(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
10.6. अध्यायः 006
Mahabharata - Sauptika Parva - Chapter Topics
अश्वत्थाम्नः शिबिरद्वारस्थमहाभूतदर्शनम्॥ 1 ॥ भूतजिगीषया द्रौणिविसृष्टानामस्त्रशस्त्राणां भूतेन ग्रसनम्॥ 2 ॥ ततश्चिंतातान्तश्च द्रौणेर्महादेवोपासनाध्यवसायः॥ 3 ॥


Mahabharata - Sauptika Parva - Chapter Text

धृतराष्ट्र उवाच। 10-6-0x(5270)(64168)
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ।
अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे॥ 10-6-1(64169)
स़ञ्जय उवाच। 10-6-2x(5271)
कृतवर्माणमामन्त्र्य कृपं च स महारथः।
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत्॥ 10-6-2(64170)
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम्।
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं रोमहर्षणम्॥ 10-6-3(64171)
वसानं चर्म वैयाघ्रं वसारुधिरविस्रवम्।
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम्॥ 10-6-4(64172)
बाहुभिः स्वायतैर्भीमैर्नानाप्रहरणोद्यतैः।
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम्॥ 10-6-5(64173)
दंष्ट्राकरालवदनं व्यादितास्यं भयानकम्।
नयनानां सहस्रैश्च विचित्रैरभिभूषितम्॥ 10-6-6(64174)
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव च।
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः॥ 10-6-7(64175)
तस्यास्यनासिकाभ्यां च श्रवणाभ्यां च सर्वशः।
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः॥ 10-6-8(64176)
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः।
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः॥ 10-6-9(64177)
तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम्।
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत्॥ 10-6-10(64178)
द्रौणिमुक्ताञ्छरांस्तांस्तु तद्भूतं महदग्रसत्।
उदधेरिव वार्योघान्पावको बडबामुखः॥ 10-6-11(64179)
अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान्निरर्थकान्।
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव॥ 10-6-12(64180)
सा तमाहत्य दीप्ताग्रा रथशक्तिरदीर्यत।
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता॥ 10-6-13(64181)
अथ हेमत्सरुं दिव्यं खङ्गमाकाशवर्चसम्॥
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम्॥ 10-6-14(64182)
ततः खङ्गवरं धीमान्भूताय प्राहिणोत्तदा।
स तदासाद्य भूतं वै विलयं तूलवद्ययौ॥ 10-6-15(64183)
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम्।
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत्॥ 10-6-16(64184)
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः।
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः॥ 10-6-17(64185)
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः।
अचिन्तयत्सुसन्त्रस्तः कृपभोजवचः स्मरन्॥ 10-6-18(64186)
ब्रुवतामप्रियं पथ्यं सुहृदां न शृमोति यः।
स शोचत्यापदं प्राप्य थाऽहमवमत्य तौ॥ 10-6-19(64187)
शास्त्रदृष्टानविद्वान्यः समतीत्य जिघांसति।
स पथः प्रच्युतो धर्म्यात्कुपथे प्रतिहन्यते॥ 10-6-20(64188)
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा।
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च॥ 10-6-21(64189)
मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च मातयेत्।
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा॥ 10-6-22(64190)
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम्।
अमार्गेणैवमारभ्य घोरामापदमागतः॥ 10-6-23(64191)
तां चापदं घोरतरां प्रवदन्ति मनीषिणः।
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते॥ 10-6-24(64192)
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह।
न हि दैवाद्गरीयो वै मानुष्यं किञ्चिदिष्यते॥ 10-6-25(64193)
मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति।
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते॥ 10-6-26(64194)
प्रतिज्ञानं ह्यविज्ञानं प्रवदन्ति मनीषिणः।
यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते॥ 10-6-27(64195)
तदिदं दुष्प्रणीतेन भयं मा समुपस्थितम्।
न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन॥ 10-6-28(64196)
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम्।
न चैतदभिजानामि चिन्तयन्नपि सर्वथा॥ 10-6-29(64197)
ध्रुवं येयमधर्मेण प्रहिता कलुषा मतिः।
तस्याः फलमिदं घोरं प्रतिघाताय कल्पते॥ 10-6-30(64198)
तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम्।
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन॥ 10-6-31(64199)
सोऽहमद्य महादेवं प्रपद्ये शरणं विभुम्।
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति॥ 10-6-32(64200)
कपर्दिनं प्रपद्येऽहं देवदेवमुमापतिम्।
कपालमालिनं रुद्रं भगनेत्रहरं हरम्॥ 10-6-33(64201)
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च।
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम्॥ ॥ 10-6-34(64202)

इति श्रीमन्महाभारते सौप्तिकपर्वणि षष्ठोऽध्यायः॥ 6 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes
10-6-12 रथशक्तिं चक्रम्॥ 10-6-13 युग्मान्ते सूर्यमिति झ.पाठः तत्र युग्मान्ते मिथुनराशेरन्ते अतिदीप्तं इत्यर्थः॥ 10-6-15 विलं नकुलवद्ययौ इति झ.पाठः॥ 10-6-17 अनाकाशं निरवकाशम्॥ 10-6-6 षष्ठोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.