(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.15. अध्यायः 015
Mahabharata - Shalya Parva - Chapter Topics
शल्ययुधिष्ठिरयोर्युद्धम्॥ 1 ॥


Mahabharata - Shalya Parva - Chapter Text

सञ्जय उवाच। 9-15-0x(5108)(60913)
ततः सेना तव विभो मद्रराजपुरस्कृता।
पुनरभ्यद्रवत्पार्थान्वेगेन महता रणे॥ 9-15-1(60914)
पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः।
क्षणेन चैव पार्थांस्ते बहुत्वात्समलोडयन्॥ 9-15-2(60915)
ते वध्यमानाः समरे पाण्डवा नावतस्थिरे।
क्षणेनैव महाराज पश्यतोः कृष्णपार्थयोः॥ 9-15-3(60916)
ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः।
अवाकिरच्छरौघेण कृतवर्माणमेव च॥ 9-15-4(60917)
शकुनिं सहदेवस्तु सहसैन्यमवाकिरत्।
नकुलः पार्श्वतः स्थित्वा मद्रराजमयोधयत्॥ 9-15-5(60918)
द्रौपदेया नरेन्द्राश्च भूयिष्ठान्समवारयन्।
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत्॥ 9-15-6(60919)
भीमसेनस्तु राजानं गदापाणिरवारयत्।
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः॥ 9-15-7(60920)
ततः समभवद्युद्धं संसक्तं तत्रतत्र ह।
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम्॥ 9-15-8(60921)
तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे।
यदेकः सर्वसैन्यानि पाण्डवानामयोधयत्॥ 9-15-9(60922)
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः।
क्रूरश्चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः॥ 9-15-10(60923)
पीडयित्वा तु राजानं शरैराशीविषोपमैः।
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत्॥ 9-15-11(60924)
तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम्।
अपूजयन्ननीकानि परेषां तावकानि च॥ 9-15-12(60925)
पीड्यमानास्तु शल्येन पाण्डवा भृशाविक्षताः।
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे॥ 9-15-13(60926)
वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः।
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः॥ 9-15-14(60927)
ततः पौरुषमास्थाय मद्रराजमताडयत्।
जयो वाऽस्तु वधो वेति कृतबुद्धिर्महारथः॥ 9-15-15(60928)
समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च पाण्डवः॥ 9-15-16(60929)
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः।
कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः।
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः॥ 9-15-17(60930)
भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः।
सोऽहमद्य युधा जेतुमाशंसे मद्रकाधिपम्॥ 9-15-18(60931)
तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः।
चक्ररक्षाविमौ वीरौ मम माद्रवतीसुतौ॥ 9-15-19(60932)
अजेयौ वासवेनापि समरे शूरसम्मतौ।
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ॥ 9-15-20(60933)
मदर्थे प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ।
मां वा शल्यो रणे हन्ता तं वाऽहं भद्रमस्तु वः।
इति सत्यामिमां वाणीं लोकवीरा निबोधत॥ 9-15-21(60934)
योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः।
स्वमंशमभिसन्धाय विजयायेतराय वा॥ 9-15-22(60935)
तस्य मेऽप्यधिकं शस्त्रं सर्वोपकरणानि च।
संयुज्यन्तां रथे क्षिप्रं शास्त्रवद्रथयोजकैः॥ 9-15-23(60936)
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम्।
पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः॥ 9-15-24(60937)
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः।
एवमभ्यधिकः शल्याद्भविष्यामि महामृधे॥ 9-15-25(60938)
एवमुक्तास्तथा चक्रुस्तदा राज्ञः प्रियैषिणः॥ 9-15-26(60939)
ततः प्रहर्षः सैव्यानां पुनरासीत्तदाः मृधे।
पाञ्चालानां सोमकानां मात्स्यानां च विशेषतः॥ 9-15-27(60940)
प्रतिज्ञातं च सङ्ग्रामे धर्मराजस्य पूजयन्।
ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान्।
अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे॥ 9-15-28(60941)
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम्।
महता हर्षजेनाथ नादेन कुरुपुङ्गवाः॥ 9-15-29(60942)
हादेन गजघण्टानां शङ्खानां निनदेन च।
तूर्यशब्देन महता नादयन्तश्च मेदिनीम्॥ 9-15-30(60943)
तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान्।
महामेघानिव बहूञ्शैलावस्तोदयावुभौ॥ 9-15-31(60944)
शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम्।
ववर्ष शरवर्षेण शम्बरं मघवा इव॥ 9-15-32(60945)
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः।
द्रोणोपदेशान्विविधान्दर्शयानो महामनाः।
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च॥ 9-15-33(60946)
न चास्य विवरं कश्चिद्ददर्श चरतो रणे॥ 9-15-34(60947)
तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम्।
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे॥ 9-15-35(60948)
भीमस्तु तव पुत्रेण युद्धशौण्डेन सङ्गतः॥ 9-15-36(60949)
पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ।
शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः॥ 9-15-37(60950)
तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम्।
तावकानां परेषां च राजन्दुर्मन्त्रिते तव॥ 9-15-38(60951)
दुर्योधनस्तु भीमस्य शरेणानतपर्वणा।
चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमपरिष्कृतम्॥ 9-15-39(60952)
स किङ्किणीकजालेन महता चारुदर्शनः।
पपात रुचिरः सिंहो भीमसेनस्य पश्यतः॥ 9-15-40(60953)
पुनश्चास्य धनुश्चित्रं गजराजकरोपमम्।
क्षुरेण शितधारेण प्रचकर्त नराधिपः॥ 9-15-41(60954)
स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव।
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत्॥ 9-15-42(60955)
तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः।
यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा॥ 9-15-43(60956)
हतसूता हयास्तस्य रथमादाय भारत।
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाऽभवत्॥ 9-15-44(60957)
तमभ्यधावंस्त्राणार्थं द्रोणपुत्रो महारथः।
कृपश्च कृतवर्मां च पुत्रं ते हि परीप्सवः॥ 9-15-45(60958)
तस्मिन्विलुलिते सैन्ये त्रस्तांस्तस्य पदानुगान्।
गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः॥ 9-15-46(60959)
युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः।
स्वयं सन्नोदयन्नश्वान्दन्तवर्णान्मनोजवान्॥ 9-15-47(60960)
तत्राश्चर्यपमश्याम कुन्तीपुत्रे युधिष्ठिरे।
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत्॥ 9-15-48(60961)
विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना।
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः॥ 9-15-49(60962)
यांयां प्रत्युद्ययौ सेनां तांतां ज्येष्ठः स पाण्डवः।
शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः॥ 9-15-50(60963)
साश्वसूतध्वजरथान्रथिनः पातयन्बहून्।
अक्रीडदेको बलवान्पवनस्तोयदानिव॥ 9-15-51(60964)
साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रधा।
व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव॥ 9-15-52(60965)
शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः।
अभ्यद्रवत मद्रेशं तिष्ठतिष्ठेति चाब्रवीत्॥ 9-15-53(60966)
तस्य तच्चरितं दृष्ट्वा संग्रामे भीमकर्मणः।
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात्॥ 9-15-54(60967)
ततस्तौ भृशसङ्क्रुद्धौ प्रध्माय सलिलोद्भवौ।
समाहूय तदाऽन्योन्यं भर्त्सयन्तौ समीयतुः॥ 9-15-55(60968)
शल्यस्तु शरवर्षेण पीडयामास पाण्डवम्।
मद्रराजं तु कौन्तेयः शरवर्षैरवाकिरत्॥ 9-15-56(60969)
अदृश्येतां तदा राजन्कङ्कपत्रिभिराचितौ।
उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ।
पुष्पिताविव रेजाते वने शाल्मलिकिंशुकौ॥ 9-15-57(60970)
दीव्यमानौ महात्मानौ प्राणद्यूतेन दुर्मदौ।
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम्॥ 9-15-58(60971)
हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम्।
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम्॥ 9-15-59(60972)
इतीव निश्चयो नाभूद्योधानां तत्र भारत।
प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः॥ 9-15-60(60973)
ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे।
धनुश्चास्य शिताग्रेण बाणेन निरुकृन्तत॥ 9-15-61(60974)
सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः।
अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत॥ 9-15-62(60975)
अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः।
द्वाभ्यामतिशिताग्राभ्यामुभौ तत्पार्ष्णिसारथी॥ 9-15-63(60976)
ततोऽस्य दीप्यमानेन पीतेन निशितेन च।
प्रमुखे वर्तमानस्य भल्लेनापाहरद्वृजम्॥ 9-15-64(60977)
ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिन्दम॥ 9-15-65(60978)
ततो मद्राधिपं द्रौणिरभ्यधावत्तथा कृतम्।
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे॥ 9-15-66(60979)
मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे।
गत्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः॥ 9-15-67(60980)
विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम्।
सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम्॥ 9-15-68(60981)
तथान्यद्धनुरादाय बलवान्वेगवत्तरम्॥
युधिष्ठिरं मद्रपतिर्भित्त्वा सिंह इवानदत्॥ 9-15-69(60982)
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान्।
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः॥ 9-15-70(60983)
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः।
सहदेवं त्रिभिर्विद्धा युधिष्ठिरमपीडयत्॥ 9-15-71(60984)
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकूबरान्।
अर्दयामास विशिखैरुल्काभिरिव कुञ्जरान्॥ 9-15-72(60985)
कुञ्जरान्कुञ्जरारोहानश्वप्रयायिनः।
रथांश्च रथिभिः सार्धं जघान रथिनां वरः॥ 9-15-73(60986)
बाहूंश्चिच्छेद तरसा सायुधान्केतनानि च।
चकार च महीं योधैः स्तीर्णां वेदीं कुशैरिव॥ 9-15-74(60987)
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम्।
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः॥ ॥ 9-15-75(60988)

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे पञ्चदशोऽध्यायः॥ 15 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-15-42 रथशक्त्या रथस्थया शक्त्या॥ 9-15-50 यां यामभ्यगमत्सेनां तां तां व्यनीनशत्। न्यपातयत कौन्तेयो गिरीन्वज्र इवोत्तमान्। इति क.ख.पाठः॥ 9-15-67 मुहूर्तमिव तान्हत्वा नर्दमीने युधिष्ठिरे इति क.ख.पाठः॥ 9-15-15 पञ्चदशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.