|
|
 |
 |
|
|
१० सौप्तिकपर्व.jpg)
॥ श्रीः ॥
10.16. अध्यायः 016
Mahabharata - Sauptika Parva - Chapter Topics
कृष्णेन स्ववचनोल्लङ्घनेनास्त्रप्रयोक्तुरश्वत्थाम्नः शापदानां व्यासेन तदनुमोदनं च॥ 1 ॥ भीमेन द्रौणिमस्तकमणिदा नेन द्रौपदीसमाश्वासनम्॥ 2 ॥ युधिष्ठिरेण द्रौपदीवचनात्स्वमस्तके तन्मणिधारणम्॥ 3 ॥

Mahabharata - Sauptika Parva - Chapter Text
वैशम्पायन उवाच। 10-16-0x(5297)(64691)
तदाज्ञाय हृषीकेशो विकृष्टं पापकर्मणा।
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा॥ 10-16-1(64692)
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः।
उपप्लाव्यगतां दृष्ट्वा ऋतवाग्ब्रह्मणोऽब्रवीत्॥ 10-16-2(64693)
परिक्षीणेषु कुरुषु पुत्रस्तव भविष्यति।
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति॥ 10-16-3(64694)
तस्य तद्वचनं साधोः सत्यमेद्भविष्यति।
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः॥ 10-16-4(64695)
त्वां तु कापुरुषं पापं विंदुः सर्वे मनीषिणः।
असकृत्पापकर्माणं बालजीवितघातकम्॥ 10-16-5(64696)
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि।
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम्॥ 10-16-6(64697)
अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित्।
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि॥ 10-16-7(64698)
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः।
पूयशोणिगन्धी च दुर्गकान्तारसंश्रयः। 10-16-8(64699)
विचरिष्यसि पापात्मंश्चिरमेको वसुन्धराम्॥
वयः प्राप्य परिक्षित्तुं देवव्रतमवाप्य च। 10-16-9(64700)
कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते॥
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः। 10-16-10(64701)
षष्टिं वर्षामि धर्मात्मा वसुधां पालयिष्यति॥
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति। 10-16-11(64702)
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते॥
[अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा]। 10-16-12(64703)
पश्य मे तपसो वीर्यं सत्यस्य च नराधम॥ 10-16-13(64704)
व्यास उवाच।
यस्मादनादृत्य कृतं त्वयाऽस्मान्कर्म दारुणम्।
ब्राह्मणस्य सतश्चेदं वृत्तमन्यायवर्तिनः॥ 10-16-13x(5298)
तस्माद्यद्देवकीपुत्र उक्वानुत्तमं वचः।
आलोकात्तव तद्भावि क्षुद्रकर्मन्व्रजेति ह॥ 10-16-14(64705)
अश्वत्थामोवाच। 10-16-15x(5299)
सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्विह।
सत्यवागस्तु भगवानयं च पुरुषोत्तमः॥ 10-16-15(64706)
वैशम्पायन उवाच। 10-16-16x(5300)
प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम्।
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम्॥ 10-16-16(64707)
पाण्डवाश्च सदाशार्हास्तानृषीनभिवाद्य च।
कृष्णद्वैपायनं चैव नारदं चैव पर्वतम्॥ 10-16-17(64708)
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः।
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम्॥ 10-16-18(64709)
वैशम्पयन उवाच। 10-16-19x(5301)
ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः।
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव हि॥ 10-16-19(64710)
अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः।
ददृशुर्द्रौपदीं हृष्टामार्तामार्ततराः स्वयम्॥ 10-16-20(64711)
तामुपेत्य निरानन्दां दुःखशोकसमन्विताम्।
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः॥ 10-16-21(64712)
ततो राज्ञाऽभ्यनुज्ञातो भीमसेनो महाबलः।
प्रददौ तं मणिं दिव्यं वचनं चेदमब्रवीत्॥ 10-16-22(64713)
अयं भद्रे तव मणिः पुत्रहन्ता जितश्च ते।
उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर॥ 10-16-23(64714)
प्रयाणे वासुदेवस्य शमार्थवसितेक्षणे।
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनि॥ 10-16-24(64715)
नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च।
न वै त्वमिति गोविन्द शममिच्छति राजनि॥ 10-16-25(64716)
उक्तवत्यसि तीव्राणि वाक्यानि पुरुषोत्तमम्।
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि॥ 10-16-26(64717)
हतो दुर्योधनः पापो राज्यस्य परिपन्थिकः।
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया॥ 10-16-27(64718)
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम्।
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च॥ 10-16-28(64719)
यशोऽस्य पतितं देवि शरीरं त्ववशेषितम्।
वियोजितश्च मणिना भ्रंशितश्चायुधं भुवि॥ 10-16-29(64720)
द्रौपद्युवाच। 10-16-30x(5302)
केवलानृण्यमाप्ताऽस्मि गुरुपुत्रो गुरुर्मम।
शिरस्येतं मणिं राजा ग्रहीतुमनघोऽर्हति॥ 10-16-30(64721)
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा।
गुरोरुच्छेषमित्येव द्रौपद्या वचनादपि॥ 10-16-31(64722)
ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः।
शुशुभे स तदा राजा सचन्द्र इव पर्वतः॥ 10-16-32(64723)
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी।
कृष्णं चापि महाबाहुः परिपप्रच्छ धर्मराट्॥ ॥ 10-16-33(64724)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि षोडशोऽध्यायः॥ 16 ॥
Mahabharata - Sauptika Parva - Chapter Footnotes
10-16-7 संविदं संलापम्॥ 10-16-18 प्रायोपेतां मरणार्थं यो नियमस्तेनोपेताम्॥ 10-16-20 हृष्टामश्वत्थाम्नः पराभवेन। आर्तां पुत्रादेः शोकेन॥ 10-16-24 मधुघातिनि मधुदैत्यहन्तरी॥ 10-16-28 विवक्षतां वक्तुमिच्छतां वाच्याः निन्द्याः नैव स्म॥ 10-16-16 षोडशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|