|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.16. अध्यायः 016
Mahabharata - Shalya Parva - Chapter Topics
युधिष्ठिरेण शल्यशल्यानुजयोर्वधः॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-16-0x(5109)(60989)
तं भीमसेनश्च शिनेश्च नप्ता
माद्याश्च पुत्रौ पुरुषप्रवीरौ।
समागतं भीमबलेन राज्ञा
पर्यापुरन्योन्यमथाह्वयन्त॥ 9-16-1(60990)
ततस्तु शूराः समरे नरेन्द्र
नरेश्वरं प्राप्य युधां वरिष्ठम्।
आवार्य चैनं समरे नृवीरा
जघ्नुः शितैः पत्रिभिरुग्रवेगैः॥ 9-16-2(60991)
संरक्षितो भीमसेनेन राजा
माद्रीसुताभ्यामथ माधवेन।
मद्राधिपं पत्रिभिरुग्रवेगैः
स्तनान्तरे धर्मसुतो निजघ्ने॥ 9-16-3(60992)
ततो रणे तावकानां रथौघाः
समीक्ष्य मद्राधिपतिं शरार्तम्।
पर्यावव्रुः प्रवराः सर्वयोधा
दुर्योधनस्यानुमते पुरस्तात्॥ 9-16-4(60993)
ततो द्रुतं मद्रजनाधिपो रणे
युधिष्ठिरं सप्तभिरभ्यविद्व्यत्।
तं चापि पार्थौ नवभिः पृषत्कै--
र्विव्याध राजंस्तुमुले महात्मा॥ 9-16-5(60994)
आकर्णपूर्णायतसम्प्रयुक्तैः
शरैस्तदा संयति तैलधौतैः।
अन्योन्यमाच्छादयतां महारथौ
मद्राधिपश्चापि युधिष्ठिरश्च॥ 9-16-6(60995)
ततस्तु तूर्णं समरे महारथौ
परस्परस्यान्तरमीक्षमाणौ।
शरैर्भृशं विव्यधतुर्नृपोत्तमौ
महबलौ शत्रुभिरप्रधृष्यौ॥ 9-16-7(60996)
तयोर्धनुर्ज्यातलनिःस्वनो महा--
न्महेन्द्रवज्राशनितुल्यनिः स्वनः।
परस्परं बाणगणैर्महात्मनोः
प्रवर्षतोर्मद्रपपाण्डुवीरयोः॥ 9-16-8(60997)
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ
महावनेष्वामिषगृद्विनाविव।
विषाणिनौ नागवराविवोभौ
ततक्षतुः संयति जातदर्पौ॥ 9-16-9(60998)
ततस्तु मद्राधिपतिर्महात्मा
युधिष्ठिरं भीमबलं प्रसह्य।
विव्याध वीरं हृदयेऽतिवेगं
शरेण सूर्याग्निसमप्रभेण॥ 9-16-10(60999)
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि
सुसम्प्रयुक्तेन शरेण राजन्।
जघान मद्राधिपतिं महात्मा
मुदं च लेभे वृषभः कुरूणाम्॥ 9-16-11(61000)
ततो मुहूर्तादिव पार्थिवेन्द्रो
लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः।
शरेण पार्थं त्वरितो जघान
सहस्रनेत्रप्रतिमप्रभावः॥ 9-16-12(61001)
त्वरंस्ततो धर्मसुतो महात्मा
शल्यस्य कोपान्नवभिः पृषत्कैः।
भित्त्वा ह्युरस्तपनीयं च वर्म
जघान षड्भिस्त्वपरैः पृषत्कैः॥ 9-16-13(61002)
ततस्तु मद्राधिपतिः प्रकृष्टं
धनुर्विकृष्य व्यसृजत्पृषत्कान्।
द्वाभ्यां शराभ्यां च तथैव राज्ञ--
श्चिच्छेद चापं कुरुपुङ्गवस्य॥ 9-16-14(61003)
नवं ततोऽन्यत्समरे प्रगृह्य
राजा धनुर्धोरतरं महात्मा।
शल्यं तु विव्याध शरैः समन्ता--
द्यथा महेन्द्रो नमुचिं शिताग्रैः॥ 9-16-15(61004)
ततस्तु शल्यो नवभिः पृषत्कै--
र्भीमस्य राज्ञश्च युधिष्ठिरस्य।
निकृत्य रौक्मे पटुवर्मणी तयो--
र्विदास्यामास भुजौ महात्मा॥ 9-16-16(61005)
ततोऽपरेण ज्वलनार्कतेजसा
क्षुरेण राज्ञो धनुरुन्ममाथ।
कृपश्च तस्यैव जघान सूतं
षड्भिः शरैः सोऽभिमुखः पपात॥ 9-16-17(61006)
मद्राधिपश्चापि युधिष्ठिरस्य
शरैश्चतुर्भिर्निजघान वाहान्।
वाहांश्च हत्वा व्यकरोन्महात्मा
योधक्षयं धर्मसुतस्य राज्ञः॥ 9-16-18(61007)
`यदद्भुतं कर्म न शक्यमन्यैः
सुदुःसहं तत्कृतवन्तमेकम्।
शल्यो नरेन्द्रः सविषण्णभावा--
द्विचिन्तयामास मृदङ्गकेतुः॥ 9-16-19(61008)
किमेतदिन्द्रावरजस्य वाक्यं
मोघं भवत्यद्य विधेर्बलेन।
जहीति शल्यं ह्यवदत्तदाऽऽजौ
न लोकनाथस्य वचोऽन्यथा स्यात्॥' 9-16-20(61009)
तथा कृते राजनि भीमसेनो
मद्राधिपस्याथ ततो महात्मा।
छित्त्वा धनुर्वेगवता शरेण
द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम्॥ 9-16-21(61010)
तथापरेणास्य जहार यन्तुः
कायाच्छिरः संहननीयमध्यात्।
जघान चाश्वांश्चतुरः सुशीघ्रं
तथा भृशं कुपितो भीमसेनः॥ 9-16-22(61011)
तमग्रणीः सर्वधनुर्धराणा--
मेकं चरन्तं समरेऽतिवेगम्।
भीमः शतेन व्यकिरच्छराणां
माद्रीपुत्रः सहदेवस्तथैव॥ 9-16-23(61012)
तैः सायकैर्मोहितं वीक्ष्य शल्यं
भीमः शरैरस्य चकर्त वर्म।
स भीमसेनेन निकृत्तवर्मा
मद्राधिपश्चर्म सहस्रतारम्॥ 9-16-24(61013)
प्रगृह्य खङ्गं च रथान्महात्मा
प्रस्कन्द्य कुन्तीसुतमभ्यधावत्।
छित्त्वा रथेषां नकुलस्य सोऽथ
युधिष्ठिरं भीमबलोऽभ्यधावत्॥ 9-16-25(61014)
तं चापि राजानमथोत्पतन्तं
क्रुद्धं यथैवान्तकमापतन्तम्।
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी
शिनेश्च नप्ता सहसा परीयुः॥ 9-16-26(61015)
अथास्य चर्माप्रतिमं न्यकृन्त--
द्भीमो महात्मा नवभिः पृषत्कैः।
खङ्गं च भल्लैर्निचकर्त मुष्टौ
नदन्प्रहृष्टस्तव सैन्यमध्ये॥ 9-16-27(61016)
तत्कर्म भीमस्य समीक्ष्य हृष्टा--
स्ते पाण्डवानां प्रवरा रथौघाः।
नादं च चक्रुर्भृशमुत्स्मयन्तः
शङ्खांश्च दध्मुः शशिसन्निकाशान्॥ 9-16-28(61017)
तेनाथ शब्देन विभीषणेन
तथाऽभितप्तं बलमप्रधृष्यम्।
स्वेदाभिभूतं रुधिरोक्षिताङ्गं
विसञ्ज्ञकल्पं च तदा विषण्णम्॥ 9-16-29(61018)
स मद्रराजः सहसा विकीर्णो
भीमाग्रगैः पाण्डवयोधमुख्यैः।
युधिष्ठिरस्याभिमुखं जवेन
सिंहो यथा मृगहेतोः प्रयातः॥ 9-16-30(61019)
स धर्मराजो निहताश्वसूतः
क्रोधेन दीप्तो ज्वलनप्रकाशः।
दृष्ट्वा च मद्राधिपतिं स्म तूर्णं
समभ्यधावत्तमरिं बलेन॥ 9-16-31(61020)
गोविन्दवाक्यं त्वरितं विचिन्त्य
दध्रे मतिं शल्यविनाशनाय।
स धर्मराजो निहताश्वसूतो
रथे तिष्ठञ्शक्तिमथान्वकर्षत्॥ 9-16-32(61021)
तच्चxx शल्यस्य निशाम्य कर्म
तमात्मनो भागमथावशिष्टम्।
कृत्वा मनः शल्यवधे महात्मा
यथोक्तमिन्द्रावरजस्य चक्रे॥ 9-16-33(61022)
स धर्मराजो मणिहेमदण्डां
जग्राह शक्तिं कनकप्रकाशाम्।
नेत्रे च दीप्ते सहसा विवृत्य
मद्राधिपं क्रुद्धमना निरैक्षत्॥ 9-16-34(61023)
निरीक्षितो धर्मसुतेन राज्ञा
षूतात्मना निर्हृतकल्मषेण।
आसीन्न यद्भस्मसान्मद्रराज--
स्तदद्भुतं मे प्रतिभाति राजन्॥ 9-16-35(61024)
ततस्तु शक्तिं रचिरोग्रदण्डां
मणिप्रवेकोज्ज्वलितां प्रदीप्ताम्।
चिक्षेप वेगात्सुभृशं महात्मा
मद्राधिपाय प्रवरः कुरूणाम्॥ 9-16-36(61025)
दीप्तामथैनां प्रहितां बलेन
सविस्फुलिङ्गां सहसापतन्तीम्।
प्रैक्षन्त सर्वे कुरवः समेता
दिवो युगान्ते महतीमिवोल्काम्॥ 9-16-37(61026)
तां कालरात्रीमिव पाशहस्तां
यमस्य धात्रीमिव चोग्ररूपाम्।
स ब्रह्मदण्डप्रतिमाममोधां
ससर्ज यत्तो युधि धर्मराजः॥ 9-16-38(61027)
गन्धस्रगग्र्यासनपानभोजनै--
रभ्यर्चितां पाण्डुसुतैः प्रयत्नात्।
सांवर्तकाग्निप्रतिमां ज्वलन्तीं
कृत्यामथर्वाङ्गिरसीमिवोग्राम्॥ 9-16-39(61028)
ईशानहेतोः प्रतिनिर्मितां तां
त्वष्ट्रा रिपूणामसुदेहभक्ष्याम्।
भूम्यन्तरिक्षद्युजलाश्रयाणि
प्रसह्य भूतानि निहन्तुमीशाम्॥ 9-16-40(61029)
घण़्टापताकां मणिवज्रभूषां
वैदूर्यचित्रां तपनीयदण्डाम्।
त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां
ब्रह्मद्विषामन्तकरीममाघाम्॥ 9-16-41(61030)
बलप्रयत्नादनिरोधवेगां
मन्त्रैश्च घोरैरपि पूरयित्वा।
ससर्ज मार्गेण च तां खगानां
वधाय मद्राधिपतेस्तदानीम्॥ 9-16-42(61031)
हतो ह्यसावित्यभिगर्जमानो
रुद्रोऽन्धकायान्तकरं यथेषुम्।
प्रसार्य बाहुं सुदृढं सुपाणिं
क्रोधेन नृत्यन्निव धर्मराजः॥ 9-16-43(61032)
`स्फुरत्प्रभामण्डलिनोंशुजालै--
र्धर्मात्मनो मद्रविनाशकाले।
पुरत्रयप्रोत्सरणे पुरस्ता--
न्माहेश्वरं रूपमभूत्तदानीम्॥ 9-16-44(61033)
आवर्तनाकुञ्चितबाहुदण्डः
सन्ध्याविहारी तनुवृत्तमध्यः।
विशालवक्षा भगवान्हरो यथा
सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः'॥ 9-16-45(61034)
तां सर्वशक्त्या प्रहितां सुशक्तिं
युधिष्ठिरेणाप्रतिवार्यवीर्याम्।
प्रतिग्रहायाभिननन्द शल्यः
सम्यग्घुतामग्निरिवाज्यधाराम्॥ 9-16-46(61035)
सा तस्य वर्माभिविदार्य शुभ्र--
मुरो विशालं च तथैव भित्त्वा।
विवेश गां तोयमिवाप्रसक्ता
यशो विशालं नृपतेर्हरन्ती॥ 9-16-47(61036)
नासाक्षिकर्णास्यविनिः सृतेन
प्रस्यन्दता च व्रणसम्भवेन।
संसिक्तगात्रो रुधिरेण सोऽभू--
त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः॥ 9-16-48(61037)
प्रसार्य बाहू च रथाद्गतो गां
सञ्छिन्नवर्मा कुरुनन्दनेन।
महेन्द्रवाहप्रतिमो महात्मा
वज्राहतं शृङ्गमिवाचलस्य॥ 9-16-49(61038)
ततो निपतितः सोऽभूदिन्द्रध्वज इवोच्छ्रितः।
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट्।
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः॥ 9-16-50(61039)
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः।
प्रियया कान्तया कान्तः पतमान इवोरसि॥ 9-16-51(61040)
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः।
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव चाभवत्॥ 9-16-52(61041)
धर्म्ये धर्मात्मना युद्वे निहतो धर्मसूनुना।
सम्यक्स्फीत इवोत्सृष्टः प्रशान्तोऽग्निरिवाध्वरे॥ 9-16-53(61042)
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम्।
संशान्तमपि मद्रेशं लक्ष्मीर्नैव विमुञ्चति॥ 9-16-54(61043)
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम्।
व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान्।
देहान्सुनिशितैर्भल्लै रिपूणां नाशयन्क्षणात्॥ 9-16-55(61044)
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव।
निमीलिताक्षाः क्षिण्वन्ति भृशमन्योन्यकर्शिताः।
क्षरन्तो रुधिरं देहैर्विशस्त्रायुधजीविताः॥ 9-16-56(61045)
ततः शल्ये निपतिते मद्रराजानुजो युवा।
भ्रातुस्तुल्यो गुणैः सर्वै रथी पाण्डवमभ्ययात्॥ 9-16-57(61046)
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन्।
हतस्यापचितिं भ्रातुश्चिकीषुर्युद्धदुर्मदः॥ 9-16-58(61047)
तं विव्याधाशुगैः ष़ड्भिर्धर्मराजस्त्वरन्निव।
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च॥ 9-16-59(61048)
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च।
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः॥ 9-16-60(61049)
सकुण्डलं तद्ददृशे पतमानं शिरो रथात्।
पुण्यक्षयमनुप्राप्य पतन्स्वर्गादिव च्युतः॥ 9-16-61(61050)
तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात्।
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत॥ 9-16-62(61051)
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे।
हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवुः॥ 9-16-63(61052)
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः।
वित्रेसुः पाण्डवभयात्प्रविध्वस्तास्तदा भृशम्॥ 9-16-64(61053)
तांस्तथा भज्यमानांस्तु कौरवान्भरतर्षभ।
शिनेर्नप्ताऽकिरन्बाणैरभ्यवर्तत सात्यकिः॥ 9-16-65(61054)
तमायान्तं महेष्वासं दुष्प्रसह्यं दुरासदम्।
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत्॥ 9-16-66(61055)
तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ।
हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ॥ 9-16-67(61056)
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम्।
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ॥ 9-16-68(61057)
चापमार्गबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः।
आकाशगानपश्याम पतङ्गानिव शीघ्रगान्॥ 9-16-69(61058)
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः।
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा॥ 9-16-70(61059)
तन्निकृत्तं धनुःश्रेष्ठमपास्य शिनिपुङ्गवः।
अन्यदादत्त वेगेन धनुर्जलदनिःस्वनम्॥ 9-16-71(61060)
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्।
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे॥ 9-16-72(61061)
ततो युगं रथेषां च च्छित्त्वा भल्लैः सुसंयतैः।
अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी॥ 9-16-73(61062)
हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो।
अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान्॥ 9-16-74(61063)
मद्रराजे हते राजन्विरथे कृतवर्मणि।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्॥ 9-16-75(61064)
स्व परे नान्वबुध्यन्त सैन्येन रजसा वृते।
बलं तु हतभूयिष्ठं त्रस्तमासीत्पराङ्मुखम्॥ 9-16-76(61065)
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम्।
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ॥ 9-16-77(61066)
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात्।
जवेनापततः पार्थानेकः सर्वानवारयत्॥ 9-16-78(61067)
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम्।
आनर्त्तं च दुराधर्षं शितैर्बाणैरवारयत्॥ 9-16-79(61068)
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम्।
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत॥ 9-16-80(61069)
ततो युधिष्ठिरो राजा त्वरमाणो महारथः।
चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः।
विव्याध गौतमं चापि ष़ड्भिर्भल्लैः सुतेजनैः॥ 9-16-81(61070)
अश्वत्थामाः ततो राज्ञा हताश्वं विरथीकृतम्।
तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात्॥ 9-16-82(61071)
ततः शारद्वतः षड्भिः प्रत्यविध्यद्युधिष्ठिरम्।
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः॥ 9-16-83(61072)
एवमेतन्महाराज युद्धशेषमवर्तत।
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत॥ 9-16-84(61073)
तस्मिन्महेष्वासधरे विशस्ते
सङ्ग्राममध्ये कुरुपुङ्गवेन।
पार्थाः समेताः परमप्रहृष्टाः
शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम्॥ 9-16-85(61074)
युधिष्ठिरं च प्रशशंसुराजौ
पुरा सुरा वृत्रवधे यथेन्द्रम्।
चक्रुश्च नानाविधवाद्यशब्दा--
न्निनादयन्तो वसुधां समन्तात्॥ ॥ 9-16-86(61075)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे षोडशोऽध्यायः॥ 16 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-16-22 संहननीयो दृढसन्धिको मध्यो यस्य तस्मात्कायात्॥ 9-16-47 तोयमिव सुप्रवेशाङ्गाम्। अप्रसक्तः अप्रतिहता। नृपतेः शल्यस्य॥ 9-16-16 षोडशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|