|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.22. अध्यायः 022
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-22-0x(5118)(61300)
वर्तमाने तदा युद्धे घोररूपे भयानके।
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः॥ 9-22-1(61301)
तांस्तु सर्वानयन्तेन सन्निवार्य महारथाः।
पुत्रास्ते योधयामासुः पाण्डवानामनीकिनीम्॥ 9-22-2(61302)
निवृत्ताः सहसा योधास्तव पुत्रजयैपिणः।
सन्निवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम्।
तावकानां परेषां च देवासुररणोपभम्॥ 9-22-3(61303)
परेषां तावकानां च नासीत्कश्चित्पराङ्मुखः॥ 9-22-4(61304)
अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम्।
तेषां क्षयो महानासीद्युध्यतामितरेतरम्॥ 9-22-5(61305)
ततो युधिष्ठिरो राजा क्रोधेन महता युतः।
जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान्॥ 9-22-6(61306)
त्रिभिः शारद्वतं विद्व्वा रुक्मपुङ्खैः शिलाशितैः।
चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः॥ 9-22-7(61307)
अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम्।
अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम्॥ 9-22-8(61308)
ततो दुर्योधनो राजा रथान्सप्तशतान्रणे।
प्रैषयद्यत्र राजाऽसौ धर्मपुत्रो युधिष्ठिरः॥ 9-22-9(61309)
ते रथा रथिभिर्युक्ता मनोमारुतरंहसः।
अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति॥ 9-22-10(61310)
ते समन्तान्महाराज परिवार्य युधिष्ठिरम्।
अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम्॥ 9-22-11(61311)
तं दृष्ट्वा धर्मराजानं कौरवेयैस्तथावृतम्।
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः॥ 9-22-12(61312)
रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतैः।
आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम्॥ 9-22-13(61313)
ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः।
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः॥ 9-22-14(61314)
रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम्।
पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन्॥ 9-22-15(61315)
तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः।
न च तत्तादृशं दृष्टं नैव चापि परिश्रुतम्॥ 9-22-16(61316)
वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः।
वध्यमानेषु योधेषु तावकेष्वितरेषु च॥ 9-22-17(61317)
विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः।
उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम्॥ 9-22-18(61318)
अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु।
धावमानेषु योधेषु जयगृद्धिषु मारिष॥ 9-22-19(61319)
संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे।
वह्नीनामुत्तमस्त्रीणां सीमन्तोद्धरणे कृते॥ 9-22-20(61320)
निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे।
प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः॥ 9-22-21(61321)
चचाल शब्दं कुर्वाणा सपर्वतवना मही।
सदण्डाः सोल्मुका राजन्कीर्यमाणाः समन्ततः॥ 9-22-22(61322)
उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम्।
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः॥ 9-22-23(61323)
अश्रूणि मुमुचुर्नागा वेपथुं चास्पृशन्भृशम्।
एतान्धोराननादृत्य समुत्पातान्सुदारुणान्॥ 9-22-24(61324)
पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः।
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः॥ 9-22-25(61325)
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्।
युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान्॥ 9-22-26(61326)
ततो नः सम्प्रायातानां मद्रयोधास्तरस्विनः।
हृष्टाः किलाकिलाशब्दमकुर्वत परे तथा॥ 9-22-27(61327)
अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः।
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन्॥ 9-22-28(61328)
ततो हतं परैस्तत्र मद्रराजबलं तदा।
दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम्॥ 9-22-29(61329)
गान्धारराजस्तु पुनर्वाक्यमाह ततो बली।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः॥ 9-22-30(61330)
अनीकं दशसाहस्रमश्वानां भरतर्षभ।
आसीद्गान्धारराजस्य विशालप्रासयोधिनाम्॥ 9-22-31(61331)
बलेन तेन विक्रम्य वर्तमाने जनक्षये।
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः॥ 9-22-32(61332)
तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः।
अभज्यत महाराज पाण्डूनां सुमहद्बलम्॥ 9-22-33(61333)
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात्।
अभ्यनोदयदव्यग्रः सहदेवं महाबलम्॥ 9-22-34(61334)
असौ सुबलपुत्रो नो जघनं पीड्य दंशितः।
सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिः॥ 9-22-35(61335)
गच्छ त्वं द्रौपदेयैश्च शकुनिं सौबलं जहि।
रथानीकमहं धक्ष्ये पाञ्चालसहितोऽनघ॥ 9-22-36(61336)
गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया।
पादाताश्च त्रिसाहस्राः शकुनिं तैर्वृतो जहि॥ 9-22-37(61337)
ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः।
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान्॥ 9-22-38(61338)
पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः।
रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम्॥ 9-22-39(61339)
ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान्।
जघान पृष्ठतः सेनां जयगृद्वः प्रतापवान्॥ 9-22-40(61340)
अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम्।
प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान्॥ 9-22-41(61341)
ते तत्र सादिनः शूराः सौबलस्य महद्बलम्।
रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन्॥ 9-22-42(61342)
तदुद्यतगदाप्रासमकापुरुषसेवितम्।
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव॥ 9-22-43(61343)
उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन्।
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत॥ 9-22-44(61344)
शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ।
ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः॥ 9-22-45(61345)
ऋष्टिभिर्विमलाभिश्च तत्रतत्र विशाम्पते।
सम्पतन्तीभिराकाशमावृतं बह्वशोभत॥ 9-22-46(61346)
प्रासानां पततां राजन्रूपमासीत्समन्ततः।
शलभानामिवाकाशे तदा भरतसत्तम॥ 9-22-47(61347)
रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः।
हयाः परिपतन्तिस्म शतशोऽथ सहस्रशः॥ 9-22-48(61348)
अन्योन्यं परिपिष्टाश्च समासाद्य परस्परम्।
सुविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः॥ 9-22-49(61349)
ततोऽभवत्तमो घोरं सैन्येन रजसा वृतम्।
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दम॥ 9-22-50(61350)
अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति।
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु॥ 9-22-51(61351)
केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः।
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः॥ 9-22-52(61352)
मल्ला इव समासाद्य निजघ्नुरितरेतरम्।
अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः॥ 9-22-53(61353)
भूमौ निपतिताश्चान्ये बहवो विजयैषिणः।
तत्रतत्र व्यदृश्यन्त पुरुषाः शूरमानिनः॥ 9-22-54(61354)
रक्तोक्षितैश्छिन्नभुजैरवकृष्टशिरोरुहैः।
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः॥ 9-22-55(61355)
दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित्।
साश्वारोहैर्हतैरश्वैरावृते वसुधातले॥ 9-22-56(61356)
रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः।
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः।
सुसन्निकृष्टे सङ्ग्रामे हतभूयिष्ठसैनिके॥ 9-22-57(61357)
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते।
षट्साहस्रैर्हयैः शिष्टेरपायाच्छकुनिस्ततः॥ 9-22-58(61358)
तथैव पाण्डवानीकं रुधिरेण समुक्षितम्।
षट्साहस्रैर्हयैः शिष्टेरपायाच्छ्रान्तवाहनम्॥ 9-22-59(61359)
अश्वारोहाश्च पाण्डूनामब्रुवन्रुधिरोक्षिताः।
सुसन्निकृष्टे सङ्ग्रामे भूयिष्ठे त्यक्तजीविताः॥ 9-22-60(61360)
न हि शक्यं रथैर्योद्धुं कुत एव महागजैः।
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि॥ 9-22-61(61361)
प्रतियातो हि शकुनिः स्वमनीकमवस्थितः।
न पुनः सौबलो राजा योद्धुमभ्यागमिष्यति॥ 9-22-62(61362)
ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः।
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः॥ 9-22-63(61363)
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते।
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः॥ 9-22-64(61364)
ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः।
पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम्॥ 9-22-65(61365)
तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाऽभ्यवर्तत।
तावकानां परेषां च परस्परवधैषिणाम्॥ 9-22-66(61366)
ते चान्योन्यमवैक्षन्त तस्मिन्वीरसमागमे।
योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः॥ 9-22-67(61367)
असिभिश्छिद्यमानानां शिरसां लोकसंक्षये।
प्रादुरासीन्महाञ्शब्दस्तालानां पततामिव॥ 9-22-68(61368)
विमुक्तानां शरीराणां छिन्नानां पततां भुवि।
सायुधानां च बाहूनामूरूणां च विशाम्पते।
आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः॥ 9-22-69(61369)
निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि।
योधाः परिपतन्ति स्म यथाऽऽमिषकृते खगाः॥ 9-22-70(61370)
अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम्।
अहम्पूर्वमहम्पूर्वमिति निघ्नन्सहस्रशः॥ 9-22-71(61371)
संयातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः।
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः॥ 9-22-72(61372)
स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रगामिनाम्।
स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते॥ 9-22-73(61373)
शक्त्यृष्टिप्रासशब्दश्च तुमुलः समपद्यत।
भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव॥ 9-22-74(61374)
श्रमाभिभूताः संरब्धा श्रान्तवाहाः पिपासवः।
विक्षताश्च शितैः शस्त्रैरभ्यवर्न्तत तावकाः॥ 9-22-75(61375)
मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः।
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान्॥ 9-22-76(61376)
बहवश्च गतप्राणाः क्षत्रिया जयगृद्विनः।
भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः॥ 9-22-77(61377)
वृकगृध्रशृगालानां तुमुले मोदनेऽहनि।
आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः॥ 9-22-78(61378)
नराश्वकायैः सञ्छन्ना भूमिरासीद्विशाम्पते।
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी॥ 9-22-79(61379)
असिभिः पट्टसैः शूलैस्तक्षमाणाः पुनःपुनः।
तावकाः पाण़्वेयाश्च न न्यवर्तन्त भारत॥ 9-22-80(61380)
प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम्।
योधाः परिपतन्ति स्म वमन्तो रुधिरं मुखैः॥ 9-22-81(61381)
शिरो गृहीत्वा केशेषु कबन्धः स प्रदृश्यते।
उद्यम्य च शितं खङ्गं रुधिरेण परिप्लुतम्॥ 9-22-82(61382)
तथोत्थितेषु बहुषु कबन्धेषु नराधिप।
तथा रुधिरगन्धेन योधाः कश्मलमाविशन्॥ 9-22-83(61383)
मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम्।
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः॥ 9-22-84(61384)
ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्विनः।
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः॥ 9-22-85(61385)
कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः।
शस्त्रैर्नानाविधैर्जघ्नुर्युद्वपारं तितीर्षवः॥ 9-22-86(61386)
त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान्।
रथाश्वपत्तिद्विरदाः पाण्डवानभिदुद्रुवुः॥ 9-22-87(61387)
केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम्।
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन्॥ 9-22-88(61388)
रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः।
विमानेभ्यो दिवो भ्रष्टाः सिद्वाः पुण्यक्षयादिव॥ 9-22-89(61389)
एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे।
पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथा परे॥ 9-22-90(61390)
एवमासीदमर्यादं युद्वं भरतसत्तम।
प्रासासिबाणकलिलं वर्तमाने सुदारुणे॥ ॥ 9-22-91(61391)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे द्वाविंशोऽध्यायः॥ 22 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|