|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
Mahabharata - Shalya Parva - Chapter Topics
पार्थेन निहते कर्णे पाण्डवभयात्पलायमानां सेनां निवर्त्य दुर्योधनस्य पुनर्युद्धोद्यमः॥ 1 ॥
Mahabharata - Shalya Parva - Chapter Text

[सञ्जय उवाच। 9-2-0x(5087)(60239)
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः।
कुरूणां पाण्डवानां च समासाद्य परस्परम्॥ 9-2-1(60240)
निहते सूतपुत्रे तु पाण्डवेन महात्मना।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्॥ 9-2-2(60241)
घोरे मनुष्यदेहानामाजौ नरवरक्षये।
यत्तत्कर्णे हते पार्थः कसिंहनादमथाकरोत्॥ 9-2-3(60242)
तदा तव सुतान्राजन्प्राविशत्सुमहद्भयम्॥ 9-2-4(60243)
न सन्धातुमनीकानि न चैवाथ पराक्रमे।
आसीद्बुद्धिर्हते कर्णे तव योधस्य कस्यचित्॥ 9-2-5(60244)
वणिजो नावि भिन्नायामगाधे विप्लुवा इव।
अपारे पारमिच्छन्तो हते द्वीपे किरीटिना॥ 9-2-6(60245)
सूतपुत्रो हते राजन्वित्रस्ताः शरविक्षताः।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव॥ 9-2-7(60246)
भग्नशृङ्गा इव वृषा शीर्णदंष्ट्रा इवोरगाः।
प्रत्युपायाम सायाह्ने निर्जिताः सव्यसाचिना॥ 9-2-8(60247)
हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः।
सूतपुत्रे हते राजन्पुत्रास्ते प्राद्रवंस्ततः॥ 9-2-9(60248)
विध्वस्तकवचनाः सर्वे कान्दिशीका विचेतसः।
अन्योन्यमभिनिघ्नन्तो वीक्षमाणा भयाद्दिशः॥ 9-2-10(60249)
मामेव नूनं बीभत्सुर्मामेव च वृकोदरः।
अभियातीति मन्वानाः पेतुर्मम्लुश्च भारत॥ 9-2-11(60250)
अश्वानन्ये गजानन्ये रथानन्ये महारथाः।
आरुह्य जवसम्पन्नाः पादातान्प्रजहुर्भयात्॥ 9-2-12(60251)
कुञ्जरैः स्यन्दना भग्नाः सादिनश्च महारथैः।
पदातिसङ्घाश्चाश्वौघैः पलायद्भिर्भृशं हताः॥ 9-2-13(60252)
व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने।
तथा त्वदीया निहते सूतपुत्रे पदाऽभवन्॥ 9-2-14(60253)
हतारोहास्तथा नागाश्छिन्नहस्तास्तथाऽपरे।
सर्वं पार्थमयं लोकमपश्यन्वै भयार्दिताः॥ 9-2-15(60254)
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान्।
दुर्योधनोऽथ स्वं सूतं हाहाकृत्वैवमब्रवीत्॥ 9-2-16(60255)
नातिक्रमिष्यते पार्थो धनुष्पाणिमवस्थितम्।
जघने युध्यमानं मां तूर्णमश्वान्प्रचोदय॥ 9-2-17(60256)
समरे युध्यमानं हि कौन्तेयो मां धनञ्जयः।
नोत्सहेताप्यतिक्रान्तुं वेलामिव महार्णवः॥ 9-2-18(60257)
अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम्।
निहत्य शिष्टाञ्शत्रूंश्च कर्णस्यानृण्यमाप्नुयाम्॥ 9-2-19(60258)
तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः।
सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत्॥ 9-2-20(60259)
गजाश्वरथहीनास्तु पादाताश्चैव मारिष।
पञ्चविंशतिसाहस्राः प्राद्रवञ्शनकैरिव॥ 9-2-21(60260)
तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः।
बलेन चतुरङ्गेण परिक्षिप्याहनच्छरैः॥ 9-2-22(60261)
प्रत्ययुध्यंस्तु ते सर्वे भीमसेनं सपार्षतम्।
पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी॥ 9-2-23(60262)
अक्रुध्यत रणे भीमस्तैर्मृधे प्रत्यवस्थितैः।
सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत॥ 9-2-24(60263)
न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः।
योधयामास कौन्तेयो भुजवीर्यमुपाश्रितः॥ 9-2-25(60264)
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम्।
न्यवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः॥ 9-2-26(60265)
पदातयो हि संरब्धास्त्यक्तजीवितबान्धवाः।
भीममभ्यद्रवन्सङ्ख्ये पतङ्गा इव पावकम्॥ 9-2-27(60266)
आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः।
विनेदुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम्॥ 9-2-28(60267)
श्येनवद्व्यचरद्भीमः खङ्गेन गदया तथा।
पञ्चविंशतिसाहस्रांस्तावकानां व्यपोथयत्॥ 9-2-29(60268)
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः।
धृष्टद्युम्नं पुरस्कृत्य पुनस्तस्थौ महाबलः॥ 9-2-30(60269)
धनञ्जयो रथानीकमन्वपद्यत वीर्यवान्॥ 9-2-31(60270)
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः।
जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम्॥ 9-2-32(60271)
तस्याश्ववाहान्सुबहूंस्ते निहत्य शितैः शरैः।
तमन्वधावंस्त्वरितास्तत्र युद्धमवर्तत॥ 9-2-33(60272)
ततो धनञ्जयो राजन्रथानीकमगाहत।
विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन्धनुः॥ 9-2-34(60273)
कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम्।
अर्जुनं चापि योद्वारं त्वदीयाः प्राद्रावन्भयात्॥ 9-2-35(60274)
विप्रहीनरथाश्वाश्च शरैश्च परिवारिताः।
पञ्चविंशतिसाहस्राः पार्थमार्च्छन्पदातयः॥ 9-2-36(60275)
हत्वा तत्पुरुषानीकं पाञ्चालानां महारथः।
भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत॥ 9-2-37(60276)
महाधनुर्धरः श्रीमानमित्रगणमर्दनः।
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः॥ 9-2-38(60277)
पारावतसवर्णाश्वं कोविदारवरध्वजम्।
धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात्॥ 9-2-39(60278)
गान्धारराजं श्रीघ्रास्त्रमनुसृत्य यशस्विनौ।
अचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी॥ 9-2-40(60279)
चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष।
हत्वा त्वदीयं सुमहत्सैन्यं शङ्खानथाधमन्॥ 9-2-41(60280)
ते सर्वे तावकान्प्रेक्ष्य द्रवतो वै पराङ्मुखान्।
अभ्यधावन्त निघ्नन्तो वृषाञ्चित्वा वृषा इव॥ 9-2-42(60281)
सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः।
अवस्थितं सव्यसाची चुक्रोध बलवन्नृप॥ 9-2-43(60282)
तत एनं शरै राजन्सहसा समवाकिरत्।
रजसा चोद्गतेनाथ न स्म किञ्चन दृश्यते॥ 9-2-44(60283)
अन्धकारीकृते लोके शरीभूते महीतले।
दिशः सर्वा महाराज तावकाः प्राद्रवन्भयात्॥ 9-2-45(60284)
भज्यमानेषु सर्वेषु कुरुराजो विशाम्पते।
परेषामात्मनश्चैव सैन्ये ते समुपाद्रवत्॥ 9-2-46(60285)
ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान्।
युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः॥ 9-2-47(60286)
त एनमभिगर्जन्तं सहिताः समुपाद्रवन्।
नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः॥ 9-2-48(60287)
दुर्योधनोऽप्यसम्भ्रान्तस्तानरीन्व्यधमच्छरैः॥ 9-2-49(60288)
तत्राद्भुतमपरश्याम तव पुत्रस्य पौरुषम्।
यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम्॥ 9-2-50(60289)
नातिदूरापयातं च कृतबुद्धि पलायने।
दुर्योधनः स्वकं सैन्यमपश्यकद्भृशविक्षतम्॥ 9-2-51(60290)
ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः।
हर्षयन्निव तान्योधांस्ततो वचनमब्रवीत्॥ 9-2-52(60291)
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च।
यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः॥ 9-2-53(60292)
स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ।
यदि सर्वेऽपि तिष्ठामो ध्रुवं नो विजयो भवेत्॥ 9-2-54(60293)
विप्लयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्पिषान्।
अनुसृत्य हनिष्यन्ति श्रेयोः न समरे वधः॥ 9-2-55(60294)
सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम्।
मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते॥ 9-2-56(60295)
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः।
द्विषतो भीमसेनस्य वशमेष्यथ विद्रुताः॥ 9-2-57(60296)
पितामहैराचरितं न धर्मं हातुमर्हथ।
नान्यत्कर्मास्ति पापीयः क्षत्रियस्य पलायनात्॥ 9-2-58(60297)
न युद्वधर्माच्छ्रेयान्हि पन्थाः स्वर्गस्य कौरवाः।
सुचिरेणार्जिताँलोकान्सद्यो युद्धात्समश्नुते॥ 9-2-59(60298)
तस्य तद्वचनं राज्ञः पूजयित्वा महारथाः।
पुनरेवाभ्यवर्तन्त क्षत्रियाः पाण्डवान्प्रति।
पराजयममृष्यन्त कृतचित्ताश्च विक्रमे॥ 9-2-60(60299)
ततः प्रववृते युद्धं पुनरेव सुदारुणम्।
तावकानां परेषां च देवासुररणोपमम्॥ 9-2-61(60300)
युधिष्ठिरपुरोगांश्च सर्वसैन्येन पाण्डवान्।
अन्वधावन्महाराज पुत्रो दुर्योधनस्तव॥] ॥ 9-2-62(60301)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अध्यायः॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-2-2 सधूममिव अत्युष्णित्यर्थः॥ 9-2-14 परिष्वज्य च मां कण्ठे स्नेहेन क्लिन्नलोचनः। अनुशाधीति कौरव्य तत्साधु वद मे वचः इति झ.पाठः॥ 9-2-37 प्रतिमानं केतुभूतः॥ 9-2-61 केचित्सम्यक्प्रपश्यन्ति मूढास्तु न तथा परे इति ख.पाठः। सम्यगवेक्ष्य निपुणं विभाव्यापि मूढास्तथाभूतं तद्वचः केचिन्न पश्यन्तीति सम्बन्धः। तथाभूतं यथार्थम्॥ 9-2-2 द्वितीयोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|