|
|
 |
 |
|
|
१० सौप्तिकपर्व.jpg)
॥ श्रीः ॥
10.3. अध्यायः 003
Mahabharata - Sauptika Parva - Chapter Topics
द्रौणिना कृपवचनमनादृत्य कृपकृतवर्मणोः पुरतः निशि प्रसुप्तपाण्डुपाञ्चालहननप्रतिज्ञानम्॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Text
सञ्जय उवाच। 10-3-0x(5265)(64053)
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्।
अश्वत्थामा महाराज दुःखशोकसमन्वितः॥ 10-3-1(64054)
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा।
क्रूरं मनस्ततः कृत्वा तावभौ प्रत्यभाषत॥ 10-3-2(64055)
पुरुषेपुरुषे बुद्धिर्याया भवति शोभना।
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वयास्वया॥ 10-3-3(64056)
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्।
सर्वस्यात्मा बहुमतः सर्वोत्मानं प्रशंसति॥ 10-3-4(64057)
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता।
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत्॥ 10-3-5(64058)
कारणान्तरयोगेन येषां संवदते मतिः।
तेऽन्योन्येन च तुष्यन्ति बहुमन्यन्ति चासकृत्॥ 10-3-6(64059)
तस्यैव तु मनुष्यस्य सासा बुद्धिस्तदातदा।
कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते॥ 10-3-7(64060)
अनित्यत्वात्तु चित्तानां मनुष्याणां विशेषतः।
चित्तवैक्लब्यमासाद्य सासा बुद्धिः प्रजायते॥ 10-3-8(64061)
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि।
भैषज्यं कुरुते योगात्प्रशमार्थमिति प्रभो॥ 10-3-9(64062)
एवं कार्यस्य योगात्प्रशमार्थमिति प्रभो॥
प्रज्ञया च स्वया युक्त्या तां च गृह्णन्ति वै बुधाः॥ 10-3-10(64063)
अन्यया यौवने बाल्ये बुद्ध्या भवति मोहितः।
मध्येऽन्यया जरायां तु सोन्यां रोचयते मतिम्॥ 10-3-11(64064)
व्यसन वा महाघोरं समृद्धिं चापि तादृशीम्।
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम्॥ 10-3-12(64065)
एकस्मिन्नेव पुरुषे सासा बुद्धिस्तदातदा।
भवत्यनित्या प्रज्ञा हि सा तस्यैव न रोचते॥ 10-3-13(64066)
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति।
तया प्रकुरुते भावं सा तस्योद्योगकारिका॥ 10-3-14(64067)
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः।
कर्तुमारभते प्रीतिं मरणादिषु कर्मसु॥ 10-3-15(64068)
सर्वे हि युक्तां विज्ञाय प्रज्ञां वापि स्वकां नराः।
चेष्टन्ते विविधां चेष्टां हितमित्येव जानते॥ 10-3-16(64069)
उपजाता व्यसनजा येयमद्य मतिर्मम।
युवयोस्तां प्रवक्ष्यामि सर्वेषां शोकनाशिनीम्॥ 10-3-17(64070)
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च।
वर्णेवर्णे समाधत्त ह्येकैकं गुणवत्तरम्॥ 10-3-18(64071)
ब्राह्मणे वेदमग्र्यं तु क्षत्रिये तेज उत्तमम्।
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम्॥ 10-3-19(64072)
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियो मृतः।
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान्॥ 10-3-20(64073)
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणैरभिपूजिते।
मन्दभाग्यतयाऽस्म्येतं क्षत्रधर्ममनुष्ठितः॥ 10-3-21(64074)
क्षत्रधर्मं विदित्वाऽहं यदि ब्राह्मण्यमाश्रितः।
प्रकरिष्ये महत्कर्म न मे तत्साधुसम्मतम्॥ 10-3-22(64075)
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे।
पितरं निहतं दृष्ट्वा किन्नु वक्ष्यामि संसदि॥ 10-3-23(64076)
सोऽहमद्य यथाकामं क्षत्रधर्ममवाप्य च।
गन्ताऽस्मि पदवीं राज्ञः पितुश्चापि महात्मनः॥ 10-3-24(64077)
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः।
विमुक्तयुग्यकवचा हर्षेण च समन्विताः।
वयं जिता मताश्चैषां श्रान्ता व्यायामकर्शिताः॥ 10-3-25(64078)
तेषां निशि प्रसुप्तानां सुस्थानां शिबिरे स्वके।
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम्॥ 10-3-26(64079)
तानवस्कन्द्य शिबिरे प्रेतभूतानचेतसः।
सूदयिष्यामि विक्रम्य मघवानिव दानवान्॥ 10-3-27(64080)
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान्।
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः॥ 10-3-28(64081)
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धाऽस्मि सत्तम॥ 10-3-29(64082)
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे।
पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव॥ 10-3-30(64083)
अद्याहं सर्वपाञ्चालान्निकृत्या च निकृष्य च।
अर्दयिष्यामि संहृष्टो रणे पाण्डुसुतांस्तथा।
`सूदयिष्यामि सङ्क्रुद्धः पशूनिव पिनाकधृत्'॥ 10-3-31(64084)
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम्।
प्रहृत्यैकेन शस्त्रेण भविष्याम्यनृणः पितुः॥ 10-3-32(64085)
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि।
गमिष्यामि निशावेलां पदवीमद्य दुर्गमाम्॥ 10-3-33(64086)
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि।
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात्॥ 10-3-34(64087)
अद्य पाञ्चालपाण्डूनां शयितानां शिरो निशि।
खङ्गेन निशितेनाजौ प्रमथिष्यामि गौतम॥ 10-3-35(64088)
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके।
कृतकृत्यः सुखी चैव भविष्यामि महामते॥ ॥ 10-3-36(64089)
इति श्रीमन्महाभारते सौप्तिकपर्वणि तृतीयोऽध्यायः॥ 3 ॥
Mahabharata - Sauptika Parva - Chapter Footnotes
10-3-4 सर्वोत्मानमित्यत्र सर्व आत्मानमिति च्छेदः। सन्धिरार्षः॥ 10-3-6 योगे येषां समा गतिरिति झ.पाठः। तत्र योगे समुदाये इत्यर्थः॥ 10-3-10 तां च निन्दन्ति मानवा इति झ.पाठः॥ 10-3-12 हे भोज हे कृतवर्मन्। एकमेव सम्बोधयन् कृपस्य वचसि अनादरं सूचयति॥ 10-3-13 भवत्यकृतवुद्धित्वादिति झ.पाठः। तत्र अकृतधर्मत्वात् अवसरानुरोधात्। इदानीं मम शान्तिबुद्धिर्न रोचते इत्यर्थः॥ 10-3-20 क्षत्रियोऽधम इति झ.पाठः॥ 10-3-22 विदित्वा आश्रित्य॥ 10-3-24 गन्तास्मि गमिष्यामि। पदवीं आनृण्यम्॥ 10-3-33 गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमामिति झ.पाठः॥ 10-3-3 तृतीयोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|