|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.1. अध्यायः 001
Mahabharata - Shalya Parva - Chapter Topics
दुर्योधनेन शल्यस्य सैनापत्येऽभिषेचनपूर्वकं पुनर्युद्धाय निर्याणम्॥ 1 ॥ सञ्जयाच्छल्यदुर्योधनादिवधश्रवणेन मूर्च्छितस्य धृतराष्ट्रस्य विदुरेण समाश्वासनम्॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Text
श्रीवेदव्यासाय नमः॥ 9-1-0x(5079)(60111)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं (व्यासं) चैव ततो जयमुदीरयेत्॥ 9-1-1(60112)
जनमेजय उवाच। 9-1-2x(5080)
एवं निपातिते कर्णे समरे सव्यसाचिना।
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज॥ 9-1-2(60113)
विदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः।
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः॥ 9-1-3(60114)
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥ 9-1-4(60115)
वैशम्पायन उवाच। 9-1-5x(5081)
ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः।
भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत्॥ 9-1-5(60116)
हाकर्ण हाकर्ण इति शोचमानो मुहुर्मुहुः।
कृच्छ्रात्स्वशिबिरं प्रायाद्वतशिष्टैर्नृपैः सह॥ 9-1-6(60117)
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः।
राजन्विभूतिमिच्छद्भिः सूतपुत्रमनुस्मरन्॥ 9-1-7(60118)
स दैवं बलवन्मत्वा प्रभाते विमले सति।
सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्वाय निर्ययौ॥ 9-1-8(60119)
शल्यं सेनापतिं कृत्वा विधिवद्राजसत्तमम्।
रणाय निर्ययौ राजा हतशिष्टैर्नृपैः सह॥ 9-1-9(60120)
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः।
बभूव भरतश्रेष्ठ देवासुररणोपमम्॥ 9-1-10(60121)
ततः शल्यो महाराज कृत्वा कदनमाहवे।
पाण्डुसैन्येऽथ मध्याह्ने धर्मराजेन पातितः॥ 9-1-11(60122)
ततो दुर्योधनो राजा हतबन्धू रणाजिरात्।
अपसृत्य हदं घोरं विवेश रिपुजाद्भुयात्॥ 9-1-12(60123)
अथापराह्णे तस्याह्नः परिवार्य महारथैः।
हदादाहूय युद्वाय भीमसेनेन पातितः॥ 9-1-13(60124)
तस्मिंस्तु निहते वीरे महेष्वासास्त्रयो रणे।
कृतवर्मा कृपो द्रौणिर्जघ्नुः पाण्डवसैनिकान्॥ 9-1-14(60125)
ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः।
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः॥ 9-1-15(60126)
स प्रविश्य पुरीं सूतो भूजावुच्छ्रित्य दुःखितः।
वेपमानस्ततो राज्ञः प्रविप्रेश निवेशनम्॥ 9-1-16(60127)
धावतश्चाप्यपश्यxxx तत्रत्यान्पुरुषर्षभान्।
नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशदुःखितान्॥ 9-1-17(60128)
दृष्ट्वैव च नराञ्शीघ्रं व्याजहारातिदुःखितः।
अहो बत विपन्नोऽस्मि निधनेन महात्मनः॥ 9-1-18(60129)
अहो सुबलवान्कालो गतिश्च परमा तथा।
शुक्रतुल्यबलाः सर्वे यत्राहन्यन्त पार्थिवाः॥ 9-1-19(60130)
तं दृष्ट्वैव पुरे राजञ्जनः सर्वः स्म सञ्जयम्।
प्ररुरोद भयोद्विग्नो हा राजन्निति सुस्वरम्॥ 9-1-20(60131)
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः।
आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम्॥ 9-1-21(60132)
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम्।
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम्॥ 9-1-22(60133)
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम्।
स्नुषामिर्भरतश्रेष्ठ गान्धार्या विदुरेण च।
तथाऽन्यैश्च सुहृद्भिश्च ज्ञातिमिश्च हितैषिभिः॥ 9-1-23(60134)
तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति।
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय॥ 9-1-24(60135)
नातिहृष्टमनाः सूतो बाष्पसन्दिग्धया गिरा।
सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ॥ 9-1-25(60136)
मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा।
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः॥ 9-1-26(60137)
संशप्तका हताः सर्वे काम्भोजाश्च शकैः सह।
म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः॥ 9-1-27(60138)
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः।
उदीच्याश्च हताः सर्वे प्रतीच्याश्च नरोत्तमाः।
राजानो राजपुत्राश्च सर्वे विनिहता नृप॥ 9-1-28(60139)
कर्णपुत्रो हतः शूरः सत्यसेनो महाबलः॥ 9-1-29(60140)
दुर्योधनो हतो राजा ययोक्तं पाण्डवेन ह।
xxxxxx महाराज शेते पांसुषु रूषितः॥ 9-1-30(60141)
xxxxxx हतो xxx जञ्शिखण्डी चापराजितः।
उत्तमौज युधामन्युस्तथा सर्वे प्रभद्रकाः॥ 9-1-31(60142)
पाञ्चालश्च नरव्याघ्र चेदयश्च निषूदिताः।
तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत॥ 9-1-32(60143)
नरा विनिहताः सर्वे गजाश्च विनिपातिताः।
रथिनत्र नरव्याघ्र हयाश्च निहता युधि॥ 9-1-33(60144)
निxxxx शिबिरं रावंजावकानां कृतं प्रभो।
पाण्डवानां च शूराणां समासाद्य परस्परम्॥ 9-1-34(60145)
xxxx स्रीशेषमभवज्जगत्कालेन मोहितम्।
सप्त पाण़्डवतः शिष्टा धार्तराष्ट्रास्त्रयोरथाः॥ 9-1-35(60146)
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः।
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः॥ 9-1-36(60147)
एते शेषा महाराज रथिनो नृपसत्तम।
अक्षौहिणीनामष्टानां दशानां च न संशयः॥ 9-1-37(60148)
एते शेषा महाराज सर्वेऽन्ये निधनं गताः।
कालेन निहतं सर्वं जगद्वै भरतर्षभ।
दुर्योधनं वै पुरतः कृत्वा सर्वे नरा हताः॥ 9-1-38(60149)
वैशम्पायन उवाच। 9-1-39x(5082)
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः।
निपपात स राजेन्द्रो गतसत्वो महीतले॥ 9-1-39(60150)
तस्मिन्निपतिते वीरे विदुरोऽपि महायशाः।
निपपात महाराज शोकव्यसनकर्शितः॥ 9-1-40(60151)
गान्धारी च महाभागा सर्वाश्च कुरुयोषितः।
पतिताः सहसा भूमौ श्रुत्वा घोरतरं वचः॥ 9-1-41(60152)
निःसंज्ञं पतितं भूमौ तदाऽऽसीद्राजमण्डलम्।
विलापमुक्तोपहतं चित्रं न्यस्तं पटे यथा॥ 9-1-42(60153)
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः।
शनैरलभत प्राणान्पुत्रव्यसनकर्शितः॥ 9-1-43(60154)
लब्ध्वा तु स नृपः प्राणान्वेपमानः सुदुःखितः।
निरीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत्॥ 9-1-44(60155)
विद्धि क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ।
ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः।
एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह॥ 9-1-45(60156)
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन।
शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि॥ 9-1-46(60157)
स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः।
तूष्णीमासीन्महीपालः पुत्रव्यसनकर्शितः॥ 9-1-47(60158)
निःश्वसञ्जिह्मग इव कुम्भक्षिप्तोऽभवन्नृपः॥ 9-1-48(60159)
सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम्।
तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी॥ 9-1-49(60160)
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत्।
धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः॥ 9-1-50(60161)
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी।
तथेमे सुहृदः सर्वे मुह्यते मे मनो भृशम्॥ 9-1-51(60162)
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ।
विसर्जयामास शनैर्मुह्यमानः पुनःपुनः॥ 9-1-52(60163)
निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम।
सुहृदश्च तथा सर्वे दृष्ट्वा राजानमातुरम्॥ 9-1-53(60164)
ततो नरपतिस्तत्र लब्ध्वा संज्ञां परन्तपः।
गतिर्मे को भवेदद्य इति चिन्तासमाकुलः।
अपृच्छत्सञ्जयं तत्र रोदमानं भृशातुरम्॥ 9-1-54(60165)
प्राञ्जलिं सञ्जयं दृष्ट्वा रोदमानं मुहुर्मुहुः।
ज्ञातीन्स्त्रियोऽथ निर्याप्य प्रविश्य विदुरःपुनः॥ 9-1-55(60166)
राजानं शोचमानस्तु तं शोचन्तं मुहुर्मुहुः।
समाश्वासयत क्षत्ता वचसा मधुरेण च॥ ॥ 9-1-56(60167)
इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि प्रथमोऽध्यायः॥ 1 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-1-12 अपराहे अपरार्धे॥ 9-1-41 विलापवुक्तोपहतं इति ङ.पाठः। विलापयुक्तं सुमहत् इति घ. पाठः॥ 9-1-1 प्रथमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|