्मतेजाः।
ददाह सर्वां तव पुत्रसेना--
ममृष्यमाणस्तरसा तरस्वी॥ 9-23-66(61458)
तस्येषवः प्राणहराः सुमुक्ता
नासज्जन्वै वर्मसु रुक्मपुङ्खाः।
न च द्वितीयं प्रमुमोच बाणं
नरे हये वा परमद्विपे वा॥ 9-23-67(61459)
अनेकरूपाकृतिभिर्हि बाणै--
र्महारथानीकमनुप्रविश्य।
स एव एकस्तव पुत्रस्य सेनां
जघान दैत्यानिव वज्रपाणिः॥ ॥ 9-23-68(61460)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे त्रयोविंशोऽध्यायः॥ 23 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-23-42 पापकं प्रचरिष्यति आचरिष्यति धार्तराष्ट्र इति शेषः॥ 9-23-23 त्रयोविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|