|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.11. अध्यायः 011
Mahabharata - Shalya Parva - Chapter Topics
शल्यभीमयोर्गदायुद्धम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-11-0x(5104)(60708)
पतितं प्रेक्ष्य यन्तारं शल्यः शैक्यायसीं गदाम्।
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः॥ 9-11-1(60709)
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम्।
सशृङ्गमिव कैलासं सवज्रमिव वासवम्॥ 9-11-2(60710)
सशूलमिव हर्यक्षं सचक्रमिव चक्रिणम्।
सशक्तिमिव सेनान्यं वने मत्तमिव द्विपम्।
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम्॥ 9-11-3(60711)
ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः।
सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः॥ 9-11-4(60712)
प्रैक्षन्त सर्वतस्तौ हि योधा मत्ताविव द्विपौ।
तावकाश्चापरे चैव साधुसाध्वित्यपूजयन्॥ 9-11-5(60713)
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात्।
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे॥ 9-11-6(60714)
तथा मद्राधिपस्यापि गदावेगं महात्मनः।
सोढुमुत्सहते नान्यः पुमान्युधि वृकोदरात्॥ 9-11-7(60715)
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः।
आवर्तितौ गदाहस्तौ मद्रराजवृकोदरौ॥ 9-11-8(60716)
मण्डलावर्तमार्गेषु गदाविहरणेषु च।
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः॥ 9-11-9(60717)
तप्तहेममयैः शुभ्रैर्बभूव भयवर्धिनी।
अग्निज्वालैरिवाबद्धा पट्टैः शल्यस्य सा गदा॥ 9-11-10(60718)
तथैव चरतो मार्गान्मण्डलेषु महात्मनः।
विद्युदभ्रग्रतीकाशा भीमस्य शुशुभे गदा॥ 9-11-11(60719)
ताडिता मद्रराजेन भीमस्य गदया गदा।
दह्यमानेव खे राजन्साऽसृजत्पावकार्चिषः॥ 9-11-12(60720)
तथा भीमेन शल्यस्य ताडिता गदया गदा।
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत्॥ 9-11-13(60721)
दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ।
तौ विरेजतुरन्योन्यं गदाग्राभ्यां परिक्षतौ॥ 9-11-14(60722)
तौ गदाभिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ।
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ॥ 9-11-15(60723)
गदया मद्रराजस्य सव्यदक्षिणमाहतः।
भीमसेनो महाबाहुर्न चचालाचलो यथा॥ 9-11-16(60724)
तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः।
शल्यो न विव्यथे राजन्दन्तिनेव महागिरिः॥ 9-11-17(60725)
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः।
गदानिपातसंहादो वज्रयोरिव निःस्वनः॥ 9-11-18(60726)
निवृत्य तु महावीर्यौ समुच्छ्रितमहागदौ।
पुनरन्तरमार्गस्थौ पण्डलानि विचेरतुः॥ 9-11-19(60727)
अथाभ्येत्य पदान्यष्टौ सन्निपातोऽभवत्तयोः।
उद्यम्य लोहदण़्डाभ्यामतिमानुषकर्मणोः॥ 9-11-20(60728)
पोथयन्तौ तदाऽन्योन्यं मण्डलानि विचेरतुः।
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा॥ 9-11-21(60729)
अभ्युद्यतगदौ वीरौ सशृङ्गाविव पर्वतौ।
तावाजघ्नतुरन्योन्यं मण्डलानि विचेरतुः॥ 9-11-22(60730)
क्रियाविशेषकृतिनौ रणभूमितलेऽचलौ।
तौ परस्परसंरम्भाद्गदाभ्यां सुभृशाहतौ॥ 9-11-23(60731)
युगपत्पेततुर्वीरावुभाविन्द्रबली इव।
उभयः सेनयोर्योधास्तदा हाहाकृताभवन्॥ 9-11-24(60732)
भृशं मर्मस्वभिहतावुभावास्तां सुविह्वलौ॥ 9-11-25(60733)
ततः स्वरथमारोप्य मद्राणामृषभं रणे।
अपोवाह कृपः शल्यं तूर्णमायोधनादथ॥ 9-11-26(60734)
क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः।
भीमसेनो गदापाणिः समाह्वयत मद्रपम्॥ 9-11-27(60735)
ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः।
नानावादित्रशब्देन पाण्डुसेनामयोधयन्॥ 9-11-28(60736)
भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः।
अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः॥ 9-11-29(60737)
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः।
प्रययुः सिंहनादेन दुर्योधनवधेप्सया॥ 9-11-30(60738)
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ।
प्राप्तेन चेकितानं वै विव्याध हृदये भृशम्॥ 9-11-31(60739)
पपात रथोपस्थे तव पुत्रेण पातितः।
रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः॥ 9-11-32(60740)
चेकितानं हतं दृष्ट्वा पाण्डवेया महारथाः।
असक्तमभ्यवर्षन्त शरवर्षाणि भागशः॥ 9-11-33(60741)
तावकानामनीकेषु पाण्डवा जितकाशिनः।
व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः॥ 9-11-34(60742)
कृपश्च कृतवर्मा च सौबलश्च महारथः।
अयोधयन्धर्मराजं मद्रराजपुरस्कृताः॥ 9-11-35(60743)
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम्।
दुर्योधनो महाराज धृष्टद्युम्नमयोधयत्॥ 9-11-36(60744)
त्रिसाहस्रास्तथा राजंस्तव पुत्रेण चोदिताः।
अयोधयन्त विजयं जैगर्तानां महारथाः॥ 9-11-37(60745)
विजये धृतसङ्कल्पाः समरे त्यक्तजीविताः।
प्राविशंस्तावका राजन्हंसा इव महत्सरः॥ 9-11-38(60746)
ततो युद्धमभूद्धोरं परस्परवधैषिणाम्।
अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम्॥ 9-11-39(60747)
तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये।
अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः॥ 9-11-40(60748)
श्रवणान्नामधेयानां पार्थिवानां च कीर्तनात्।
परस्परं विजानीमस्तदायुध्यन्नभीतवत्॥ 9-11-41(60749)
तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम्।
दिशश्च विमला जातास्तस्मिन्रजसि नाशिते॥ 9-11-42(60750)
तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके।
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः॥ 9-11-43(60751)
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि।
सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः॥ 9-11-44(60752)
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः।
स्वर्गसंसक्तमनसो योधा युयुधिरे तदा॥ 9-11-45(60753)
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः।
अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम्॥ 9-11-46(60754)
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत।
इति स्म वाचः श्रूयन्ते तवतेषां च वै बले॥ 9-11-47(60755)
ततः शल्यो महाराज धर्मपुत्रं युधिष्ठिरम्।
विव्याध निशितैर्बाणैर्हन्तुकामो महारथम्॥ 9-11-48(60756)
तस्य पार्थो महाराज नाराचान्वै चतुर्दश।
मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव॥ 9-11-49(60757)
आवार्य पाण्डवं बाणैर्हन्तुकामो महाबलः।
विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः॥ 9-11-50(60758)
अथ मद्रो महाराज शरेणानतपर्वणा।
युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः॥ 9-11-51(60759)
धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महाबलः।
विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः॥ 9-11-52(60760)
चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः।
द्रुमसेनं चतुःषष्ट्या निजघान महारथः॥ 9-11-53(60761)
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना।
निजघान ततो राजंश्चेदीन्वै प़ञ्चविंशतिम्॥ 9-11-54(60762)
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः।
माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः॥ 9-11-55(60763)
एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम।
सम्प्रैषयच्छितान्पार्थः शरानाशीविषोपमान्॥ 9-11-56(60764)
ध्वजाघ्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः।
प्रमुखे वर्तमानस्य भल्लेनापाहरद्रथात्॥ 9-11-57(60765)
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना।
निपतन्तमपश्याम गिरिशृङ्गमिवाहतम्॥ 9-11-58(60766)
ध्वजं निपतितं दृष्ट्वा पाण़्डवं च व्यवस्थितम्।
सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह॥ 9-11-59(60767)
शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान्।
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः॥ 9-11-60(60768)
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ।
एकैकं प़ञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत्॥ 9-11-61(60769)
ततो बाणमयं जालं विततं पाण्डवोरसि।
अपश्याम महाराज मेघजालमिवोद्गतम्॥ 9-11-62(60770)
तस्य शल्यो रणे क्रुद्धः शरैः सन्नतपर्वभिः।
दिशः सञ्छादयामास प्रदिशश्च महारथः॥ 9-11-63(60771)
ततो युधिष्ठिरो राजा बाणजालेन पीडितः।
बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा॥ ॥ 9-11-64(60772)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकादशोऽध्यायः॥ 11 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-11-3 हर्यक्षं रुद्रम्॥ 9-11-10 शुभ्रैदींप्तिमद्धिः॥ 9-11-11 एकादशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|