(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
10.10. अध्यायः 010
Mahabharata - Sauptika Parva - Chapter Topics
दैवादुर्वरितेन दृष्टद्युम्नसारथिना युधिष्ठिराय रात्रौ वृत्तशिबिरवृत्तान्तविनेदनम्॥ 1 ॥ तच्छ्रवणेन द्रौपद्यानयनाय नकुलभादिश्य शिबिरभुवमुपागतवता युधिष्ठिरेण गृतनिजजनावलोकनेन परिदेवनम्॥ 2 ॥


Mahabharata - Sauptika Parva - Chapter Text

वैशम्पायन उवाच। 10-10-0x(5284)(64500)
तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः।
गत्वा शशंस पाण्डुभ्यः सौप्तिके कदनं कृतम्॥ 10-10-1(64501)
सूत उवाच। 10-10-2x(5285)
द्रौपदेया हता राजन्द्रुपदस्वात्मजैः सह।
प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके॥ 10-10-2(64502)
गौतमेन नृशंसेन भोजेन कृतवर्मणा।
अश्वत्थान्ना च पापेन हतं वः शिबिरं निशि॥ 10-10-3(64503)
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वयैः।
सहस्रामि विकृन्द्भिर्निः शेषं शिबिरं कृतम्॥ 10-10-4(64504)
`xxxxxxविहगफलभारनतस्य ह।'
xxxxxxxमहतो वनस्येव परश्वथैः।
xxxxxxxx सुमहाञ्शब्दो बलस्य तव भारत॥ 10-10-5(64505)
महमेकोऽबशिष्टस्तु तस्मात्सैन्यामहीपते।
मुक्तः कथञ्चिद्धर्मात्मन्व्यग्राच्च कृतवर्मणः॥ 10-10-6(64506)
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः।
पपात मह्यां धर्मात्मा पुत्रशोकसमन्वितः॥ 10-10-7(64507)
पतन्तं तमतिक्रम्य परिजग्राह सात्यकिः।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ॥ 10-10-8(64508)
लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा।
जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदार्तवत्॥ 10-10-9(64509)
`अगम्या गतिरर्थानां कर्मणामीश्वरस्य च'।
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः।
जीयमाना जयन्त्यन्ये जयमाना वयं जिताः॥ 10-10-10(64510)
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान्।
बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम्॥ 10-10-11(64511)
अनर्थो ह्यर्थसङ्काशस्तथाऽनर्थोऽर्थदर्शनः।
जयोऽयमजयाकारो जयस्तस्मात्पराजयः॥ 10-10-12(64512)
यज्जित्वा तप्यते पश्चादापन्न इव दुर्मतिः।
कथं मन्येत विजयं ततो जिततरः परैः॥ 10-10-13(64513)
येषामर्थाय पापं स्याद्विजयस्य सुहृद्वधैः।
निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः॥ 10-10-14(64514)
कर्णिनालीकदंष्ट्रस्य स्वङ्गजिह्वस्य संयुगे।
चापव्यात्तास्यरौद्रस्य ज्यातलस्वननादिनः॥ 10-10-15(64515)
क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः।
ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः॥ 10-10-16(64516)
रथहदं शरवर्षोर्मिमन्तं
रत्नाचितं वाहनयोधबृन्दम्।
शक्त्यृष्टिमीनध्वजनागनक्रं
शरासनावर्तमहेषुफेनम्॥ 10-10-17(64517)
सङ्ग्रामचन्द्रोदयवेगवेलं
द्रोणार्णवं ज्यातलनेमिघोषम्।
ये तेरुरुच्चावचशस्त्रनौभि--
स्ते राजपुत्रा निहताः प्रमादात्॥ 10-10-18(64518)
न हि प्रमादात्परमस्ति कश्च--
द्वधो नराणामिह जीवलोके।
प्रमत्तमर्था हि नरं समन्ता--
त्त्यजन्त्यनर्थाश्च समाविशन्ति॥ 10-10-19(64519)
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं
शरार्चिषं दीप्तमहापताकम्।
महाधनुर्ज्यातलनेमिघोषं
तनुत्रनानाविधशस्त्रहोमम्॥ 10-10-20(64520)
महाचमूकक्षदवाभिपन्नं
महाहवे भीष्ममहादवाग्निम्।
ये तेरुरुच्चावचशस्त्रवेगै--
स्ते राजपुत्रा निहताः प्रमादात्॥ 10-10-21(64521)
न हि प्रमत्तेन नरेण शक्य--
माप्तुं वसु श्रीर्विपुलं यशो वा।
पश्याप्रमादेन निहत्य शत्रू--
न्सर्वान्महेन्द्रं सुखमेधमानम्॥ 10-10-22(64522)
इन्द्रोपमान्पार्थिवपुत्रपौत्रा--
न्पश्याविशेषेण हतान्प्रमादात्।
तीर्त्वा समुद्रं जणिजः समृद्वा।
मग्नाः कुनद्यामिव सीदमानाः॥ 10-10-23(64523)
अमर्षितैर्ये निहता नरेन्द्रा
निःसंशयं ते त्रिदिवं प्रपन्नाः।
कृष्णां तु शोचामि कथं नु साध्वी
शोकार्णवं सा विषहिष्यतीति॥ 10-10-24(64524)
भातृंश्च पुत्रांश्च हतान्निशम्य
पाञ्चालसराजं पितरं च वृद्वम्।
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां
सा शोष्यते शोककृशाङ्गयष्टिः॥ 10-10-25(64525)
तच्छोकजं दुःखमपारयन्ती
कथं भविष्यत्युचिता सुखानाम्।
रोरूयते ज्ञातिवधाभितप्ता
प्रदह्वमानेव हुताशनेन॥ 10-10-26(64526)
इत्येवमार्तः परिदेवयन्स
राजाज कुरूणां नकुलं बभाषे।
गच्छान्यैनामिह मन्दभाग्यां
समातृपक्षामिति राजपुत्रीम्॥ 10-10-27(64527)
माद्रीसुतस्तत्परिगृह्य वाक्यं
धर्मेण धर्मप्रथमस्य राज्ञः।
ययौ रथेनालयमाशुदेव्याः
पाञ्चालराजस्य च यत्र दाराः॥ 10-10-28(64528)
प्रस्थाप्य माद्रीसुतमाजमीढः
शोकार्दितस्तैः सहितः सुहृद्भिः।
रोरूयमाणः प्रययौ सुताना--
मायोधनं भूतगणानुकीर्णम्॥ 10-10-29(64529)
स तत्प्रविश्याशिवमुग्ररूपं
ददर्श पुत्रान्सुहृदः सखींश्च।
भूमौ शयानान्रुधिरार्द्रगात्रा--
न्विभिन्नदेहान्प्रहृतोत्तमाङ्गान्॥ 10-10-30(64530)
स तांस्तु दृष्ट्वा भृशमार्तरूपो
युधिष्ठिरो धर्मभृतां वरिष्ठः।
उच्चैः प्रचुक्रोश च कौरवाग्र्यः
पपात चोर्व्यां सगणो विसंज्ञः॥ ॥ 10-10-31(64531)

इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि दशमोऽध्यायः॥ 10 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes
10-10-8 xxxxxxxxत्यक्त्वा पतन्तम्॥ 10-10-10 अन्ये शत्रवः। जयमानाः जयन्तः। जितानां जयो जयतां पराजयः फलतोऽभूदिति महदाश्चर्यमित्यर्थः॥ 10-10-13 पश्चात्स पाप इव दुर्मतिरिति क.पाठः॥ 10-10-16 व्यमुञ्चन्त मुक्ताः। कर्णस्य कर्णात्। प्रमादादस्मत्कृतादसान्निध्यात्॥ 10-10-17 वाहनवाजियुक्तमिति झ.पाठः॥ 10-10-20 तनुत्राणि नानाषिधानि शस्कराणि च तेषां होमः प्रक्षेपो यत्र तं तनुत्रनानाविधशस्त्रहोमम्॥ 10-10-21 भीष्ममयं भीष्मप्रधानं अग्निदाहम्। भीष्मरूपेण अग्निना दाहमित्यर्थः॥ 10-10-24 निहताः शयाना इति झ.पाठः॥ 10-10-10 दशमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.