|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.5. अध्यायः 005
Mahabharata - Shalya Parva - Chapter Topics
दुर्योधनेन कृपम्प्रति कारणकथनपूर्वकं सन्ध्यनङ्गीकरणम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-16-0x(5091)(60407)
एवमुक्तस्ततो राजा गौतमेन तपस्विना।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते॥ 9-16-1(60408)
ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः॥ 9-16-2(60409)
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम्।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता॥ 9-16-3(60410)
गाहमानमनीकानि युध्यमानं महारथैः।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान्॥ 9-16-4(60411)
सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम्।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम्॥ 9-16-5(60412)
हेतुकारणसंयुक्तं हितं वचनमुत्तमम्।
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने॥ 9-16-6(60413)
राज्याद्विनिकृतोऽस्माभिः कथं सोस्मासु विश्वसेत्॥ 9-16-7(60414)
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः।
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु॥ 9-16-8(60415)
तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः।
प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम्।
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते॥ 9-16-9(60416)
विललाप च यत्कृष्णा सभामध्ये समेयुषी।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा॥ 9-16-10(60417)
एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो॥ 9-16-11(60418)
स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः।
कृतागसो वयं तस्य हितं मे स कथं चरेत्॥ 9-16-12(60419)
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः॥ 9-16-13(60420)
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः।
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत्॥ 9-16-14(60421)
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ॥ 9-16-15(60422)
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह।
तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम॥ 9-16-16(60423)
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः॥ 9-16-17(60424)
कथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः।
न निवारयितुं शक्याः सङ्ग्रामत्ते परन्तपाः॥ 9-16-18(60425)
यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता।
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये।
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम्॥ 9-16-19(60426)
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा।
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा॥ 9-16-20(60427)
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन।
अभिमन्योर्विनाशेन स सन्धेयः कथं मया॥ 9-16-21(60428)
कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम्।
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम्॥ 9-16-22(60429)
उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा।
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत्॥ 9-16-23(60430)
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान्।
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम्॥ 9-16-24(60431)
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया॥ 9-16-25(60432)
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन।
सुनीतमनुपश्यामि सुयुद्धेन परन्तप॥ 9-16-26(60433)
नायं क्लीबायितुं कालः संयोद्धुं काल एव नः॥ 9-16-27(60434)
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः।
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्निं च स्थितम्॥ 9-16-28(60435)
भृत्या मे सुभृतास्तात दीनश्चाभ्यृद्भृतो जनः।
नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम्॥ 9-16-29(60436)
जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम्।
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया॥ == ॥ 9-16-30(60437)
इति श्रीमन्महाभारते
Mahabharata - Shalya Parva - Chapter Footnotes
9-16-1 9-16- 9-16- 9-16- 9-16- 9-16- 9-16- 9-16- 9-16- 9-16- 9-16-


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|