|
|
 |
 |
|
|
१० सौप्तिकपर्व.jpg)
॥ श्रीः ॥
10.7. अध्यायः 007
Mahabharata - Sauptika Parva - Chapter Topics
द्रौणिना शिवस्तुतिः॥ 1 ॥ द्रौणेः पुरतः काञ्चनवेद्यामग्न्युद्भवः॥ 2 ॥ द्रौणेः समीपे नानाविधभीषणभूतगणानामागमनम्॥ 3 ॥ शिवेन आत्मनो हविष्ट्वकल्पनपूर्वकमग्नौ प्रविष्टाय द्रौणये खङ्गदानपूर्वकं तच्छरीरप्रवेशः॥ 4 ॥ पुनरश्वत्थाम्नः शिबिरगमनम्॥ 5 ॥

Mahabharata - Sauptika Parva - Chapter Text
सञ्जय उवाच। 10-7-0x(5272)(64203)
एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशाम्पते।
अवतीर्य रथोपस्थाद्दध्यौ स प्रयतः स्थितः॥ 10-7-1(64204)
द्रौणिरुवाच। 10-7-2x(5273)
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम्।
गिरिशं वरदं देवं भवभावनमव्ययम्॥ 10-7-2(64205)
शितिकण्ठमजं रुद्रं दक्षक्रतुहरं हरम्।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्॥ 10-7-3(64206)
श्मशानवासिनं दृप्तं महागणपतिं विभुम्।
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम्॥ 10-7-4(64207)
मनसा ह्यनुचिन्त्यैनं दुष्करेणाल्पचेतसा।
अद्य भूतोपहारेण यक्ष्ये त्रिपुराघातिनम्॥ 10-7-5(64208)
xxतुतं स्तुत्यं स्तूयमानममोघं कृत्तिवाससम्।
विलोहितं नीलकण्ठमसह्यं दुर्निवारणम्॥ 10-7-6(64209)
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च।
व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम्॥ 10-7-7(64210)
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम्।
धनाध्यक्षप्रियसखं गौरीहृदयवल्लभम्॥ 10-7-8(64211)
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम्।
कुत्तिवाससमत्युग्रमातोषणतत्परम्॥ 10-7-9(64212)
परं परेभ्यः परमं परं यस्मान्न विद्यते।
इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम्॥ 10-7-10(64213)
हिरण्यकवचं देवं चन्द्रमौलिविभूषणम्।
प्रपद्ये शरणं देवं परमेण समाधिना॥ 10-7-11(64214)
इमां चेदापदं घोरां तराम्यद्य सुदुस्तराम्।
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम्॥ 10-7-12(64215)
इति तस्य व्यवसितं ज्ञात्वा योगात्सुकर्मणः।
पुरस्तात्काञ्चनी वेदी प्रादुरासीन्महात्मनः॥ 10-7-13(64216)
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत।
स दिशो विदिशः खं च ज्वालाभिरिव पूरयन्॥ 10-7-14(64217)
दीप्तास्यनयनाश्चात्र नैकपादशिरोधराः।
[रत्नचित्राङ्गदधराः समुद्यतकरास्तथाः॥] 10-7-15(64218)
द्विपाः शैलप्रतीकाशाः प्रादुरासन्महागणाः।
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः॥ 10-7-16(64219)
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा।
काकवक्त्राः प्लुवमुखाः शुकवक्त्रास्तथैव च॥ 10-7-17(64220)
महाजगरवक्त्राश्च हंसवक्त्राः शितप्रभाः।
दार्वाघाटमुखाश्चापि चाषवक्त्राश्च भारत॥ 10-7-18(64221)
कूर्मनक्रमुखाश्चैव शिंशुमारमुखास्तथा।
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च॥ 10-7-19(64222)
हरिवक्त्राः क्रौञ्चमुखाः कपोताभमुखास्तथा।
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च॥ 10-7-20(64223)
पाणिकर्णाः सहस्राक्षास्तथैव च महोदराः।
निर्मांसाः काकवक्त्राश्च श्येनवक्त्राश्च भारत॥ 10-7-21(64224)
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः।
प्रदीप्तनेत्रजिह्वाश्च ज्वालावर्णास्तथैव च॥ 10-7-22(64225)
ज्वालाकेशाश्च राजेन्द्र ज्वलद्रोमचतुर्भुजाः।
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप॥ 10-7-23(64226)
शङ्खाभाः शङ्खवक्त्राश्च शङ्खवर्णास्तथैव च।
शङ्खमालापरिकराः शह्खध्वनिसमस्वनाः॥ 10-7-24(64227)
जटाधराः प़ञ्चशिखास्तथा मुण्डाः कृशोदराः।
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः॥ 10-7-25(64228)
मौञ्जीधराश्च राजेन्द्र तथा कुञ्चितमूर्धजाः।
उष्णीषिणः कुण्डलिनश्चारुवक्त्राः स्वलङ्कृताः॥ 10-7-26(64229)
पद्मोत्पलापीडधरास्तथा मुकुटधारिणः।
महात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः॥ 10-7-27(64230)
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः।
भुशुण्डीपाशहस्ताश्च दण़्डहस्ताश्च भारत॥ 10-7-28(64231)
पृष्ठेषु बद्धेषुधयश्चित्रबाणोत्कटास्तथा।
सध्वजाः सपताकाश्च सघण्टाः सपरश्वथाः॥ 10-7-29(64232)
महापाशोद्यतकरास्तथा लगुडपाणयः।
स्थूणाहस्ताः खङ्गहस्ताः सर्पोच्छ्रितकिरीटिनः॥ 10-7-30(64233)
महासर्पाङ्गदधराश्चित्राभरणधारिणः।
रजोध्वजाः पङ्कदिग्धाः सर्वे चित्राम्बरस्रजः।
नीलाङ्गाः पिङ्गलाङ्गाश्च मुण्डवक्तास्तथैव च॥ 10-7-31(64234)
भेरीशङ्खमृदङ्गांश्च झर्झरानकगोमुखान्।
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः॥ 10-7-32(64235)
गायमानास्तथैवान्ये संहृष्टाः पुरुषर्षभाः।
लङ्घयन्तः प्लुवन्तश्च वल्गन्तश्च महारथाः॥ 10-7-33(64236)
धावन्तो जवनाश्चण्डाः पावकोद्वूतमूर्धजाः।
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः॥ 10-7-34(64237)
सुभीमा घोररूपाश्च शूलपट्टसपाणयः।
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः॥ 10-7-35(64238)
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा।
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः॥ 10-7-36(64239)
पातारोऽसृग्वसाज्यानां मांसान्त्रकृतभोजनाः।
चूडालाः कर्णिकाराश्च प्रहृष्टाः पिठरोदराः॥ 10-7-37(64240)
अतिहस्वातिदीर्घाश्च प्रलम्बाश्चातिभैरवाः।
विकटाः काललंबोष्ठा बृहच्छेफाण्डपिण्डिकाः॥ 10-7-38(64241)
महार्हनानाविकटा मुण्डाश्च जटिलाः परे।
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युस्ते महीतले॥ 10-7-39(64242)
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम्।
ये च वीतभया नित्यं हरस्य भ्रुकुटीसहाः॥ 10-7-40(64243)
कामकारकरा नित्यं त्रैलोक्यस्येश्वरेश्वराः।
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः॥ 10-7-41(64244)
प्राप्याष्टगुणमैश्वर्यं ये न यास्यन्ति वै स्मयम्।
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः॥ 10-7-42(64245)
मनोवाक्कर्मभिर्युक्तैर्नित्यमाराधितश्च यैः।
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान्॥ 10-7-43(64246)
पिबन्तोऽसृग्वसाश्चान्ये क्रुद्धा ब्रह्मद्विषां सदा।
चतुर्विधात्मकं सोमं ये पिबन्ति च सर्वदा॥ 10-7-44(64247)
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च।
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः॥ 10-7-45(64248)
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः।
महाभूतगणैर्भुङ्क्ते भूतभव्यभवत्प्रभुः॥ 10-7-46(64249)
नानावादित्रहसितक्ष्वेडितोत्कृष्टगर्जितैः।
सन्त्रासयन्तस्ते विश्वमश्वत्थामानमभ्ययुः॥ 10-7-47(64250)
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः।
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः॥ 10-7-48(64251)
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः।
भीमोग्रपरिघालातशूलपट्टसपाणयः।
घोररूपाः समाजग्मुर्भूतसङ्घाः सहस्रशः॥ 10-7-49(64252)
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात्।
न च तान्प्रेक्षमाणोऽपि व्यथामुपजगाम ह॥ 10-7-50(64253)
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान्।
स्वयमेवात्मनात्मानमुपहारमुपाहरत्॥ 10-7-51(64254)
धनूंषि समिधस्तत्र पवित्राणि सिताः शराः।
हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि॥ 10-7-52(64255)
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान्।
उपहारं महामन्युरथात्मानमुपाहरत्॥ 10-7-53(64256)
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम्।
अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः॥ 10-7-54(64257)
द्रौणिरुवाच। 10-7-55x(5274)
इममात्मानमद्याहं जातमाङ्गिरसे कुले।
स्वग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम्॥ 10-7-55(64258)
भवद्भक्त्या महादेव पस्मेण समाधिना।
अस्यामापदि विश्वात्मन्नुपाकुर्मी तवाग्रतः॥ 10-7-56(64259)
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै।
गुणानां हि प्रधानानां कैवल्यं त्वयि तिष्ठति॥ 10-7-57(64260)
सर्वभूताश्रय विभो हविर्भूतमवस्थितम्।
प्रतिगृहाण मां देव यद्यशक्याः परे मया॥ 10-7-58(64261)
इत्युक्त्वा द्रौणिरास्थाय तां देवीं दीप्तपावकाम्।
सन्त्यज्यात्मानमारुह्य कृष्णवर्त्मन्युपाविशत्॥ 10-7-59(64262)
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम्।
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव॥ 10-7-60(64263)
सत्यशौचार्जवत्यागैस्तपसा नियमेन च।
क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा॥ 10-7-61(64264)
यथावदहमाराद्वः कृष्णेनाक्लिष्टकर्मणा।
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते॥ 10-7-62(64265)
कुर्वता तात सम्मानं त्वां च जिज्ञासता मया।
पाञ्चालाः सर्वदा गुप्ता मायाश्च बहुशः कृताः॥ 10-7-63(64266)
कृतस्तस्यैव सम्मानं पाञ्चालान्रक्षता मया।
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम्॥ 10-7-64(64267)
एवमुक्त्वा महात्मानं भगवानात्मनस्तनुम्।
आविवेश ददौ चास्मै विमलं खङ्गमुत्तमम्॥ 10-7-65(64268)
अथाविष्टो भगवता भूयो जज्वाल तेजसा।
वेगवांश्चाभवद्युद्धे देवसृष्टेन तेजसा॥ 10-7-66(64269)
तं दृष्ट्वा तानि भूतानि रक्षांसि च समाद्रवन्।
अभितः शिबिरं यान्तं द्रोणपुत्रं महारथम्।
देवदेवं हरं स्थाउं यान्तं साक्षादिवेश्वरम्॥ ॥ 10-7-67(64270)
इति श्रीमन्महाभारते सौप्तिकपर्वणि सप्तमोऽध्यायः॥ 7 ॥
Mahabharata - Sauptika Parva - Chapter Footnotes
10-7-1 रथोपस्थाद्दध्यौ स प्रयतः स्थितः इति क.पाठः॥ 10-7-5 सोऽहमात्मोपहारेणेति झ.पाठः॥ 10-7-9 उमाभूषणतत्परमिति झ.पाठः॥ 10-7-11 हिरण्यदण़्डकवचं चारुमौलिविभूषणमिति क.पाठः॥ 10-7-17 प्लुवमुखाः मण्डूकवक्ताः॥ 10-7-18 दार्वाघाटः पक्षिविशेषः। महागजसवकाश्चेति क.पाठः॥ 10-7-38 पिण़्डिका जानुनोरधः---पश्चाद्भागः॥ 10-7-53 सौम्येन सोमदैवत्येन मन्त्रेण॥ 10-7-7 सप्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|