|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.20. अध्यायः 020
Mahabharata - Shalya Parva - Chapter Topics
सात्यकिना कृतवर्मपराजयः॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-20-0x(5116)(61214)
तस्मिंस्तु निहते शूरे साल्वे समितिशोभने।
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः॥ 9-20-1(61215)
तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः।
दधार समरे शूरः शत्रुसैन्यं महाबलः॥ 9-20-2(61216)
सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे।
शैलोपमं स्थिरं राजन्कीर्यमाणं शरैर्युधि॥ 9-20-3(61217)
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह।
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम्॥ 9-20-4(61218)
तत्राश्चर्यमभूद्युद्वं सात्वतस्य परैः सह।
यदेको वारयामास पाण्डुसेनां दुरासदाम्॥ 9-20-5(61219)
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे।
सिंहनादः प्रहृष्टानां दिविस्पृक्सुमहानभूत्॥ 9-20-6(61220)
तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ।
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः॥ 9-20-7(61221)
स समासाद्य राजानं क्षेमधूर्तिं महाबलम्।
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम्॥ 9-20-8(61222)
तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान्।
जवेनाभ्यपतद्वीमान्हार्दिक्यः शिनिपुङ्गवम्॥ 9-20-9(61223)
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ।
अन्योन्यमभिधावन्तौ शस्त्रप्रवरधारिणौ॥ 9-20-10(61224)
पाण्डवाः सहपाञ्चाला योधाश्चान्ये नृपोत्तमाः।
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः॥ 9-20-11(61225)
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ।
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्चरौ॥ 9-20-12(61226)
चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ।
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम्॥ 9-20-13(61227)
चापवेगबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः।
आकाशे समपश्याम पतङ्गानिव शीघ्रगान्॥ 9-20-14(61228)
तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः।
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान्॥ 9-20-15(61229)
स दीर्घबाहुः सङ्क्रुद्धस्तोत्रार्दित इव द्विपः।
अष्टभिः कृतवर्माणमविध्यत्परमेषुभिः॥ 9-20-16(61230)
ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः।
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे॥ 9-20-17(61231)
निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः।
अन्यदादत्त वेगेन शैनेयः सशरं धनुः॥ 9-20-18(61232)
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्।
आरोप्य च धनुः शीघ्रं महावीर्यो महाबलः॥ 9-20-19(61233)
अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा।
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात्॥ 9-20-20(61234)
ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः।
जघान सूतं चाश्वांश्च ध्वजं च कृतवर्मणः॥ 9-20-21(61235)
ततो राजन्महेष्वासः कृतवर्मा महारथः।
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम्॥ 9-20-22(61236)
रोषेण महताऽऽविष्टः शूलमुद्यम्य मारिष।
चिक्षेप भुजवेगेन जिघांसुः शिनि पुङ्गवम्॥ 9-20-23(61237)
तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः।
चूर्णितं पातयामास मोहयन्निव माधवम्।
ततोऽपरेण भल्लेन हृद्येनं समताडयत्॥ 9-20-24(61238)
सुयुद्वे युयुधानेन हताश्वो हतसारथिः।
कृतवर्मा कृतास्त्रेण धरमीमन्वपद्यत॥ 9-20-25(61239)
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते।
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम्॥ 9-20-26(61240)
पुत्राणां तव चात्यर्थं विषादः समजायत।
हतसूते हताश्वे तु विरथे कृतवर्मणि॥ 9-20-27(61241)
हताश्वं च समालक्ष्य हतसूतमरिन्दम।
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम्॥ 9-20-28(61242)
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम्।
अपोवाह महाबाहुं तूर्णमायोधनादपि॥ 9-20-29(61243)
शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्॥ 9-20-30(61244)
तत्परे नान्वबुध्यन्त सैन्येन रजसा वृताः।
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम्॥ 9-20-31(61245)
दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात्।
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत्॥ 9-20-32(61246)
पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम्।
शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः॥ 9-20-33(61247)
केकयान्सोमकांश्चैव सृञ्जयांश्चैव मारिष।
असम्भ्रमं दुराधर्षः शितैर्बाणैरवाकिरत्॥ 9-20-34(61248)
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः।
यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशते।
तथा दुर्योधनो राजा सङ्ग्रामे सर्वतोऽभवत्॥ 9-20-35(61249)
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे।
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत॥ ॥ 9-20-36(61250)
इति श्रीमन्महाभारते शल्यपर्वमि शल्यवधपर्वणि अष्टादशदिवसयुद्धे विंशोऽध्यायः॥ 20 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-20-3 सात्वतं कृतवर्माणम्॥ 9-20-20 विंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|