(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.3. अध्यायः 003
Mahabharata - Shalya Parva - Chapter Topics
कृपेण कर्णवधदुःखितं दुर्योधनं प्रति स्वपरक्षयोर्दौर्बल्यप्राबल्याभिधानपूर्वकमुपायं प्रदर्श्य सन्धिविधानम्॥ 1 ॥
Mahabharata - Shalya Parva - Chapter Text



सञ्जय उवाच। 9-16-0x(5088)(60302)
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः।
कुरूणां पाण्डवानां च समासाद्य परस्परम्॥ 9-16-1(60303)
निहते सूतपुत्रे च फल्गुनेन महात्मना।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्॥ 9-16-2(60304)
विमुखे तव पुत्रे च शोकोपहतचेतसि।
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम्॥ 9-16-3(60305)
ध्यायमानेषु योधेषु दुऋखं प्राप्तेषु भारत।
बलानां मत्यमानानां श्रुत्वा निनदमुत्तमम्॥ 9-16-4(60306)
अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे।
पतितानवनीपालान्धवजांश्चैव महात्मनाम्।
रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च भारत॥ 9-16-5(60307)
आयोधनं महाघोरं रुद्रस्याक्रीडसन्निभम्।
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः॥ 9-16-6(60308)
कृपाविष्टः कृपो दृष्ट्वा वयः शीलसमन्वितः।
अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम्।
दुर्योधनमनुक्रोशाद्वाक्यं वाक्यविशारदः॥ 9-16-7(60309)
दुर्योधन निबोधेयं यत्त्वां वक्ष्यामि कौरव।
श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ॥ 9-16-8(60310)
न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते।
यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ॥ 9-16-9(60311)
पुत्रो भ्राता पिता चैव स्वस्रीयो मातुलस्तथा।
सम्बन्धिबान्धवाश्चैव योद्वव्याः क्षत्रजीविन॥ 9-16-10(60312)
वधे चैव परो धर्मस्तथाऽधर्मः पलायने।
ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः।
तदत्र प्रतिवक्ष्यामि किञ्चिदेव हितं वचः॥ 9-16-11(60313)
हते भीष्मे च द्रोणे च कर्णे चैव महारथे।
जयद्रथे च निहते तव भ्रातृषु चानघ।
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे॥ 9-16-12(60314)
येषु भारं समासज्य राज्ये मतिमकुर्महि।
ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम्॥ 9-16-13(60315)
वयं त्विह विनाभूता गुणवद्भिर्महारथैः।
कृपणं वर्तयिष्यामः पातयित्वा नृपान्बहून्॥ 9-16-14(60316)
सर्वैरथ च जीवद्भिर्बीभत्सुरपराजितः।
कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः॥ 9-16-15(60317)
इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम्।
वानरं केतुमासाद्य सञ्चचाल महाचमूः॥ 9-16-16(60318)
सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च।
गाण्डीवस्य च निर्घोषात्सम्मुह्यन्ते मनांसि नः॥ 9-16-17(60319)
स्फुरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम्।
अलातमिव चाविद्वं गाण्डवीं समदृश्यत॥ 9-16-18(60320)
जाम्बूनदविचित्रं च धूयमानं महद्धनुः।
दृश्यते दिक्षु स्रवासु विद्युदभ्रघनेष्विव॥ 9-16-19(60321)
उह्यमानश्च कृष्णेन वायुनेव बलाहकः।
तावकं तद्बलं राजन्नर्जुनोऽस्त्रविशारदः।
गहनं शिशिरापाये ददाहाग्निरिवोल्बणः॥ 9-16-20(60322)
गाहमानमनीकानि महेन्द्रसदृशप्रभम्।
विक्षोभयन्तं सेनां वै त्रासयन्तं च पार्थिवान्।
धनञ्जयमपश्याम नलिनीमिव कुञ्जरम्॥ 9-16-21(60323)
त्रासयन्तं तथा योधान्धनुर्घोषेण पांण्डवम्।
भूय एनमपश्याम सिंहं मृगगणानिव॥ 9-16-22(60324)
सर्वलोकमहेष्वासो वृषभौ सर्वधन्विनाम्।
आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः॥ 9-16-23(60325)
अद्य सप्तदशाहानि वर्तमानस्य भारत।
सङ्ग्रामस्यातिघोरस्य युध्यतां चाभितो युधि॥ 9-16-24(60326)
वायुनेव विधूतानि एव सैन्यानि गच्छता।
शरदम्भोदजालानि विशीर्यन्ते समन्ततः॥ 9-16-25(60327)
तां नावमिव पर्यस्तां मज्जमानां महार्णवे।
तव सेनां महाराज सव्यसाची व्यकम्पयत्॥ 9-16-26(60328)
क्वनु ते सूतपुत्रोऽभूत्क्वनु द्रोणः सहात्मजः।
अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्वनु॥ 9-16-27(60329)
दुःशासनश्च ते भ्राता भ्रातृभिः सहितः क्वनु॥ 9-16-28(60330)
वाणगोचरसम्प्राप्तं युध्यमानं जयद्रथम्।
सम्बन्धिनस्ते भ्रातॄंश्च साहयान्मातुलांस्तथा।
सर्वान्विक्रम्य मिपतो लोकमाक्रम्य मूर्धनि॥ 9-16-29(60331)
जयद्रथो हतो राजन्किन्नु शेषमुपास्महे।
को वेह स पुमानास्ते यो विजेष्यति पाण्डवम्॥ 9-16-30(60332)
तस्य चास्त्राणि दिव्यानि विदितानि महात्मनः।
गाण्डीवस्य च निर्घोषो धैर्याणि हरते हि नः॥ 9-16-31(60333)
नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका।
नागभग्नद्रुमा शुष्का नदीव प्रतिभाति मे॥ 9-16-32(60334)
ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः।
चरिष्यति महाराजः कक्षेष्वग्निरिव ज्वलन्॥ 9-16-33(60335)
सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः।
दारयेत गिरीन्सर्वाञ्शोषयेच्चैव सागरान्॥ 9-16-34(60336)
उवाच वाक्यं यद्भीमः सभामध्ये विशाम्पते।
कृतं तत्सफलं सर्वं भूयश्चैव करिष्यति॥ 9-16-35(60337)
प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम्।
दुरासदं तदा गुप्तं व्यूढं गाण्डीवधन्वना॥ 9-16-36(60338)
युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु।
अकारणकृतान्येव तेषां वः फलमागतम्॥ 9-16-37(60339)
आत्मनोऽर्थे त्वया लोके यत्नतः सर्व आहृतः।
स ते संशयितस्तात आत्मा च भरतर्षभ॥ 9-16-38(60340)
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम्।
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम्॥ 9-16-39(60341)
हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा।
विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः॥ 9-16-40(60342)
ते वयं पाण्डुपुत्रेभ्यो हीनाः स्म बलशक्तितः।
अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो॥ 9-16-41(60343)
न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते।
स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति॥ 9-16-42(60344)
अणिपत्य हि राजानं राज्यं यदि लभेमहि।
श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम्॥ 9-16-43(60345)
वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः।
विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च॥ 9-16-44(60346)
`अजातशत्रुः कौरव्यो गुरुशुश्रूषणे रतः।
धृतराष्ट्रस्य वचनं नावमंस्यति धार्मिकः॥ 9-16-45(60347)
कुर्वन्ति भ्रातरश्चास्य वचनं नात्र संशयः॥ 9-16-46(60348)
यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम्।
अर्जुनो भीमसेनश्च सर्वे कुर्युरसंशयम्॥ 9-16-47(60349)
नातिक्रमिष्यते कृष्णो वचनं पाण्डवस्य तु।
धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः॥ 9-16-48(60350)
एतत्क्षममहं मन्ये तव पार्थैरविग्रहम्।
न त्वां ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात्॥ 9-16-49(60351)
पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि॥ 9-16-50(60352)
इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः।
दीर्घमुष्णं च निःश्वस्यशुशोच च मुमोह च॥ ॥ 9-16-51(60353)

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि तृतीयोऽध्यायः॥ 3 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-16-12 शेषास्त्वां पर्युपास्महे इति ङ.पाठः॥ 9-16-15 कृष्णो नेत्रं नेता यस्य स तथा॥ 9-16-24 वर्तमानस्य सङ्ग्रामस्य अभितो वध्यतां वध्यमानानां च अद्य सप्तदशाहानि जातानीत्यन्वयः। जातानीति शेषः॥ 9-16-47 अर्जुनं भीमसेनं च इति झ. पाठः। असंशयं गतवैरमित्यर्थः॥ 9-16-48 वचनं कौरवस्य तु इति झ. पाठः॥ 9-16-3 तृतीयोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.