|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.8. अध्यायः 008
Mahabharata - Shalya Parva - Chapter Topics
अष्टादशदिवसयुद्धारभ्यः॥ 1 ॥ सङ्कुलयुद्धम्॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-8-0x(5101)(60528)
ततः प्रववृते युद्धं कुरूणां भयवर्धनम्।
सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम्॥ 9-8-1(60529)
नरा रथा गजौघाश्च वाजिनश्च सहस्रशः।
वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम्॥ 9-8-2(60530)
गजानां भीमरूपाणां द्रवतां निःस्वनो महान्।
अश्रूयत यथा काले जलदानां नभस्तले॥ 9-8-3(60531)
नागैरभ्याहताः केचित्सरथा रथिनोऽपतन्।
व्यद्रवन्त रणे भीता द्राव्यमाणा मदोत्कटैः॥ 9-8-4(60532)
हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः।
शरैः सम्प्रेषयामासुः परलोकाय भारत॥ 9-8-5(60533)
सादिनः शिक्षिता राजन्परिवार्य महारथान्।
विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा॥ 9-8-6(60534)
धन्विनः पुरुषाः केचित्परिवार्य महारथान्।
एकं बहव आसाद्य प्रैषयन्यमसादनम्॥ 9-8-7(60535)
नागान्रथवरांश्चान्ये परिवार्य महारथाः।
सोत्तरा युधि निर्जघ्नुर्द्रवमाणं महारथम्॥ 9-8-8(60536)
तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून्।
नागा जघ्नुर्महाराज परिवार्य समन्ततः॥ 9-8-9(60537)
नागा नागमभिद्रुत्य रथी च रथिनं रणे।
शक्तितोमरनाराचैर्निजघ्नुस्तत्र भारत॥ 9-8-10(60538)
पादातानवमृद्गन्तो रथवारणवाजिनः।
रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम्॥ 9-8-11(60539)
हयाश्च पर्यधावन्त चामरैरुपशोभिताः।
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम्॥ 9-8-12(60540)
तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशाम्पते।
अशोभत यथा नारी करजैः क्षतविक्षता॥ 9-8-13(60541)
वाजिनां खुरशब्देन रथनेमिस्वनेन च।
पत्तीनां चापि शब्देन नागानां बृंहितेन च॥ 9-8-14(60542)
वादित्राणां च घोषेण शङ्खानां निनदेन च।
अभवन्नादिता भूमिर्निर्घातैरिव भारत॥ 9-8-15(60543)
धनुषां कूजमानानां शस्त्रौघानां च पात्यताम्।
कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन॥ 9-8-16(60544)
बहवो बाहवश्छिन्ना नागराजकरोपमाः।
उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम्॥ 9-8-17(60545)
शिरसां च महाराज पततां धरणीतले।
च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः॥ 9-8-18(60546)
शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा।
तपनीयनिभैः काले नलिनैरिव भारत॥ 9-8-19(60547)
उद्वृत्तनयनैस्तैस्तु गतसत्वैः सुविक्षतैः।
व्यभ्राजत मही राजन्पुण्डरीकैरिवावृता॥ 9-8-20(60548)
बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महारधनैः।
पतितैर्भाति राजेन्द्र महाशक्रध्वजैरिव॥ 9-8-21(60549)
ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे।
हस्तिहस्तोपमैर्जज्ञे संवृतं तद्रणाङ्कणम्॥ 9-8-22(60550)
कबन्धंशतसङ्कीर्णं छत्रचामरसङ्कुलम्।
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा॥ 9-8-23(60551)
तत्र योधा महाराज विचरन्तो ह्यभीतवत्।
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः॥ 9-8-24(60552)
मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः।
पतन्तस्तत्र तवैव छिन्नाभ्रासदृशा रणे॥ 9-8-25(60553)
गजानीकं महाराज वध्यमानं महात्मभिः।
व्यदीर्यत दिशः सर्वा वातनुन्ना धना इव॥ 9-8-26(60554)
ते गजा धनसङ्काशाः पेतुरुर्व्यां समन्ततः।
वज्रनुन्ना इव बभुः पर्वता युगसङ्क्षये॥ 9-8-27(60555)
हयानां सादिभिः सार्धं पतितानां महीतले।
राशयः स्म प्रदृश्यन्ते गिरिमात्रांस्ततस्ततः॥ 9-8-28(60556)
सञ्जज्ञे रणभूमौ तु परलोकवहा नदी।
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा॥ 9-8-29(60557)
भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला।
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा॥ 9-8-30(60558)
कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा।
चक्रचक्रावलीजुष्टा त्रिवेणूरगसंवृता॥ 9-8-31(60559)
शूराणां हर्षजननी भीरूणां भयवर्धनी।
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्गमे॥ 9-8-32(60560)
तां नदीं परलोकाय वहन्तीमतिभैरवाम्।
तेरुर्वाहननौभिस्ते शूराः परिघबाहवः॥ 9-8-33(60561)
वर्तमाने तदा युद्धे निर्मर्यादे विशाम्पते।
चतुरङ्गक्षये घोरे युद्धे देवासुरोपमे॥ 9-8-34(60562)
व्याक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप।
क्रोशद्भिर्दयितैरन्ये भयार्ता न निवर्तिरे॥ 9-8-35(60563)
निर्मर्यादे तथा युद्धे वर्तमाने भयानके।
अर्जुनो भीमसेनश्च मोहयाञ्चक्रतुः परान्॥ 9-8-36(60564)
सा वध्यमाना महती सेना तव नराधिप।
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव॥ 9-8-37(60565)
मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ।
दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः॥ 9-8-38(60566)
श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ।
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ॥ 9-8-39(60567)
तत्राश्चर्यमपश्याम घोररूपं महद्भयम्।
शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः॥ 9-8-40(60568)
माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ।
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव॥ 9-8-41(60569)
ततोऽभ्यावर्तत बलं तावकं भरतर्षभ।
शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः॥ 9-8-42(60570)
वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव।
भेजे दश दिशो राजन्प्रणुन्ना शरवृष्टिभिः॥ 9-8-43(60571)
हाहाकारो महाञ्जज्ञे योधानां तत्र भारत।
तिष्ठतिष्ठेति चाप्यासीद्द्रावितानां महात्मनाम्॥ 9-8-44(60572)
क्षत्रियाणां तथाऽन्योन्यं संयुगे जयमिच्छताम्।
प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः॥ 9-8-45(60573)
त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान्।
मातुलान्भागिनेयांश्च वयस्यानपि भारत॥ 9-8-46(60574)
हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः।
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ॥ ॥ 9-8-47(60575)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे अष्टमोऽध्यायः॥ 8 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-8-35 न निवर्तिरे न निवर्तिताः॥ 9-8-8 अष्टमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|