|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.10. अध्यायः 010
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-10-0x(5103)(60646)
तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम्।
द्रवमाणेषु योधेषु विद्रवत्सु च दन्तिषु॥ 9-10-1(60647)
कूजतां स्तनतां चैव पदातीनां महाहवे।
निहतेषु महाराज हयेषु बहुधा तदा॥ 9-10-2(60648)
प्रक्षये दारुणे घोरे संहारे सर्वदेहिनाम्।
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे॥ 9-10-3(60649)
हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने।
गाहमानेषु योधेषु परस्परवधैषिषु॥ 9-10-4(60650)
प्राणादाने महाघोरे वर्तमाने दुरोदरे।
सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने॥ 9-10-5(60651)
पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः।
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान्॥ 9-10-6(60652)
तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे।
पूर्वाह्णे चापि सम्प्राप्ते भास्करोदयनं प्रति॥ 9-10-7(60653)
लब्धलक्षाः परे राजन्रक्षितास्तु महात्मना।
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम्॥ 9-10-8(60654)
बलिभिः पाण्डवैर्दृप्तैर्लैब्धलक्षैः प्रहारिभिः।
कौरव्यसीदत्पृतना मृगीवाग्निबयाकुला॥ 9-10-9(60655)
तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम्।
उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुसुतान्प्रति॥ 9-10-10(60656)
मद्रराजः सुसङ्क्रुद्धो गृहीत्वा धनुरुत्तमम्।
अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः॥ 9-10-11(60657)
पाण्डवा अपि भूपाल समरे जितकाशिनः।
मद्रराजं समासाद्य बिभिदुर्निशितैः शरैः॥ 9-10-12(60658)
ततः शरशतैस्तीक्ष्णैर्मद्रराजो महारथः।
अर्दयामास तां सेनां धर्मराजस्य पश्यतः॥ 9-10-13(60659)
प्रादुरासन्निमित्तानि नानारूपाण्यनेकशः।
चचाल शब्दं कुर्वाणा मही चापि सपर्वता॥ 9-10-14(60660)
[सदण्डशूला दीप्ताग्रा दीर्यमाणाः समन्ततः।]
उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम्॥ 9-10-15(60661)
मृगाश्च महिषाश्चापि पक्षिणश्च विशाम्पते।
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप॥ 9-10-16(60662)
[भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ।
चरमं पाण्डुपुत्राणां पुरस्तात्सर्वभूभुजाम्॥ 9-10-17(60663)
शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती।
शिरः स्वलीयन्त भृशं काकोलूकाश्च केतुषु]॥ 9-10-18(60664)
ततस्तद्युद्धमत्युग्रमभवत्सहचारिणाम्।
तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप॥ 9-10-19(60665)
अभ्यघ्नत्कौरवो राजा पाण्डवानामनीकिनीम्।
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक्॥ 9-10-20(60666)
अभ्यवर्षत धर्मात्मा कुन्तीपुत्रं युधिष्ठिरम्।
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितैः॥ 9-10-21(60667)
द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ।
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च॥ 9-10-22(60668)
एकैकं दशभिर्बाणैर्विव्याध स महाबलः।
ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव॥ 9-10-23(60669)
ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः।
पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः॥ 9-10-24(60670)
भ्रमराणामिव व्राताः शलभानामिव व्रजाः।
हादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः॥ 9-10-25(60671)
द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा।
शल्यस्य बाणैरपतन्बभ्रमुर्व्यनदंस्तथा॥ 9-10-26(60672)
आविष्ट इव मद्रेशो मन्युना पौरुषेण च।
प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः।
विनर्दमानो मद्रेशो मेघहादो महाबलः॥ 9-10-27(60673)
सा वध्यमाना शल्येन पाण्डवानामनीकिनी।
अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम्॥ 9-10-28(60674)
तां सम्मर्द्य शतैः सङ्ख्ये लघुहस्तः शितैः शरैः।
बाणवर्षेण महता युधिष्ठिरमताडयत्॥ 9-10-29(60675)
तमापतन्तं जात्यश्वैः क्रुद्धो राजा युधिष्ठिरः।
अवारयच्छरैस्तीक्ष्णैर्महाद्विपमिवाङ्कुशैः॥ 9-10-30(60676)
तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम्।
सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम्॥ 9-10-31(60677)
ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः।
पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः॥ 9-10-32(60678)
द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः।
अभ्यवर्षन्महाराज मेघा इव महीधस्म्॥ 9-10-33(60679)
ततो दृष्ट्वा वार्यमाणं शल्यं पार्थैः समन्ततः।
कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम्॥ 9-10-34(60680)
उलूकश्च महावीर्यः शकुनिंश्चापि सौबलः।
समागम्याथ शनकैरश्वत्थामा महाबलः।
तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे॥ 9-10-35(60681)
भीमसेनं त्रिभिर्विद्धा कृतवर्मा शिलीमुखैः।
बाणवर्षेण महता क्रुद्धरूपमवारयत्।
धृष्टद्युम्नं ततः क्रुद्धो बाणवर्षैरपीडयत्॥ 9-10-36(60682)
द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात्॥ 9-10-37(60683)
दुर्योधनो युधांश्रेष्ठ आहवे केशवार्जुनौ।
समभ्ययादुग्रतेजाः शरैश्चाप्यहनद्बली॥ 9-10-38(60684)
एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह।
घोररूपाणि चित्राणि तत्रतत्र विशाम्पते॥ 9-10-39(60685)
ऋक्षवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे।
सोऽवतीर्य रथोपस्थाद्धताश्वात्पाण्डुनन्दनः।
कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत॥ 9-10-40(60686)
प्रमुखे सहदेवस्य जघानाश्वान्स मद्रराट्।
ततः शल्यस्य तनयं सहदेवोऽसिनावधीत्॥ 9-10-41(60687)
गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत्।
असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम्॥ 9-10-42(60688)
द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः।
अविद्ध्यदाचार्यसुतो नातिक्रुद्धो हसन्निव॥ 9-10-43(60689)
[पुनश्च भीमसेनस्य जघानाश्वांस्तथाऽऽहवे।
सोऽवतीर्य रथात्तूर्णं हताश्वः पाण्डुनन्दनः॥ 9-10-44(60690)
कालो दण़्डमिवोद्यम्य गदां क्रुद्धो महाबलः।
पोथयामास तुरगान्रथं च कृतवर्मणः।
कृतवर्मा त्ववप्लुत्य रथात्तस्मादपाक्रमत्॥] 9-10-45(60691)
शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान्।
पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत्॥ 9-10-46(60692)
तस्य भीमो रणे क्रुद्धः सन्दश्य दशनच्छदम्।
विनाशायाभिसन्धाय गदामादाय वीर्यवान्॥ 9-10-47(60693)
यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम्।
गजवाजिमनुष्याणां देहान्तकरणीमति॥ 9-10-48(60694)
हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव।
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयोमयीम्॥ 9-10-49(60695)
चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव।
वसामेदोपदिग्धाङ्गीं जिह्वां वैवस्वतीमिव॥ 9-10-50(60696)
पटुघण्टाशतरवां वासवीमशनीमिव।
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि॥ 9-10-51(60697)
त्रासनीं सर्वभूतानां स्वसैन्यपरिहर्षिणीम्।
मनुष्यलोके विख्यातां गिरिशृङ्गविदारणीम्॥ 9-10-52(60698)
यया कैलासभवने महेश्वरसखं बली।
आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम्॥ 9-10-53(60699)
यया मायामयान्दृप्तान्सुबहून्धनदालये।
जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः।
निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः॥ 9-10-54(60700)
तां वज्रमणिरत्नौघकल्माषां वज्रगौरवाम्।
समुद्यम्य महाबाहुः शल्यमभ्यपतद्रणे॥ 9-10-55(60701)
गदया युद्धकुशलस्तया दारुणनादया।
पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान्॥ 9-10-56(60702)
ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम्।
निचखान नदन्वीरोवर्म भित्त्वा च सोभ्ययात्॥ 9-10-57(60703)
वृकोदरस्त्वसम्भ्रान्तस्तमेवोद्धृत्य तोमरम्।
यन्तारं मद्रराजस्य निर्बिभेद तदा हृदि॥ 9-10-58(60704)
स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः।
पपाताभिमुखो भीमं मद्रराजस्त्वपाक्रमत्॥ 9-10-59(60705)
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः।
गदामाश्रित्य धर्मात्मा प्रत्यमित्रमवैक्षत॥ 9-10-60(60706)
ततः सुमनसः पार्था भीमसेनमपूजयन्।
ते दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः॥ ॥ 9-10-61(60707)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे दशमोऽध्यायः॥ 10 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-10-17 भृग्विति। सर्वभूभुजां कृत्स्नपृथ्वीपतीनां पाण्डुपुत्राणां पाण्डवानां चरमं विलोमगणनया प्रथमं युधिष्ठिरमभिलक्ष्य शक्रभौमबुधाः सप्तमस्थाने बलावहाः आसन्। एतच्च सर्वभूभुजामिति फलस्य जनकमित्यर्थः॥ 9-10-18 आहत्य स्पृष्ट्वा। वर्षती भुवि पतन्ती॥ 9-10-49 परिक्षिप्तां परिच्छन्नाम्॥ 9-10-51 वासवीमैन्द्रीम्। रासनीमिति पाठे शब्दवतीम्॥ 9-10-53 महेश्वरसखं कुबेरम्॥ 9-10-10 दशमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|